भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 233 of 639
Read in contextआनन्दमयस्थ ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २१५
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी। यस्मादानन्दमयाधिकारे—'रसो वै सः। रसं ह्ये-
वायं लब्ध्वानन्दीभवति' ( तै० २।७ ) इति जीवानन्दमयौ भेदेन व्यपदिशति। नहि
लब्धैव लब्धव्यो भवति। कथं तर्हि 'आत्माऽन्वेष्टव्यः', 'आत्मलाभान्न परं विद्यते'
इति श्रुतिस्मृती ? यावता न लब्धैव लब्धव्यो भवतीत्युक्तम्। बाढम्, तथाप्यात्मनो-
ऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मस्वात्मत्व-
निश्चयो लौकिको दृष्टः। तेन देहादिभूतस्यात्मनोऽप्यात्माऽनन्विष्टोऽन्वेष्टव्योऽलब्धो
लब्धव्योऽश्रुतः श्रोतव्योऽमतो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in