Skip to content
SarvaKosh
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)

Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)

Report a copyright issue

DevanagariHindipublished639 pages

Page 165 of 639

Read in context
Page 165
Page 165 scan

अविषये शास्त्रयोनित्वम् ] हिन्दीसहितभामतीसंवलितम् १४७

कर्मत्वप्रतिषेधाद्, ‘येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृह० २।४।१३) इति च। तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति – ‘यद्वाचानभ्युदितं येन वागभ्युद्यते’ इत्यविषयत्वं ब्रह्मण उपन्यस्य, ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (केन० १।४) इति। अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत्, – न; अविद्याकल्पितभेद-निवृत्तिपरत्वाच्छास्त्रस्य। न हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषति। किं तर्हि? प्रत्यगात्मत्वेनाविषयतया प्रतिपादयदविद्याकल्पितं वेद्यवेदितृवेदनादिभेद-मपनयति। तथा च शास्त्रम् – ‘यस्याऽमतं तस्य मतं मतं यस्य न वेद

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in