भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)
Bhaishajya Ratnavali Hindi
by कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल)
Source: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (origin)
Public domain in India · Report a copyright issue
Page 553 of 1416
Read in contextचिकित्सा ] भाषार्टीकासहिता । ५२१
बिल्वाग्निमन्थश्योनाकः काश्मरी पाटला बला ।
मुस्तं पुनर्नवा धात्री बृहतीवृषपत्रकम् ॥ ८५ ॥
विदारी शतमूली च कर्षैरेषां पृथग्रसैः ।
मर्दयित्वा पुनर्वासास्वरसैर्दशतोलकैः ॥ ८६ ॥
मर्दयेत्तत्र शुद्धाभ्रं रसस्य द्विगुणं क्षिपेत् ।
रसस्यार्द्धं च कर्पूरं तत्रैव दापयेद्भिषक् ॥ ८७ ॥
जातीकोषफले मांसी तालीशैलालवङ्गकम् ।
चूर्णं कृत्वा प्रयत्नेन माषमात्रं क्षिपेत्पृथक् ॥
विदारीस्वरसेनैव वटिकां कारयेद्भिषक् ॥ ८८ ॥
शुद्ध पारा और शुद्ध गन्धक दोनोंको दो दो तोले लेकर कज्जली करलेवे । फिर उस कज्जलीको बेल, अरणी, अरलू, कम्भारी, पाढर, खिरैंटी इनकी छाल, नागरमोथा, पुनर्नवा, आमले, बडी, कटेरी, अडूसेके पत्ते, विदारीकन्द और शतावर इन प्रत्येकके एक एक कर्ष रसके साथ क्रमसे खरल करके फिर अडूसेके पत्तोंके १० तोले रसमें खरल करे । पश्चात् सुखाकर उसमें शुद्ध अभ्रकभस्म ४ तोले, कपूर एक तोला एवं जावित्री, जायफल, जटामांसी, तालीशपत्र, इलायची और लौंग प्रत्येकको एक एक माशे लेकर बारीक चूर्ण करके मिलादेवे, फिर विदारीकन्दके रसमें खरल करके दो दो रत्तीकी गोलियाँ बनालेवे ॥ ८४–८८ ॥
राजयक्ष्माणमत्युग्रं क्षयं चोग्रमुरःक्षतम् ॥ ८९ ॥
कासं पञ्चविधं श्वासं स्वराघातमरोचकम् ।
कामलां पाण्डुरोगं च प्लीहानं सहलीमकम् ॥ ९० ॥
जीर्णज्वरं तृषां गुल्मं ग्रहणीमामसम्भवाम् ।
अतीसारं च शोथं च कुष्ठानि च भगन्दरम् ॥ ९१ ॥
नाशयेदेष विख्यातस्तरुणानन्दसंज्ञितः ।
रसायनवरो वृष्यश्चक्षुष्यः पुष्टिवर्द्धनः ॥ ९२ ॥
सहस्रं याति नारीणां भक्षणादस्य मानवः ।
क्षीणता न च शुक्रस्य न च बुद्धिबलक्षयः ॥ ९३ ॥
द्विमासमुपयोगेन निहन्ति सकलान् गदान् ।
शुक्रसंदीपनं कृत्वा ज्वरं हन्ति न संशयः ॥ ९४ ॥