Skip to content
SarvaKosh
Back to the archive

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

by आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य)

Report a copyright issue

DevanagariHindipublished366 pages

About this granth

The Baudhayana Shulbasutra (बौधायनशुल्बसूत्रम्) deals with the construction of altars for Vedic sacrifice and is one of the oldest sources for Indian mathematics, especially geometry. Shulba means cord, the measuring rope used to lay out the altars. To keep their shapes and areas exact, the text states geometrical rules, among them the theorem now known by Pythagoras's name and a very close value for the square root of two.

It covers units of measure, methods for drawing right angles and squares, turning a circle into a square and a square into a circle, adding and subtracting areas, and then the building of the fire altars of the agnichayana: the garhapatya and ahavaniya, and altars shaped like a falcon, a chariot wheel, a trough, a forked shape and a heron.

This edition gives the sutras with two Sanskrit commentaries, the Bodhayanashulbamimamsa of Vyankateshvara Dikshita and the Shulbadipika of Dwarakanatha Yajva. It was edited by Pandit Vibhutibhushan Bhattacharya, former librarian of Sampurnanand Sanskrit University, and published in 1979 as number 107 of the Sarasvati Bhavana Granthamala. It has 366 pages.

Page 84
Page 84 scan

५४ शुल्वसूत्रम् [ द्वितीयो-

कथनस्य अपक्षपुच्छसमचतुरश्राकारविषयत्वेन उक्तत्वात् । एकविध-
प्रभृतीनामनुष्ठाने तदप्यनर्थकं स्यात् । तस्मादेकविधप्रभृतीनां प्रथमतर्-
मनुष्ठानं संभवति । नापि द्वितीयः “न ज्यायांस”मिति श्रुतेः
सपक्षपुच्छाग्निविषयत्वेनाप्युपपत्तेस्तस्मात् तन्नोपपद्यत इत्येतत् नोपपद्यत

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 85
Page 85 scan

ऽध्यायः ] बौधायनीयं ५५
स्मिन्नेवाग्निचय इतरेषु सावित्राः स्यु"रिति । अत एव "अथेमे अग्नि-
चया" इत्यस्मिन् सूत्रे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 86
Page 86 scan

५६ शुल्बसूत्रम् [ द्वितीयो-
वचनात् पशु-चातुर्मास्यादीनां प्रथमानुष्ठानम्। तस्माद् यत्र सामर्थ्यं वचनं वा
नास्ति तत्र प्रकृतेः प्रथमानुष्ठानम्।
अथापरेषामिति। ब्राह्मणं भवतीत्येव। अथ शब्दः पूर्ववत्। न ज्यायांसं
वृद्धतरं बृहत्तरमग्निं चित्वा कनीयांसमल्पतरं न चिन्वीत ॥ ६ ॥
अथास्माकम्। पक्षी भवति। नह्यपक्षः पतितुमर्हति।
अरत्निना पक्षौ द्राघीयांसौ भवतः।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 87
Page 87 scan

ऽध्यायः ] बौधायनीयं ५७
करोति--न चेति। आसप्तविधस्य एकविधादेः पक्षपुच्छानि न विद्यन्ते।
एकविधादीनां सपक्षपुच्छतया अनुष्ठानं नास्तीत्यर्थः। ननु आसप्तविध-
स्येत्युक्तेरष्टविधादीनां सपक्षपुच्छतानिषेधः किं न स्यादिति चेन्न। द्विती-
यादिभावेनानुष्ठेयानां श्येन-कङ्काकारतया कर्त्तव्यत्वावगमात् तेषामपि
सपक्षपुच्छताया आवश्यकत्वात् निषेधस्य च एकविधादिविषयत्वोपपत्तेः।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 88
Page 88 scan

५८ शुल्बसूत्रम् [ द्वितीयो-
त्तरयोरिति । अग्न्यन्तेषु का गतिरित्यत आह—तदिति । तद्भेदान्
वर्जयेदित्येतत् असिपर्यन्तेषु न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 89
Page 89 scan

ऽध्यायः ] बौधायनीयं ५६
तावतीरिष्टका उपधाय शेषा इष्टका इष्टकामन्त्रयोरिष्टका व्यतिरेक इति न्यायेन द्वैधो-
क्तमार्गेण गणावृत्त्या वा उपधेयाः । पञ्चमायां चितौ मन्त्राणां भूयस्त्वान्मन्त्र
व्यतिरेक अक्ताः शर्करा इति न्यायेनोपधानम् ।
पञ्चमायामिति । एवं वा तत्र मन्त्राणामपर्याप्तत्वाद् यावत् सिद्धैर्मन्त्रैः पञ्च-
लोकंपृणाभिश्चोपधाय शेषाः पञ्चमायां चितावुपदध्यात् । तत्रापीष्टकाव्यतिरेके

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 90
Page 90 scan

६० शुल्बसूत्रम् [ द्वितीयो-
दक्षिणोत्तरपार्श्वयोरिष्टकानां समानरूपप्रतिपादनार्थं ब्राह्मणान्तरमाह—
पश्विति । तत्समानमिति । तत् सदृशम् । अस्थ्याभिप्रायेण नपुंसकत्वं । यदवाक् पश्चाद्
भागः । ऊर्ध्वञ्च पूर्वभागः । तत् समानम् तदुभयं सदृशं भवति । एवमिष्टकानां
रूपाण्युपदध्यात् एवमिष्टकाः कुर्यादित्युक्तं ब्राह्मणे । तस्यार्थमाह या दक्षिणावृतो
लेखा ( २।१२ सू० ) इत्यादिना । तथा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 91
Page 91 scan

या दक्षिणावृत इति लोक इष्टकाकारिणां प्रसिद्धमनूद्य देशविधानात् लोके च
लेखाधिकारस्य प्रायिकत्वात् कल्पेऽनुक्तत्वाच्च लेखाधिकारो विकल्पते । लेखा-
करणपक्ष अग्निक्षेत्रं पञ्चधा विभज्य प्रोक्षणदेशवद् दिक्सम्बद्धलेखायुक्तास्तेपू-
पदध्यात् ॥ १२ ॥
अथ या विशयस्था यथा ह वै पशोः पृष्ठवंशो नैवैकस्मिन्
**पार्श्वे व्यतिरेकेण वर्त्तते नैवापरस्मिन् एवं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 92
Page 92 scan

५२ शुल्बसूत्रम् [द्वितीयो-
इष्टकानामग्निसाम्यात्प्रतिपादनादग्नेः पशुधर्मत्वकथनपरं ब्राह्मण-
मुदाहरति—अथापोति । प्रजापतिरथर्वा नामोऽग्निः । आथर्वणः
अथर्वपुत्रो दध्यङ् नाम । तस्याग्नेः इष्टका अस्थीनि । एवं पशुधर्मत्वमुक्तम् ।
तथा चाग्निः पशुवत् तुल्योपमपार्श्वः पृष्ठवंशे सदृशमध्येष्टकश्चेतव्य इत्युक्तं
भवति ॥ १४ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 93
Page 93 scan

ऽध्यायः ] बौधायनीयं ६३
तत्र यदि बहिस्तन्वमग्निं चिनुयात् तन्वोपसवमध्यैः, तन्वानामुपसव-
मध्यास्तन्वोपसवमध्याः, उपसवशब्दोऽन्तपर्यायः, तेषां मध्येरात्मोपसवाना-
मात्मोपसवमध्यान् पार्श्वानां मध्यान् संदध्यात् । आत्मनः पूर्वपार्श्वान्तमध्यं
शिरसः पश्चिमान्तमध्येन संयोजयेत् । एवं पक्षादिषु द्रष्टव्यम् । कङ्कपादयोस्तु
तावदन्तरालविधानात् सान्तरालपद्वयमध्यं पुच्छान्तमध्ये भवति । अन्यथा-
सम्भवात् । कूर्मे तु प्रध्यपच्छेदमध्यान्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 94
Page 94 scan

६४ शुल्बसूत्रम् [द्वितीयो-
ब्राह्मणादवगम्यते । अमृन्मयत्वे च इष्टकचित्त्वं व्याहन्येत । इष्टकाभिरेव
चित इष्टकचित्त्वात् । अग्नेः पशुधर्मत्वे मृन्मयीभिरेवेष्टकाभिः संख्या-
पूरणे ब्राह्मणमुदाहरति--पशुर्वैति । अपस्योपधानविधिविशेषोऽयमर्थ-
वादः । अयमग्निः पशुधर्मत्वात् पशुः । अस्य पशुरूपस्याग्नेः एषा पुष्कर-
पर्णरूपयोनिः इष्टकोपधानात् ( पूर्वंयजुषा कृतेन

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 95
Page 95 scan

ऽध्यायः ] बौधायनीयं ६५
खात्वा तत्रोपधाय समां भूमिं कृत्वा अपनीता इष्टकाः स्थाप्याः। अवकाः ( ? )
स्वयमातृण्णाश्चोत्तरास्वपि चितिषु दृष्टत्वात् सर्वत्र सन्धिषूपदध्यात् ॥ १८॥
मण्डलमृषभं विकर्णीमितीष्टकासु लक्ष्माणि प्रतीयात् ॥१९॥
मण्डलेष्टका उपदधाति ऋषभेष्टका उपदधाति विकर्णीमुपदधाती-
त्यादिविधानेन मण्डलाद्याकारतया इष्टकाकरणे प्राप्ते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 96
Page 96 scan

६६ शुल्बसूत्रम् [ द्वितीयो-
गणावृत्तौ द्विशताश्चेदित्यस्मिन् पक्षे पञ्चमायां चितौ च अवश्यं पञ्चोपधेया
इति तस्यार्थः । अनुष्टुभानुचरतीति वचनात् । तस्मात् प्राणः सर्वाण्यङ्गान्यनु-
चरतीति अर्थवादाच्च । द्वितीये प्रस्तारे शतमष्टत्रिंशच्चातिरिक्ताः । तृतीये पञ्च-
दशातिरिक्ताः । चतुर्थे षोडशाधिकं सप्तदशाधिकं वा शतम् । पञ्चमे नेष्टकातिरेक
उत्तमायां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 97
Page 97 scan

ऽध्यायः } बोधायनीयं ६७
यत्र श्रूयते तत्र तेषु गणेषु रीतेर्वादः, श्रेण्या वादः अभिधानं, प्रागपवर्गा
प्रत्यगपवर्गा च रीतिं समापयेदित्यर्थः । इदमुपलक्षणम् । उदीची-
रुपदधाति दक्षिणा उपदधातीत्यत्रापि उदगपवर्गा दक्षिणापवर्गाञ्च रीतिं
समापयेदिति द्रष्टव्यम् । प्राचीरिति । इष्टकायाः प्राङ्मुखत्वाद्यसम्भवात्
कर्तुः प्राङ्मुखत्वाद्यभिप्रायेण अयं व्यपदेशः । पुरस्तादन्या इति ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 98
Page 98 scan

स्यादिति वा ) चतुरश्रकृतामिष्टकां भित्वा तत्संपादितेष्टकां नोपदध्या-
दित्यर्थः । न भिन्नामिति । भिन्नां रेखाकारतया संयुक्तां स्फुटितामिष्टकां
नोपदध्यात् । न जीर्णामिति । न जीर्णां चिरकालसंपादिताम् । अत एव
“यद्युवै संवत्सरभृतं दीर्घोऽध्वाऽजिरिति नाद्रियेत” इति उख्यस्य संवत्सरभरण-
पक्षे उपकल्पनं निषिद्धम् । न कृष्णामिति । कृष्णां पाकाधिक्येन न्यून-
तया

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 99
Page 99 scan

ऽध्यायः ] बौधायनीयं ६६
रन्ध्रान्तः स्वयमातृष्णाकत्वेनोपधाने द्वितीयप्रस्तारादावेवं मध्यरन्ध्रान्तं
पिधानोपायेनोपधाने सिध्यतीति द्रष्टव्यम्। ननु तृतीयस्याः स्वयमा-
तृष्णायाः सर्वप्रस्तारसमाप्तावुपधेयत्वेनेष्टकाभिरपिधानप्रसक्त्यभावात् कथं
तन्निषेध इत्यत आह—स्वयं चिताविति। इष्टकायां स्वयं चित्ताववस्थायां
ताभिः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 100
Page 100 scan

७० शुल्बसूत्रम् [ द्वितीयो-
नियतवचनाभावात् । न केवलं विवरेष्वेव निम्नोन्नतपरिहारार्थं जान्वादिप्रमाणा-
विरोधेन पुरीषोपधानम् । तस्मान्मांसेन इत्यर्थवादेन शोषपाकाभ्यां ह्रासवचनेन ।
उक्तानि प्रमाणानि करणीनामेव नेष्टकानामित्युक्तं भवति ॥ २८ ॥
[ इति इष्टकाधर्मकथनम् ! ]
व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ॥ २९ ॥
इष्टकाधर्मानुक्त्वा गार्हपत्यासिपरिमाणप्रतिपादिकां श्रुतिमाह—
व्यायाममात्रीति । गार्हपत्यचयनस्य व्यायाममात्री वेदिर्भवतीत्यर्थः ।
एवं चतुररत्निर्यायाम इत्युक्तत्वात् चतुररत्निप्रमाणेन सर्वतो गार्हपत्याग्ने-
रायतनं कुर्यादित्यर्थः ॥ २९ ॥
व्यायामेति । चतुररत्निर्यायामः कल्प एतेनैव ज्यायसः प्रक्रमानित्यस्योपलक्षण-
त्वात् । व्यायाममात्राद् गार्हपत्यपरिमाणात् प्राग्वंशिकमाहवनीयपरिमाणं पद्‌चतुष्टयं
परित्यज्य शिष्टानि षट्त्रिंशदङ्गुलानि प्राग्वंशस्य पूर्वापरप्रक्रमप्रमाणेन षोडशधा
विभज्य सपादमङ्गुलद्वयं प्रक्रमे प्रक्षिप्य प्राग्वंशमानकाले तेन प्रक्रमस्थानीयेन षोडश-
प्रक्रमायाममित्यादिना मित्वा पश्चाद्भागे षष्ट्यङ्गुलं सञ्चरमवशिष्य ततः पुरस्तात्
षष्ट्यङ्गुलविष्कम्भपरिमण्डलं गार्हपत्यायतनं कृत्वा तस्य पुरस्तात् चतुश्चत्वारिंश-
च्छताङ्गुलेन प्रमाणेन शङ्कुं निहत्य ततः षण्णवत्यङ्गुलायामां वेदिं कृत्वा ततः पुरस्तात्
चतुररत्न्यायामञ्च समचतुरस्रमाहवनीयं कृत्वा दीक्षादिवसेषु मध्येऽग्निं निधाय
चयनकाले अथैनमग्निम् इत्यादि एवं कृते प्रकृतिसिद्धयोः पूर्वापरयोः सञ्चरयोर्वे-
द्याश्च सङ्कोचो न भवति । आहवनीयोऽप्यायतनमध्ये निहितो भवति ॥ २६ ॥
चतुरश्रेत्येकेषाम् । परिमण्डलेत्येकेषाम् ॥ ३० ॥
गार्हपत्यस्यायतनभेदावाह—चतुरश्रेति । परिमण्डलेति च । इदमा-
यतनं केषाञ्चिदाचार्याणां पक्षे चतुरश्रम्, केषाञ्चित्तु परिमण्डलम् ॥ ३० ॥
गार्हपत्यचितेः सर्वाङ्गीनामङ्गत्वात् परिभाषाध्याय उच्यते चतुरस्रेति ।
श्रुतिरिति शेषः । परिमण्डल इति । पूर्ववत् । परिमण्डलपक्षे व्यायामार्धेन परिमण्डल-
करणम् । तत्र चतुररत्न्यायामः ॥ ३० ॥
चतुरश्रं सप्तधा विभज्य तिरश्चीं त्रेधा विभजेत् । अपर-
स्मिन् प्रस्तारे उदीचीरुपदधाति । समचतुरश्राश्चेदुप-
दध्यात् ॥ ३१ ॥

Page 101
Page 101 scan

ऽध्यायः ] बौधायनीयं ७१
चतुरश्रपक्षे इष्टकाकरणप्रकारमाह--चतुरश्रमिति । चतुरश्रं दक्षिण-
मारभ्य उदगपवर्गं सप्तधा विभज्य प्रत्यगारभ्य प्रागपवर्गं त्रेधा विभजेत् ।
एवञ्च प्रागायताः सप्तरीतय उदगायतास्तिस्रो रीतयः संपन्नाः । अपर-
स्मिन्निति । उदीच्यः सप्तरीतयः प्राच्यस्तिस्रः समचतुरश्रा यथा भवन्ति
तथोपद्ध्यादित्यर्थः ॥ ३१ ॥
चतुरस्रमिति । पूर्वापरेण सप्तधा विभागः । विभागद्वारेण करणान्युक्तानि
भवन्ति । तत्र द्वात्रिंशदङ्गुल आयामः । दशतिलोनाचतुर्दशाङ्गुलन्यासम् एकमेव
करणम् । अपरस्मिन्निति । उदीचीरुदगायताः । अस्मादेव व्यत्यासवचनाद् अत्रापि
भेदवर्जनं पशुधर्मत्वञ्च आश्रयणीयमिति सूचितं भवति । समचतुरस्त्रेति । इष्टका
इति शेषः ॥ ३१ ॥
व्यायामषष्ठेनेष्टकाः कारयेत् चतुर्थेन तृतीयेनेति ॥ ३२ ॥
अस्मिन्नेव चतुरश्रपक्षे उपधाने प्रकारान्तरमाह--व्यायामषष्ठेनेति ।
षोडशाङ्गुलप्रमाणे समचतुरश्रेष्टकाः कारयेत्, चतुर्थेन अरत्निप्रमाणे
समचतुरश्रा इष्टकाः कारयेत्, तृतीयेन द्वात्रिंशदङ्गुलप्रमाणे समचतुर-
श्रेष्टकाः कारयेत् ॥ ३२ ॥
व्यायामेनेति । अत्र षोडशाङ्गुलेन, अरत्निना, द्वात्रिंशदङ्गुलेन । इति-
रेवमर्थे ॥ ३२ ॥
तासां नव प्रथमा, द्वादश द्वितीया, इति पूर्वस्मिन् प्रस्तार
उपदधाति ॥ ३३ ॥
इष्टकाकरणमुक्त्वोपधानप्रकारमाह--तासामिति । तासां पूर्वोक्तेष्ट-
कानां मध्ये नव प्रथमाः षोडशाङ्गुलप्रमाणा मध्ये संश्लिष्टा उपधाय द्वादश
द्वितीया अरत्निप्रमाणाः सर्वत उपदध्यात् ॥ ३३ ॥
तासामिति । प्रथमाः प्रथमोक्ताः षोडशाङ्गुलाः । द्वितीया द्वितीयोक्ता अरत्नयः ।
इति शब्दः समुच्चयार्थः । अरत्नित्रयसमचतुरस्रे प्रथमा उपदध्यात् । परितो द्वाद-
शारत्नयः । एवं पशुधर्मत्वं भवति ॥ ३३ ॥
पञ्च तृतीयाः षोडश प्रथमा इत्यपरस्मिन् ॥ ३४ ॥
पञ्चेति । अपरस्मिन् प्रस्तारे पञ्च तृतीया द्वात्रिंशदङ्गुलप्रमाणाश्च-

Page 102
Page 102 scan

७२ शुल्बसूत्रम् [ द्वितीयो-
तसृषु दिक्षु चतस्र एका मध्ये, षोडश प्रथमाः षोडशाङ्गुलप्रमाणाश्चतुर्षु-
कोणेषु चतस्रश्चतस्र इष्टका उपदध्यात् ॥ ३४ ॥
पञ्चेति । महादिक्षु चतस्रः मध्ये एका एवं पञ्च तृतीयाः । चतसृषु
स्रक्तिषु चतस्रश्चतस्रश्चतुरस्रकृताः षोडश प्रथमाः । एवं भेदवर्जनं पशुधर्मत्वञ्च
सिध्यति ॥ ३४ ॥
[ इति चतुरश्रागार्हपत्यचित्युपधानम् । ]
परिमण्डलायां यावत्सम्भवेत्तावत् समचतुरश्रं कृत्वा तन्न-
वधा विभजेत् । प्रधींस्त्रिधा त्रिधेति । स्रक्तोरवान्तरदिक्षु संपा-
दयेत् ॥ ३५ ॥
चतुरस्रोपधानमुक्त्वा परिमण्डलकरणमाह—परिमण्डलायामिति ।
चतुरश्रं परिमण्डल(१।४७)मित्यादिना परिमण्डलं कृत्वा कृतायां परिमण्ड-
लायां चितौ यावत् सम्भवति चतुरश्रं तावत् कृत्वा तन्मध्यवर्ति चतुरश्रं
नवधा विभजेत् । प्रथमे प्रस्तारे चतुरः स्रक्तीरवान्तरदिक्षु सम्पादयेत् ।
प्रधीनिति । अवशिष्टांश्चतुरः प्रधींस्त्रिधा त्रिधा विभजेत् । एवं चतसृषु
प्रधिषु द्वादश मध्ये नव आहत्यैकविंशतीष्टका भवन्ति ॥ ३५ ॥
परिमण्डलायामिति । अर्द्धव्यायामेन मण्डलं परिलिखेदित्युक्तम् । तत्र यावत्
प्रमाणं समचतुरस्रं (कृत्वा तन्नवधा विभजेत् ) क्षेत्रमन्यूनानतिरिक्तं मण्डलमध्ये
सम्भवति तावत् प्रमाणं समचतुरस्रं कृत्वा अवान्तरदिक्षु यथा स्रक्तयस्तथा विष्क-
म्भार्द्धिकरणया अष्टषष्ट्यङ्गुलेन चतुस्तिलोनेन समचतुरस्रं कृत्वा तच्चतुरस्रं नवधा
विभजेत् । प्रधीनिति । प्रधिरिव प्रधिः । प्रधिश्चक्रपर्यन्तः । तांस्त्रेधा विभजेत् ।
इतिरेवमित्यर्थे । एवं एकाविंशतिः ( ? ) संपद्यन्त इत्यर्थः । जानोः पञ्चमप्रमाणो-
त्सेधं व्यायामविष्कम्भपरिमण्डलक्षेत्रं क्वचिद् आपाद्य उक्तेन मार्गेण विभजेदि-
त्याचार्यस्य पक्षः ।
गणितविदः करणैरिष्टकाः कुर्वन्ति । त्रीणि करणानि । समचतुरस्रं, प्रधिमध्यं,
प्रध्यन्तमिति । समचतुरस्रं द्वाविंशत्यङ्गुलं सैकविंशतितिलम्, प्रधिमध्यमपार्श्व-
मान्योः प्रमाणमेतदेव । तिर्यङ्मान्यौ दशतिलोनत्रयोदशाङ्गुले । एकं पार्श्वफलकं
धनुरिव तक्षेत् यथा अङ्गुलिर्द्वादशतिलाः शरप्रमाणं भवति । प्रध्यन्तन्तु त्रिक-
रणम् । तस्यापि चतुरस्रवदेकं पार्श्वम् । अपरं पार्श्वं त्रयोदशाङ्गुलं दशतिलोनम् ।

Page 103
Page 103 scan

ऽध्यायः १ ] बौधायनीयं ७३
षड्विंशकं तिलद्वयोनमपरं धनुरिव तक्षेत् । यथा अङ्गुलिः सप्तविंशतितिलाश्च
शरो भवति । स्रक्तीति । प्रथमे प्रस्तारे चतुरस्रस्रक्तीरवान्तरदिक्षु सम्पा-
दयेत् ॥ ३५ ॥
अपरं प्रस्तारं तथोपद्ध्याद् यथा प्रष्ठ्यनीकेषु स्रक्तयो
भवन्ति ॥ ३६ ॥
अपरमिति । अपरस्मिन् प्रस्तारे प्रध्यनीकेषु प्रधिमध्येषु यथा चतुर-
स्रस्य स्रक्तयो भवन्ति तथा चतुरश्रं कृत्वा तं नवधा विभजेत् । तथा च
पूर्वस्रक्तिभाग इह प्रध्यः संपन्नाः, तांस्त्रिधा विभजेत् ॥ ३६ ॥
अपरमिति । प्रध्यनीकेषु प्रधिमध्येषु चतुरस्रस्रक्तयो भवन्ति । महादिक्षु
इत्यर्थः ॥ ३६ ॥
[ इति परिमण्डलगार्हपत्यचित्युपधानम् । ]
धिष्ण्या एकचितीकाश्चतुरश्राः परिमण्डला वा ॥ ३७ ॥
मण्डलपक्षे गार्हपत्योपधानप्रकारमुक्त्वा धिष्ण्योपधानप्रकारमाह—
धिष्ण्या इति । एकचितीका एकप्रस्तारयुक्ताः । अत्र धिष्ण्यक्षेत्रपरिमा-
णकथनादग्निष्टोमोक्तधिष्ण्यपरिमाणक्षेत्रमेव चतुरश्रं परिमण्डलं कर्त्तव्य-
मिति गम्यते ॥ ३७ ॥
धिष्ण्येति । एकचितीका एकप्रस्ताराः । एकचितीकत्वं प्राप्तस्य पुनर्वचनप्रयोजनं
पशुधर्मपरिग्रहार्थम् । ततश्च न खण्डा (२।२४) मित्यादिप्रतिषेधोऽप्याश्रयणीयः । चतु-
रस्राः परिमण्डला वा । धिष्ण्यानां द्विप्रादेशो विष्कम्भ (१।७६) इति वचनात् । माना-
धारस्य क्षेत्रस्य अरत्निविष्कम्भपरिमण्डलत्वात् मण्डलं चतुरस्र (१।४८) मित्यादिना
चतुरस्रकरणम् । तत्र चतुरस्रकरणी एकविंशतिरङ्गुलयो नव तिलाश्च ॥ ३७ ॥
तेषामाग्नीध्रीयं नवधा विभज्यैकस्याः स्थानेऽश्मानमुप-
दध्यात् ॥ ३८ ॥
तेषामिति । तेषां धिष्ण्यानां मध्ये आग्नीध्रीयं नवधा विभज्य मध्ये
अश्मानमुपदध्यात् ॥ ३८ ॥
तेषामिति । तेषां धिष्ण्यानां मध्ये आग्नीध्रीयं नवधा विभज्य "मध्ये दिवो-
निहितः पृश्निरश्मेति" लिङ्गान्मध्यमामुद्धृत्य तत्प्रमाणमश्मानमुपधाय पुरस्तादा-
रभ्येतराभिरुपधानम् ।
१०