बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
by आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य)
About this granth
The Baudhayana Shulbasutra (बौधायनशुल्बसूत्रम्) deals with the construction of altars for Vedic sacrifice and is one of the oldest sources for Indian mathematics, especially geometry. Shulba means cord, the measuring rope used to lay out the altars. To keep their shapes and areas exact, the text states geometrical rules, among them the theorem now known by Pythagoras's name and a very close value for the square root of two.
It covers units of measure, methods for drawing right angles and squares, turning a circle into a square and a square into a circle, adding and subtracting areas, and then the building of the fire altars of the agnichayana: the garhapatya and ahavaniya, and altars shaped like a falcon, a chariot wheel, a trough, a forked shape and a heron.
This edition gives the sutras with two Sanskrit commentaries, the Bodhayanashulbamimamsa of Vyankateshvara Dikshita and the Shulbadipika of Dwarakanatha Yajva. It was edited by Pandit Vibhutibhushan Bhattacharya, former librarian of Sampurnanand Sanskrit University, and published in 1979 as number 107 of the Sarasvati Bhavana Granthamala. It has 366 pages.
७४ शुल्बसूत्रम् [ द्वितीयोऽध्यायः
एतासामेकं करणम् । विभागविधानेन करणान्युपदिष्टानीति वेदितव्यं सर्वत्र ।
परिमण्डलपक्षेऽष्टाङ्गुलविष्कम्भं परिमण्डलमश्मानं मध्ये निधाय परितः सममष्टधा
विभजेत् । एवं भूमौ लिखित्वा इष्टकाः कारयेत् । तत्र बाह्यफलकं बहिर्वक्रम् ।
अभ्यन्तरफलकमन्तर्वक्रम् ॥ ३८ ॥
अथ होतुर्धिष्ण्यं नवधा विभज्य पूर्वास्त्रिभागानैकैकं द्वेधा
विभजेत् ॥ ३९ ॥
अथेति । होतुर्धिष्ण्यमपि नवधा विभज्य पूर्वान् त्रिभागानैकैकं द्वेधा
विभजेत् । आद्यहोतुर्धिष्ण्यमध्ये द्वादशेष्टका भवन्ति ॥ ३६ ॥
अथेति । अथ शब्द उपधानक्रममनुवदति, नेष्टकाकरणक्रमम् । पूर्वान् पूर्व-
रीतिस्थान् । द्वेधा—अष्टाङ्गुलदीर्घान् चतुरङ्गुलव्यासान् । तासामेकं करणम् ।
इतरासाम् आग्नीध्रीयवत् । एवं द्वादशहोत्रीय उपदधातीत्युक्तं भवति । मण्डलपक्षे
द्वादशधा समशः प्रतिविभागः । तत्र बाह्यफलकं धनुर्वक्रम् । अभ्यन्तरं प्रदेशशून्य-
मेव । मण्डलपक्षे सर्वत्र भूमौ लिखित्वा इष्टकाः कारयेत् ॥ ३९ ॥
अथेतरान्नवधा नवधा विभज्य मध्यमपूर्वौ द्वौ भागौ
समस्येत् ॥ ४० ॥
अथेतरानिति । अथेतरान् मैत्रावरुणादिधिष्ण्यानेकैकं नवधा विभज्य
मध्यपूर्वभागमेकीकुर्यात्, आहत्य प्रति धिष्ण्यम् अष्टाविष्टका भवन्ति ॥४०॥
अथेतरेति । इतरान् प्रशास्तृप्रभृतीन् पञ्चधिष्ण्यान् नवधा नवधा विभज्य
द्वितीय-तृतीययोर्मध्यमौ भागौ समस्येत् एकीकुर्यादित्यर्थः । तासामेकैकं करणं
अष्टाङ्गुलन्यासं षोडशाङ्गुलदीर्घम् । उत्तरासाम् आग्नीध्रीयवत् । एवं धिष्ण्या अष्टेष्टका
भवन्ति । मण्डलपक्षे तु समप्रविभागः ॥ ४० ॥
अथ मार्जालीयं त्रेधा विभज्य पूर्वापरौ भागौ पञ्चधा
विभजेत् ॥ ४१ ॥
अथ मार्जालीयमिति । मार्जालीयन्तु त्रेधा विभज्य पूर्वं भागं द्वेधा
विभज्यापरं भागं विभजेत्, आहत्य षडिष्टका भवन्ति ॥ ४१ ॥
अथेति । दक्षिणोत्तरेण त्रेधा विभज्य पूर्वं द्वेधा अष्टाङ्गुलन्यासं द्वादशाङ्गुल-
दीर्घं विभजेत् । तयोरेकं करणम् । अपरं त्रेधा विभजेत् । तासाम् आग्नीध्रीयवदेकं
करणम् । मध्यमस्य धिष्ण्यायाम् अष्टाङ्गुलन्यासमेकं करणम् ।
मण्डले तु समशः षोढा विभागः । एवं धिष्ण्यानां चतुरस्रपक्षे पञ्च करणानि ।
अष्टाङ्गुलसमचतुरस्रमेकम् । तेन द्विपञ्चाशदिष्टकाः । अष्टाङ्गुलदीर्घं चतुरङ्गुल-
ऽध्यायः ] बौधायनीयं ७५
व्यासं द्वितीयम् । तेन षडिष्टकाः । षोडशाङ्गुलदीर्घमष्टाङ्गुलन्यासं तृतीयमेकम् ।
तेन पञ्च । अष्टाङ्गुलन्यासं द्वादशाङ्गुलदीर्घं चतुर्थम् । तेन द्वे । धिष्ण्यदीर्घं
अष्टाङ्गुलन्यासमेकं पञ्चमम् । तेनैका । एवं समस्ताः षट्षष्टिरिष्टकाः ।
मण्डलपक्षे आग्नीध्रीयहोत्रीयाष्टेष्टकमार्जालीयानां चत्वारि करणानीष्ट-
काश्च द्रष्टव्याः ॥ ४१ ॥
[ इति धिष्ण्यानामुपधानप्रकारः । ]
उख्यभस्मना संसृज्येष्टकाः कारयेदिति । संवत्सरभृत एवैत-
दुपपद्यते न रात्रिभृतः । एवमस्य मन्त्रवती चितिकॢप्तिः ॥ ४२ ॥
इष्टकानिर्माणे विशेषमाह—उख्येति । उख्यभस्मना मृदं संयोज्य
तयैवेष्टकाः कुर्यात् । संवत्सरेति । संवत्सरोख्यभरणपक्ष इदं संभवति । संव-
त्सरग्रहणं मासादीनामुपलक्षणम् । तदपि उख्यया भस्मसंसृष्ट्या मृदेष्टकाकरण-
संभवात् । न रात्रिभृत इति रात्रिपदे चोदना अतिरात्रप्रभृत्याविंशद्रात्रं
चोदितकल्पेष्वयं नियमो वोपपद्यते । तेषु उख्यभस्मसंसृष्टमृदा तत्करणा-
संभवात् संवत्सरभरणपक्ष एव ज्यायानिति स्तौति--एवमिति ।
एवं उख्यसंसृष्टमृदेष्टकाकरणे अस्य यजमानस्य चितिकॢप्तिरिष्टकाकरणं
मन्त्रयुक्तं भवति ॥ ४२ ॥
उख्येति । उख्यभस्मना संसृज्येष्टकाः कारयेदिति शाखान्तरीयवचनमस्ति ।
संवत्सरमुख्यं बिभर्त्तीति संवत्सरभृद् यजमानः । एतदुख्यभस्मना संसृज्येष्टका-
करणम् । संवत्सरेति । रात्रिशब्देन तिस्रो रात्रीर्दीक्षितः स्याद् इत्यादि रात्रिशब्देन
विहितदीक्षाकल्पाः लक्ष्यन्ते । त्रिंशद्रात्रिपर्यन्तेषु दीक्षाकल्पेषु प्रवृत्तस्य नोपपद्यते ।
संवत्सरशब्दोऽपि मासादिकल्पस्योपलक्षणम् । तावन्मात्रेणापि कालेन इष्टका-
करणस्य शक्यत्वात् । तत्परत्वाद् वाक्यस्य । एवमिति । अस्य यजमानस्य मन्त्रेण
कृतायामुखायां मन्त्रेण संस्कृतस्योख्यस्य भस्मना संसृष्टत्वाद् इष्टकाकॢ-
प्तिर्मन्त्रवतीति ॥ ४२ ॥
[ इति इष्टकानिर्माणे विशेषः । ]
छन्दश्चितं त्रिषाहस्रस्य परस्तात् चिन्वीत । कामविवेकात् ।
तस्य रूपं श्येनाकृतिर्भवतीति प्रकृतित्वात् ॥ ४३ ॥
छन्द इति । त्रिसाहस्रस्य परस्ताच्छन्दश्चितं चिन्वीत । श्येनस्य
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
७६ शुल्बसूत्रम् [ द्वितीयो-
प्रकृतित्वेन श्येनचित् त्रिषाहस्रं कृत्वा, छन्दःशब्दस्योपलक्षणपरत्वेन छन्द-
श्चित्कङ्कादीनां विकृतित्वेन पश्चादनुष्ठानं केचिदाहुस्तदनुपपन्नम्। श्येनस्य
त्रिषाहस्रपर्यन्तमनवच्छिन्नतयानुष्ठानं कृत्वा पश्चात् कङ्कादीनामनुष्ठान-
मित्यत्र प्रमाणाभावात्। ननु त्रिषाहस्रस्य परस्ताच्छन्दश्चितं चिन्वीतेति
सामान्यनिर्देशेऽपि श्येनचित्यादावनुष्ठानोपक्रमात्। अस्मिन्नेव त्रिषाह-
स्रपर्यन्तमनुष्ठानं कृत्वा तदनन्तरमितरेषामनुष्ठानमिति चेत्, एवं तर्हि
कङ्कादिष्वपि त्रिषाहस्रपर्यन्तमनुष्ठीय अन्तराग्न्यन्तरानुष्ठानं न स्यात्।
ननु श्येनचिदिव त्रिषाहस्रपर्यन्तमनुष्ठानम् अग्न्यन्तराणामपि अस्तु इति
चेन्न; त्रिषाहस्रानुष्ठानानन्तरं जानुदघ्नस्य वा ग्रीवादघ्नस्य वा अनुष्ठान-
मिति द्वैधे नियमितत्वात् प्रत्येकं त्रिषाहस्रानुष्ठानाप्रसक्तेः। अतो यस्य
कस्याप्यग्नेः त्रिषाहस्रानन्तरं छन्दश्चयनं कर्तव्यम्। युक्तञ्चैतत्। तथाहि
“साहस्रं चिन्वीत प्रथमं चिन्वानः, द्विषाहस्रं चिन्वीत द्वितीयं चिन्वानः,
त्रिषाहस्रं चिन्वीत तृतीयं चिन्वान” इति जानुदघ्नादिक्रमेणाम्नातानां
सहस्रादीनां प्रथमादिभावेन त्रिषाहस्रानन्तर्यस्यैव युक्तत्वात्। ननु त्रिषा-
हस्रानन्तरमपि छन्दश्चितेरनुष्ठानं न प्राप्नोति। जानुदघ्ना वा ग्रीवा-
दघ्ना वा कार्या इति परिमाणस्यानन्तरानुष्ठेयेष्वपि समाम्नानादिति
चेत्। अनिन्दक( ? ) श्छन्दश्चिदाम्नानमहिम्ना च जानुदघ्ना वेत्या-
दिनियमस्य तदितर(१)परिमाणकङ्कादिविषयत्वात्। यदि श्येनचित्येव
त्रिषाहस्रपर्यन्तमनुष्ठानमङ्गीक्रियते तदा श्मशानचयनस्य नाभिदघ्नं द्विषा-
हस्रं चाङ्गीकृत्य धर्मोपदेशो विरुद्धः स्यात्। (यदि ?) नाभिदघ्नं पुरस्ता-
ज्जानुदघ्नं पश्चादित्यादि कल्पसूत्रमप्यनुपपन्नं स्यात्। तस्मात् श्येनानन्तरं
श्येनकङ्कसमूह्यात् इत्थं नियमेन त्रिषाहस्रं कृत्वा त्रिषाहस्रस्य परस्ता-
च्छन्दश्चितं चिन्वीतेति वचनबलात् त्रिषाहस्रानन्तरमेव छन्दश्चितोऽनुष्ठा-
नमिति सिद्धम्। छन्दश्चित्कामाकृतिं आश्रयतीति पृच्छति--कामिति।
उत्तरमाह--अविवेकादिति। श्रुतावाकृतिविशेषस्य अनिर्धारणात्
प्रकृतिमेवाश्रयतीत्यर्थः॥४३॥
ऽध्यायः ] बौधायनीयं ७७
इति श्रीमदद्वैतविद्याचार्य-साग्निचित्य श्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु
बौधायनशुल्वमीमांसायाम्
द्वितीयोऽध्यायः।
छन्दश्चितमिति। छन्दांस्येव चीयन्त इति छन्दश्चित्। न तु छन्दोभिश्चीयत
इति। कल्पे छन्दश्चिद् यत्र क चाहुतिरागच्छति जुहोत्येव तत्राथ यदन्यदाहुतिभ्यः
शरीरवद् यजुरेवेति तत्र देशे जपेदिति (बौ० श्रौ० सू० १०।२८) वचनात्। तत्र शरीर-
वदिष्टकाद्रव्यवदित्यर्थः। कर्मान्ते च अग्निं विहरेदग्निरूपाणीति दर्शयेदित्युक्तम्।
तत्र मिनुयादग्निं पक्षपुच्छादिविभागेन रूपाणि दर्शयेद्। इष्टकारूपाणि अर्धेष्टका-
पादेष्टकारूपाणि। तत्तद्देशे यथास्थानं लिखित्वा शुष्केष्टकासूपधानमन्त्रं जपेदि-
त्यर्थः। तस्माच्छन्दांस्येव चीयन्त इति छन्दश्चित्। त्रिषाहस्रस्य परस्ताच्चिन्वीत।
ब्राह्मणक्रमात्तु पूर्वानुष्ठानम्। तस्माच्छयेनचितः प्रकृतित्वात् त्रिषाहस्रस्यान्ते प्रकृत्य-
नुष्ठानपरिसमाप्तिरित्यभिप्रेत्योक्तं त्रिषाहस्रस्य परस्ताच्चिन्वीतेति। प्रकृतिं कृत्वैव
विकृतेरधिकार इत्येकविधप्रसङ्गादुक्तम्। अनेन प्रक्रम्य त्रिषाहस्रपर्यन्तं चित्त्वैव
विकृतेश्चयनमिति गम्यते। उक्तमर्थं साधयितुं हेतुमाह—कामेति। फलभेदात् काम्य-
त्वात् परस्तादेवेत्यर्थः। तस्येति। तत्र मंत्ररूपमात्रत्वेऽपि इष्टकारूपाणि दर्शये-
दित्युक्तत्वात्। आकृत्यपेक्षायां प्रकृतित्वाच्छयेनाकृतिर्भवतीति।
अन्ये त्वाहुः। छन्दश्चितं त्रिषाहस्रस्य परस्ताच्चिन्वीत कामम्। छन्दश्चित्
कामाकृतिमाश्रयति इति शेषः। अविवेकात् आकृतेरनुक्तत्वात्। विविच्येयमिति
वचनाभावादित्यर्थः। तस्य रूपं श्येनाकृतिर्भवतीति। प्रकृतित्वात्। इति करणः
परिभापासमाप्त्यर्थः॥ ४३॥
टीका भट्टात्मजेनेयं द्वारकानाथयज्वना।
द्वितीयो व्याकृतोऽध्यायस्त्वग्नीनां धर्मवाचकः॥
इति बौधायनीये शुल्बसूत्रव्याख्यायां शुल्बदीपिकायां द्वितीयोऽध्यायः।
अथ तृतीयोऽध्यायः ।
अथ वै भवति श्येनचितं चिन्वीत सुवर्गकाम इति ॥ १ ॥
अथेदानों श्येनस्य प्रकृतित्वेन प्रथममनुष्ठेयत्वात्तत्स्वरूपं दर्शयति—
अथेति । ब्राह्मणमिति शेषः । श्येनचितं चिन्वीत स्वर्गकाम इति सामा-
न्यतः श्येनचिदाकारस्य स्वर्ग (फल ?) कत्वमवगम्यते ॥ १ ॥
आद्येऽध्याये सामान्येन सर्वक्षेत्रकरणमुक्तम् । द्वितीयेऽध्यायेऽग्नीनामविशे-
षेण परिभाषा कथिता । छन्दश्चितश्चयनं विशेषाभावात् परिभाषासूत्रम् । इदानी-
मग्नीनां सर्वेषामाकृतिविशेषं विवक्ष्याह । अथेति । श्येन इव चित् श्येन-
चित् ॥ १ ॥
आकृतिद्वैविध्यं चतुरश्रात्मा श्येनाकृतिश्च विज्ञायते ॥ २ ॥
आकृतीति । श्येनचित आकृतिद्वैविध्यमित्यर्थः । श्रुतिचोदितश्येन-
चिदाकृतिभेदो द्विविध इति यावत् । ननु श्येनचिद्विधायकवाक्ये श्येनचितो
द्वैविध्याप्रतीतेः कथं श्येनचिद् द्विविध इत्याशङ्क्य “वयसां वा एषः प्रति-
मया चीयत” इति वयःप्रतिमाकारतया श्येनचितो विधानात् , “समचतुर-
श्राभिरग्निं चिनुत” इति समचतुरश्राकारतया च श्येनचितो विधा-
नात् , श्येनचित आकृतिद्वयमपि सम्भवति इत्याह चतुरश्रात्मेति ।
श्येनचित आत्मा समचतुरश्र इत्यर्थः । समचतुरश्राकारतया कर्त्तव्यस्य
श्येनचित आत्मा समचतुरश्र इति यावत् । श्येनाकृतिश्चेति । श्येनस्य
आकृतिरिव आकृतिर्यस्य सः श्येनाकृतिरित्यर्थः । वयःप्रतिमाकारतया
कर्त्तव्यस्य श्येनचितः श्येनाख्यपक्ष्याकृतिरिति यावत् ॥ २ ॥
आकृतिरिति । प्रतिज्ञातस्य श्येनस्य रूपद्वैविध्यम् । अस्तीति वाक्यशेषः । तदेव-
दर्शयति । चतुरश्रात्मेति । आकृतिसंहितो बहुव्रीहिः । चतुरश्र आत्मा यस्य स चतुर-
श्रात्मा श्येनचित् । अथवा चतुरस्र आत्मा श्येनचित इति वाक्यशेषः । श्येनस्येवा-
कृतिर्यस्येति श्येनाकृतिः । कारणमाह—विज्ञायत इति । श्रुतिरवगम्यते ॥ २ ॥
ऽध्यायः ] बौधायनीयं ७६
उभयं ब्राह्मणम् । पञ्चदक्षिणायां श्रोण्यामुपदधाति पञ्चो-
त्तरस्यां । वस्तो वय इति दक्षिणेंऽस उपदधाति । वृष्णिवर्च
इत्युत्तरे । व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति । सिंहो वय
इत्युत्तरे । पुरुषो वय इति मध्य इति च ॥ ३ ॥
उभयमिति । “वयसां वा एष” इति, “समचतुरश्राभि”रिति वक्ष्य-
माणश्रुतिवाक्याभिप्रायेण उभयं ब्राह्मणमित्युक्तम् । ननु समचतुरश्राकारोऽपि
श्येनचित्कर्त्तुं शक्यत इत्युक्तं तदनुपपन्नम् । “नापक्षपुच्छश्येनो विद्यत
इति” सपक्षपुच्छः श्येन इत्युक्तत्वाच्चतुरश्राकारतया कर्त्तव्यस्य पक्षपुच्छादीनां
(अ १) प्राप्तेः तादृशस्य श्येनचित्त्वमेव नास्तीत्यत आह—पञ्चेति ।
अत्रोभयसाधारण्येन पक्षादिष्विष्टकोपधानविधानाच्चतुरश्राकारस्य
पूर्वोक्तप्रकारेण श्येनचित्त्वम् । “दक्षिणे पक्ष उपदधाती”त्यादिश्रुतेः सपक्ष-
पुच्छश्येनाकृतिविषयत्वेनाप्युपत्तेरिति चेन्न, “श्येनचितं चिन्वीत सुवर्गकाम”
इत्येतत्प्रकरणस्थत्वेन “समचतुरश्राभिरसि चिनुत” इति श्रुतेरेतद्वाक्यवि-
हितसमचतुरश्राकारस्य श्येनचित्त्वावश्यंभावेन सपक्षपुच्छतानियमस्य
वक्तव्यत्वात् । किञ्चाविशेषेण प्रकृतस्य “दक्षिणे पक्षे” इत्यादेः श्येनाकृति-
मात्रविषयत्वे प्रमाणञ्च न पश्यामः । आकृतिद्वैविध्ये सामान्येन ब्राह्मण-
मुक्तं भवति ॥ ४ ॥
सा च श्रुतिः किं ब्राह्मणं ? आहोस्वित् मन्त्रः ? इति तत्राह उभयमिति ।
भवतीति वाक्यशेषः । उभयं वाक्यं ब्राह्मणमेव भवति । तदपि दाशतय्या विज्ञायते ।
प्र सप्तगुमृत्तधीतिमवर्त्या इति ( बौ० श्रौ० सू० २५।४पृ०२३२ ) शुन इत्यादिवन्मन्त्र
इत्यर्थः । चतुरस्रात्मत्वे ब्राह्मणलिङ्गमुदाहरति । पञ्चेति । तत्र अंसश्रोण्यादिशब्दानां
चतुरस्रश्येनस्यैव मुख्यत्वादिति भावः ॥ ३ ॥
अथापरं वयसां वा एष प्रतिमया चीयते यदग्निरिति ॥ ४ ॥
विशेषाकृतिद्वये ब्राह्मणद्वयं क्रमेणोदाहरति—अथापरमित्या-
दिना ॥ ४ ॥
८० शुल्वसूत्रम् [ तृतीयो-
अथ श्येनाकृतिब्राह्मणमुदाहरति । अथापरमिति । वयसां पक्षिणाम् । प्रतिमया
प्रतिबिम्बेन । यः प्रतिज्ञातोऽग्निः स एषः पक्षिणामाकृतिप्रतिमया रूपेण चीयत
इत्यर्थः ॥ ४ ॥
उत्पततां छाययेत्यर्थः ॥ ५ ॥
अथ पक्षिणः स्थित्यवस्थायां पक्षविस्ताराद्यसंभवादाह--उत्पत-
तामिति । उच्चैः पतन्ति गच्छन्तीत्युत्पतन्ति तेषाम् । प्रतिमयेत्यस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअध्यायः ] बौधायनीयं ८१
षष्ठेन पुरुषस्य विंशत्यङ्गुलेन पुरुषक्षेत्रस्य षट्त्रिंशांशः। दशमेन प्रादेशेन पुरुषक्षेत्रस्य
शतांशः। इतिकरणः करणसमाप्त्यर्थः। एवं चत्वारि करणानि। प्रथमेन षण्णव-
तिरिष्टकाः। द्वितीयेन दशाधिकं षट्शतम्। तृतीयेन चतुस्त्रिंशाधिकं शतद्वयम्।
चतुर्थेन षष्टिः। तत्र चोडानाकसदश्चतस्रः पञ्चम्यः। षट् षड्भागीयाः ॥ ७ ॥
अथाग्निं विमिमीते ॥ ८ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८२ शुल्बसूत्रम् [ तृतीयो·
तस्यात्मा समचतुरश्रश्चत्वारः पुरुषाः । पक्षः समचतुरश्रः
पुरुषः । स तु दक्षिणतोऽरत्निना द्राघीयान् । एतेनोत्तरः पक्षो
व्याख्यातः । पुच्छं समचतुरश्रः पुरुषः । तमवस्तात् प्रादेशेन
वर्धयेत् । एवं सारत्निप्रादेशः सप्तविधः संपद्यते ॥१०॥
तस्यात्मेति । तस्य चतुरश्रश्येनचितः । आत्मा पक्षपुच्छव्यतिरिक्त-
प्रदेशः । समचतुरश्रा इति । पुरुषचतुष्टयपरिमित इत्यर्थः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inऽध्यायः ] बौधायनीयं ८३
पुरुषायामं अर्धपुरुषन्यासं अर्धपुरुषक्षेत्रं सम्भवति । एवं सप्तविधः अर्धा-
ष्टमविधोऽग्निः संपद्यते । अत्र कल्पे अरत्निना वा पक्षौ द्राघीयांसौ भवत इति
प्रादेशवृद्धेर्वैकल्पिकत्वमुक्तम् । तच्छाखान्तरे एवमप्यस्तीति ज्ञापनार्थम् ( नानुष्ठा-
नार्थमिति टिः ) तस्मिन् पक्षे क्वचिदपि प्रयोगानुपदेशात् ।
अथ वेणुना मानमुच्यते । यूपावटीयाच्छङ्कोरर्धप्रक्रममवशिष्य अनुपृष्ठ्यं
वेणुं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८४ शुल्बसूत्रम् [ तृतीयो-
तोऽरत्निप्रमाणका उपदध्यादिति पक्षाग्रादुत्तरत इत्युक्त्या एवमव-
गम्यते । तासामिति । तासां पञ्चमीनां अभितः पूर्वपश्चिमयोः पार्श्वयोः
द्वे द्वे पादेष्टके, (दक्षिणोत्तरे ) (पञ्चम्याः पादेष्टके इत्यर्थः ?) सर्वतः प्रादेश-
प्रमाणके । ततोऽष्टाविति । ततस्तस्मात् प्रदेशादुत्तरे भागे अष्टौ चतुर्थ्यः
सर्वतः प्रक्रमप्रमाणकाः । पक्षशेषमिति । उभयोः (?) पक्षशेषं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inऽध्यायः ] बौधायनीयं ८५
शेषमिति । पुच्छस्य मध्यमो भाग आत्मा च शेषः । एष इति । सिद्धस्य
पुनर्वचनेन “पञ्चमायां वा चितौ संख्यां पूरयेद्” (२।१०) इत्यत्रापि द्विशतोऽस्तीति
सूचयति । एवं पक्षयोरष्टषष्टिः । पुच्छे द्वात्रिंशत् । आत्मनि शतम् । चतुर्थ्यश्चतु
र्विंशतिः । पञ्चम्यो विंशत्यधिकं शतम् । षष्ठ्यः षट्त्रिंशत् । दशम्यो विंशतिः ॥१३॥
अपरस्मिन् प्रस्तारे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२. द्वितीय अध्याय: वर्ग-करण, मण्डल-करण (वृत्त का वर्गीकरण) एवं क्षेत्रफल-समीकरण
८६ शुल्वसूत्रम् [ तृतीयो-
दक्षिणस्यामिति । आत्मनः दक्षिणस्यां श्रोण्यां षष्ट्यङ्गुलपरिमितं समचतुरस्रं
क्षेत्रं परिगृह्य तत्र नव षष्ठ्य उपधेयाः । तयोत्तरस्यामिति । आत्मश्रोण्यां नव षष्ठ्यश्च-
तुरस्रकृता इत्यर्थः । नव नवेति । आत्मनि दक्षिणांसे षष्ट्यङ्गुलपरिमितं सम-
चतुरस्रं क्षेत्रं परिगृह्य तत्र नव षष्ठ्यः । तत
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inऽध्यायः ] बौधायनीयं ८७
पूर्वोक्तात्सिक्षेत्र एव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८८ शुल्बसूत्रम् [ तृतीयो-
दक्षिणोत्तरयोरिति । पश्चात् प्रादेशमवशिष्य पुरस्तादरत्निं चावशिष्य मध्ये
उदगायताः ॥ २१ ॥
पुच्छस्यावस्ताच्चतस्रोऽर्धेष्टका उदीचीः । तासामभितो द्वे
पादेष्टके । जघनेन पुच्छाप्यययोरेकैकामर्धेष्टकां प्राचीम् ॥२२॥
पुच्छस्यावस्तादिति । पुच्छस्य पश्चात्प्रदेशे (पुरस्तादरत्निं चावशिष्य)
मध्य उपदध्यात् । पुच्छस्य पश्चाद्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inध्यायः ] बौधायनीयं ८६
दिति व्याख्यातम् । पूर्वस्मिन्निति । पूर्वस्मिन्ननीके आत्मनः पूर्वान्तेपूर्वी-
पहितानामन्तराले पञ्चार्धेष्टका उदीचीरुपदध्यात् ॥ २४ ॥
अपरस्मिन् प्रस्तार इति । आत्मश्रोण्यंसयोः । तासामिति । दक्षिणांसप्रभृति
प्रदक्षिणमुत्तरतः पश्चात्, पुरस्ताद् उत्तरतः दक्षिणतः पुरस्तात् पश्चात्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६० शुल्बसूत्रम् [तृतीयोऽध्यायः]
अथेति। चतुरश्रश्येनचिदुक्तः। श्येनाकृतिर्द्विरूपः। तयोरेक उच्यते। वक्रौ
कुटिलौ पक्षौ यस्य स वक्रपक्षः। विस्तीर्णं पुच्छं यस्य स व्यस्तपुच्छः। एतत् सर्वं
चतुरश्रश्येनचिदपेक्षया॥ २८॥
तस्येष्टकाः कारयेत् पुरुषस्य चतुर्थ्यः। तासामर्ध्याः
पाद्याश्च॥ २९॥
तस्येष्टका इति। वक्रश्येनचित इत्यर्थः। पुरुषस्येति।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
तृतीयोऽध्यायः ] बोधायनीय ९१
इदमपि तासामर्थ्या इत्युक्तानामेव आकृत्यन्तरविधानम् । ते पूर्वोक्ते चतुर-
स्त्रपाद्ये यथा अध्यर्धपदपार्श्वेन संश्लिष्टे स्यातां तथा कारयेत् । पञ्चकोणोऽयम् ।
अस्या हंसमुखीति संज्ञा । एवं पञ्चकरणानि । प्रथमेन त्रिचत्वारिंशत्त्रिशतम् ।
द्वितीयेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६२ शुल्बसूत्रम् [ तृतीयो-
व्याख्याताः । स इति । आत्मश्रोण्यंसेषु अर्धपञ्चमाश्रतुर्थ्यो निरस्ता भवन्ति । अथ
शिष्टा अर्धपञ्चाविंशच्चतुर्थ्यो भवन्ति ॥ ३३ ॥
शिरोऽर्धषष्ठपदायाममर्धपुरुषव्यासम् तस्यांसौ प्रक्रमेण
प्रक्रमेणापच्छिन्द्यात् ॥ ३४ ॥
शिर इति । अर्धं षष्ठं यस्य तदर्धषष्ठम् । सार्धपञ्चपदप्राक्प्रत्यग्दीर्घं,
प्रक्रमद्वयविस्तारम्, आत्मनः पुरस्ताद्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inऽध्यायः ] बौधायनीयं ६३
सर्वाण्यवाञ्चमक्ष्णयापच्छिन्द्यादर्धान्युद्धरेत् । एवं सारत्निप्रादेशः
सप्तविधः संपद्यते ॥ ३६ ॥
पक्षो द्वादशेति । प्राक् प्रत्यक् दशपदव्यासं दक्षिणोत्तरं द्वादशपदायामं
दीर्घचतुरश्रं विहृत्यापरस्याः करण्याः मध्यादारभ्य पुरस्तात् प्रक्रमत्रयं
मित्वा तत्र शङ्कुं निहत्य श्रोणिसक्त्योः शङ्कुद्वयं निहत्य शङ्कूनामुपरि
स्पन्द्यां नियम्यान्तःस्पन्द्यं परिच्छिन्द्यात् । प्राञ्चं दध्यादिति । अपरिच्छिन्नं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in