Skip to content
SarvaKosh
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

by महर्षि बौधायन

Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)

DevanagariHindipublished486 pages

Page 437 of 486

Read in context
Page 437

पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३८३

जपो रुद्रैकादशिन्यादेः । होमो गणहोमादिः इष्टिः^१ मृगारादिका । यन्त्राणि यमनादिन्द्रियाणां कृच्छ्रादीन्युच्यन्ते । करिष्यन् कर्तुमध्यक्षवसितः । द्विजग्रहणं यन्त्राध्यायनिर्दिष्टेषु शूद्रपर्युदासार्थम् । शुक्ले पक्षे पुण्यदिने द्वितीयादिषु च तिथिषु पुण्येषु च ऋक्षेषु रोहिण्यादिषु । श्मश्रुग्रहणं लोमनखानामपि प्रदर्शनार्थम् । वपनं च शिखावर्जं ‘एवं भ्रूवक्षिशिखावर्जम्’ इति पर्युदासात् । यत्र पुनश्शृङ्गग्राहिकया विधीयते यथा गोघ्नप्रायश्चित्ते ‘सशिखं वपनं कृत्वा’ इति, तत्र भवति । न च शिखावपनात्कथमाचमनादि कर्तव्यमित्याशङ्कनीयम् । तस्य शास्त्रार्थत्वात्, शिरःकपालधारणवत् । त्रिश्वणं प्रातर्मध्यान्दिने सायं । क्रोधादनृताच्चाऽऽत्मानं पायाद्रक्षेत् वर्जयेदित्यर्थः । क्रोधग्रहणं हर्षलोभमोहादीनामन्येषामपि भूतदाहोयानां प्रदर्शनार्थम्, अनृतग्रहणं च पैशुन्यात्मस्तवनादीनाम् । अभिभाषण अन्यत्र यथार्थमन्तर्भवंत्येवं संवादेषु सम्भाषेत,^१) ब्रह्मचारी अप्रस्कन्दितरेताः अन्यत्र स्वप्नात् । तत्राऽपि च—

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजश्शुक्रमकामतः ।
स्नात्वाऽर्कमर्चयित्वा त्रिः^२ पुनर्मामित्यृचं जपेत् ॥

इति द्रष्टव्यम् । हविर्व्रतः ‘यदन्नैकैकं ग्रासम्’ इत्यादि, तद्विषयं क्षारलवणवर्जं व्रतयेत् । पितृग्रहणं^३ दण्डापूपिकान्यायेन मातुरप्युपलक्षणार्थम् । नमस्कारश्च कायप्रणतिपूर्वकम् । दिवाऽस्वपन् निद्रामकुर्वन् दिवास्थानः तिष्ठेदहनि । निशासनः रात्रावासीत ॥ ५ ॥

प्रथमं तावद्यन्त्राण्याह बहुवृत्तान्तत्वात्—

प्राजापत्यो भवेत्कृच्छ्रो दिवा रात्रावयाचितम् ।
क्रमशॊ वायुभक्षश्च द्वादशाहं त्र्यहं त्र्यहम् ॥ ६ ॥


१. (१) अग्नयेऽंहोमुचेऽष्टाकपाल २) इन्द्रायांहोमुच एकादशकपालो (३) मित्रावरुणाभ्यामागोगुग्भ्यां (४) पयस्या वायोसावित्र आगोगुग्भ्यां (५) चक्ररश्विभ्यामागोगुग्भ्यां (६) धाना मरुद्भ्य एनोमुग्भ्यः (७) सप्तकपालो विश्वेभ्यो देवेभ्य एनोमुग्भ्यो (८) द्वादशकपालोऽनुमत्यै चरु (९) रनये वैश्वानराय द्वादशकपालो (१०) द्यावापृथिवीभ्यामङ् होमुग्भ्यां द्विकपालः॥ ( तै. सं. ७.५.२२ ) इति विहिता दशहविष्केष्टिमृगारेष्टिरित्युच्यते । See. आप. श्रौ २०. २३. २.
तत्र प्रथमे अंहोंमुगग्निर्देवता, अष्टाकपालः पुरोडाशो द्रव्यम् । द्वितीये इन्द्रोऽहोमुक् देवता । एकादशकपालः पुरोडाशो द्रव्यम् । ‘अंहः’ पापं, तस्मात् मोचयतीत्यंहोमुक् इष्टिरियमश्वमेधप्रकरणे तदङ्गत्वेन विहिताऽपि स्वातन्त्र्येण पापक्षयार्थत्वेनाऽपि विहितत्वात् तदयं पृथगप्यनुष्ठीयते ।