बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
by महर्षि बौधायन
Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)
Page 399 of 486
Read in contextअष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४५
अनु०—यदि केवल चार ग्रास हों तो दो मन्त्रों से पहले ग्रास का भक्षण करे॥१३॥
यदा चत्वारो ग्रासाः प्राशितव्यास्तदा प्रथमो ग्रासो द्वाभ्यां मन्त्राभ्याम्, ग्रसनीयः; तदुत्तरेषामेकैकेनैकेकः ॥ १३ ॥
यदा त्रयो द्वाभ्यां द्वाभ्यां पूर्वौ ॥ १४ ॥
अनु०—यदि केवल तीन ग्रास हों तो पहले दो ग्रासों का दो-दो मन्त्रों से भक्षण करे ॥ १४ ॥
यदा तु त्रयाणां ग्रसनं तदा द्वौ द्वाभ्यां द्वाभ्यां मन्त्राभ्यां ग्रसनीयौ । तृतीयस्तु पञ्चमेन ॥ १४ ॥
यदा द्वौ द्वाभ्यां पूर्वं त्रिभिरुत्तरम् ॥ १५ ॥
एकं सर्वैः ॥ १६ ॥
अनु०—यदि केवल दो ग्रास हो तो दो मन्त्र से पहले ग्रास का तथा तीन मन्त्रों से दूसरे ग्रास का भक्षण करे । यदि केवल एक ग्रास हो तो सभी मन्त्रों का उच्चारण कर भक्षण करे ॥ १५-१६ ॥
ऋज्वर्थे सूत्रे ॥ १५-१६ ॥
'अमृतापिधानमसि' इत्यस्य स्थाने—
"निग्राभ्यास्थे"त्यपः पीत्वाऽथाज्याहुतीरुपजुहोति ॥ १७ ॥
अनु०—'निग्राभ्यास्थ देवश्रुत आयुर्मे तर्पयत' आदि मन्त्र से जल पीकर घृत की आहुतियाँ निम्नलिखित सात अनुवाकों से करे ॥ १७ ॥
टि०—निग्राभ्यास्थ देवश्रुत आयुर्मे तर्पयत प्राणं मे तर्पयताऽपानं मे तर्पयत व्यानं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयत मनो मे तर्पयत वाचं मे तर्पयताऽऽत्मानं मे तर्पयताऽङ्गानि मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गृहान्मे तर्पयत गणान्मे तर्पयत सर्वगणं मा तर्पयत तर्पयत मा गणा मे मा वितृषन् । तै० सं० ३.१.८.१ ।
"निग्राभ्यास्थ देवश्रुतः' इत्यादि 'गणा मे मा वितृषन्' इत्यन्तमेकं यजुः ॥ १७ ॥
१. निग्राभ्यास्थ देवश्रुत आयुर्मे तर्पयत प्राणं मे तर्पयताऽपानं मे तर्पयत व्यानं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयत मनो मे तर्पयत वाचं मे तर्पयताऽऽत्मानं मे तर्पयताऽङ्गानि मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गृहान्मे तर्पयत गणान्मे तर्पयत सर्वगणं मा तर्पयत तर्पयत मा गणा मे मा वितृषन् ॥ तै. सं. ३. १. ८. १.