Skip to content
SarvaKosh
Back to the archive

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

by महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य)

Source: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (origin)

Public domain in India · Report a copyright issue

DevanagariHindipublished292 pages

About this granth

The Ashvalayana Grihyasutra (आश्वलायनगृह्यसूत्रम्) is the domestic ritual manual of the Rigveda, part of the Kalpasutra of the Ashvalayana school. Grihyasutras give the rules for rites performed in the home, and this one has long been the main authority for Rigvedic households. It is arranged in four adhyayas divided into khandas.

Its sutras cover setting up the domestic fire, the simple cooked offerings, the marriage ceremony, rites around conception and birth, naming, first feeding, tonsure in the third year, initiation, twelve years of Vedic study, the student's return home, house building, ancestral offerings and funeral rites, making it a primary source for family life and ritual in early India.

The scanned pages show that this edition gives the sutras with Haradattacharya Mishra's Sanskrit commentary Anavila, edited by Mahamahopadhyaya T. Ganapati Shastri, curator of the department for publishing Sanskrit manuscripts at Trivandrum. It is number 78 of the Trivandrum Sanskrit Series, printed in 1923 under the authority of the Maharaja of Travancore's government. The copy comes from the State Museum library, Lucknow, and has 292 pages.

Page 137Permalink

एकोनविंशः खण्डः] अनाविलोपेसम् । ८७

निन्दिताः दक्षिणा प्राग्दक्षिणा प्रत्यग्दक्षिणेति। एकमूलमशा-
खाजम्। शाखाजस्य हि द्वे मूले भवतः, पूर्वं यस्य शाखां
छित्वा निर्मिता निर्मितायाश्च शाखाया इदानीमपरेति। मूल-
प्रदेशे शाखारहितमित्येके। पलाशोपचार इति सर्वथानेकमू-
लस्यापि पलाशस्याभाव एव कुशस्तम्बपरिग्रहार्थम्। तं ब्र-
ह्मचारी त्रिः परिषिश्चति। आचार्यस्त्रिर्वाचयति सुश्रवः सुश्र-
वा असीत्येवं मन्त्रम्। यद्यपि सुश्रवा इति पलाशस्याभिधा-
नं देवानां ब्रह्मवादं वदतां, ‘यदुपाइशृणोः सुश्रवा वै श्रुतोऽसी’-
ति दर्शनात्, तथापि कुशस्तम्बेऽपि मन्त्रो भवत्येव वचनाद्
‘ऐन्द्र्या गार्हपत्यमुपतिष्ठत’ इतिवत्। समाप्तमुपनयनम् ॥२०॥

एतेन वापनादिपरिदानान्तं व्रतादेशनं व्याख्या-
तम् ॥ २१ ॥

एतेनोपनयनेन व्रतादेशनं व्याख्यातम्। वापनादि-
ग्रहणमलङ्कारनिवृत्त्यर्थम्। ‘काय त्वा परिददामी’त्येतत्
परिदानम्। परिदानान्तमित्युत्तरकर्मनिवृत्त्यर्थम् ॥ २१ ॥

इत्यनुपेतपूर्वस्य ॥ २२ ॥

एवमनुपेतपूर्वस्योपनयनमुक्तम् ॥ २२ ॥

अथोपेतपूर्वस्य ॥ २३ ॥

अथ अनन्तरे वेदान्तरे उपेतपूर्वो य इमं वेदमध्येतु-
मिच्छति तस्योपनयने विशेषो वक्ष्यते। एवं ब्रुवन्नेतद् ज्ञाप-
यति तेन तेन प्रकारेण प्रतिवेदमुपनयनं कर्तव्यमिति। अन्ये
तु सकृदुपनयनं सर्ववेदार्थं मन्यन्ते। यथाहापस्तम्बः — ‘स-
र्वेभ्यो वेदेभ्यः सावित्र्यनूच्यत इति ब्राह्मणमि’ति ॥ २३ ॥

Page 138Permalink

८८ आश्वलायनगृह्यसूत्रम्

कृताकृतं केशवपनं मेधाजननं च ॥ २४ ॥
कृताकृतं क्रियतांवा मा कारीत्यर्थः ॥ २४ ॥

अनिरुक्तं परिदानम् ॥ २५ ॥
निरुक्तमभिहितम् । परिदीयते यस्मिन् कर्मणि तत् परिदानं, यदभिहितं परिदानं तदत्र न भवतीत्यर्थः । न परिदानमित्येव सिद्धे अनिरुक्तमिति वचनमुत्तरार्थम् ॥ २५ ॥

कालश्च ॥ २६ ॥
यो निरुक्तः कालः सोऽत्र न भवति। अत्र यस्यकस्यचित् कालस्यावर्जनीयत्वादुक्तकालस्य प्रतिषेधो विधेयः । तदर्थं पूर्वत्रानिरुक्तवचनम् । आभिहितः कालोऽष्टमवर्षादिरत्र न भवतीति । अनारभ्यमाणे एतस्मिन् यावतो वेदानध्येतुं शक्नोति कुमारस्तावन्त्युपनयनानि तस्मिन्नेव काले स्युरिति सूत्रारम्भः ॥ २६ ॥

तत्सवितुर्वृणीमह इति सावित्रीम् ॥ २७ ॥
सावित्रीं भो अनुब्रूहीत्युक्ते इमामनुब्रूयात् सदो वेमां जपेत् ॥ २७ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये एकोनविंशः खण्डः।


१. 'चेमां' घ. पाठः. २. 'दान् ज' ख. पाठः.

Page 139Permalink

विंशः खण्डः] अनाविलोपेताम् । ८९

अथ विंशः खण्डः ।

ऋत्विजो वृणीतेऽन्यूनानतिरिक्तान् ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात् ॥ १ ॥

वृणीते सम्भजते (कामा ? कर्मा)र्थं परिगृह्णाति । अन्यूना अनतिरिक्ताश्च प्रमाणपरिमाणाभ्याम् । प्रमाणतो नातिदीर्घा-न्नातिह्रस्वान् परिमाणतो न त्र्यङ्गुलीन् न षडङ्गुलीन् । एवमाकारतो गुणा उक्ताः । चरित्रत आह—ये मातृत इति ॥१॥

युवान ऋत्विजो वृणीत इत्येके ॥ २ ॥

द्वितीयार्थे प्रथमा । युवान ऋत्विजो भवन्ति तान् वृणीत इति वा । एक इति वचनादन्ये कर्मसमर्थानां वरणमिच्छन्ति । ऋत्विगधिकारे पुनर्ऋत्विग्ग्रहणमनृत्विजां चमसाध्वर्यूणां युवत्वं मा भूदिति ॥ २ ॥

ब्रह्माणमेव प्रथमं वृणीतेऽथ होतारमथाध्वर्युमथोद्गातारम् ॥ ३ ॥

प्रथमग्रहणमेवकारं च कुर्वन्नुपदेशक्रमस्याविवक्षां दर्शयति । तेन होत्रादीनामनियतक्रमो भवति अथशब्दे सत्यपि ॥ ३ ॥

सर्वान् वा येऽहीनैरैकाहैर्य्याजयन्ति ॥ ४ ॥

सर्वान् वा ऋत्विजो वृणीते चतुर एव वा । येऽहीनैरैकाहैर्य्याजयन्तीति वचनात् सोमयागेष्वेव मन्त्रवद्वरणं भवति ॥ ४ ॥


१. 'न्ये प्रकृतक' घ. पाठः.

Page 140Permalink

९० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

सदस्यं सप्तदशं कौषीतकिनः समामनन्ति ॥ ५ ॥

कौषीतकिनः शाखाविशेषाध्यायिनः, ते सदस्यं सप्तदशमृत्विजं समामनन्ति । सप्तदशग्रहणं नियमार्थं, कथम्, एक एव सदस्यः स्याद् इति 'प्रयन्तु सदस्यानामि'ति प्रैषे बहुवचननिर्देशादनेकसदस्या उक्ताः ॥ ५ ॥

तस्य व्यापारमाह —

स कर्मणामुपद्रष्टा भवतीति तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति ॥ ६ ॥

सदस्योऽभिष्टूयते ततश्च सदस्यसद्भावः तस्योपद्रष्टृत्वं च प्रतिपादितं भवति ॥ ६ ॥

होतारमेव प्रथमं वृणीते ॥ ७ ॥

पूर्वं 'ब्रह्माणमेव प्रथममि'त्युक्तम् । इदानीं होतारं प्रथममित्युच्यते । तदनयोर्होतृब्रह्मणोः प्राप्तयोर्विकल्पः । अपर आह — यदा चतुर्णां वरणं तदा ब्रह्मण एव प्रथमं, यदा सर्वेषां तदा होतुरेवेति व्यवस्थितो विकल्प इति ॥ ७ ॥

वरणे मन्त्रानाह —

अग्निर्मे होता स मे होता होतारं त्वामुं वृण इति होतारम् ॥ ८ ॥

होत्रधिकारे पुनः होतृग्रहणं यदा द्वितीयं होतारं वृणीते तदाप्ययं मन्त्रो यथा स्यादिति । अन्यथा प्रथमं व्रियमाणे समाम्नानान्न स्यात् । अमुमिति सर्वनामस्थाने व्रियमाणस्य नामनिर्देशो द्वितीयाया होतारं त्वा यज्ञशर्माणमिति ॥ ८ ॥

Page 141Permalink

विंशः खण्डः] अनाविलोपेतम् । ९१

चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वामुं वृण इति ब्रह्माणम् ॥ ९ ॥

अयं ब्रह्मणो वरणमन्त्रः। उत्तरेषामपि प्रदर्शनार्थं कृत्स्नं पठितम् ॥ ९ ॥

आदित्यो मेऽध्वर्युरित्यध्वर्युम् । पर्जन्यो म उद्गातेत्युद्गातारम् । आपो मे होत्राशंसिन्य इति होत्रकान् । रश्मयो मे चमसाध्वर्यव इति चमसाध्वर्यून् । आकाशो मे सदस्य इति सदस्यम् ॥ १० ॥

आदित्यो मेऽध्वर्युः स मेऽध्वर्युरध्वर्युं त्वामुं वृणे । पर्जन्यो म उद्गाता स म उद्गातोद्गातारं त्वामुं वृणे । आपो मे होत्राशंसिन्यस्ता मे होत्राशंसिन्यो होत्राशंसिनीर्वोऽमूर्वृणे । रश्मयो मे चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यून् वोऽमून् वृणे । आकाशो मे सदस्यः स मे सदस्यः सदस्यं त्वामुं वृणे इतीतरेषां वरणमन्त्राः ॥ १० ॥

स वृतो जपेन् महन्मेऽवोचो भर्गो मेऽवोचो भगो मेऽवोचो यशो मेऽवोचः स्तोमं मेऽवोचः कॢप्तिं मेऽवोचस्तृप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोच इति ॥

वृत इति वचनात् सर्वस्य वृतस्य जपो भवति, नानन्तरस्यैव सदस्यस्य । सग्रहणं जपस्य वरणस्य चानन्तर्यार्थम् । अन्यथा सर्वान्ते जपस्योपदेशात् सदस्यवरणानन्तरमेव सर्वे जपेयुः । सग्रहणात्तु वरणानन्तरमेव जपो भवति ॥ ११ ॥

जपित्वाभिष्टे होता स ते होताहं ते मानुष इति होता प्रतिजानीते ॥ १२ ॥

Page 142Permalink
९२आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

प्रतिज्ञानमभ्युपगमः । जपे प्रकृते पुनर्जपित्वेति वचनं कथम् । अन्यमपि जपं जपित्वैव प्रतिजानीत इत्येवमर्थम् । कः पुनरसौ । 'तन्मावतु तन्मा विशतु तेन भुक्षिषीये'त्येषः । कस्मात् पुनः सोऽपि जप इहैव न पठ्यते । कारणमुत्तरत्र वक्ष्यामः ॥ १२ ॥

चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा ॥ १३ ॥

अहं ते मानुष इत्यनुषज्यते । प्रतिजानीत इत्येव ॥

एवमितरे यथादेशम् ॥ १४ ॥

अध्वर्य्वादयो यथादेशं येन प्रकारेण वरण आदेशनं कृतं तदनुरूपं प्रतिजानते । तद्यथा — आदित्यस्तेऽध्वर्युः स तेऽध्वर्युंरहं ते मानुषः, पर्जन्यस्त उद्गाता स त उद्गाताहं ते मानुषः, आपस्ते होत्राशंसिन्यस्तास्ते होत्राशंसिन्यो वयं ते मानुषाः, अहं ते मानुषः इति वा प्रत्येकम्, रश्मयस्ते चमसाध्वर्यवस्ते ते चमसाध्वर्यवो वयं ते मानुषाः, आकाशस्ते सदस्यः स ते सदस्योऽहं ते मानुष इति ॥ १४ ॥

तन्मावतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन् ॥ १५ ॥

यो याजयिष्यन् भवति स एवं जपित्वा प्रतिजानीते । प्रत्याचक्षाणस्तु नेत्येवमर्थं याजयिष्यन्निति वचनम् । प्रत्याख्यानविषयावतरणार्थं चैतत् । अपर आह — याजयिष्यत एवायं जपशेषः पूर्वस्त्वयाजयिष्यतोऽपीति । अस्ति

Page 143Permalink

विंशः खण्डः] अनाविstepलोपेतम् । ९१

पुनः कश्चिदयाजयिष्यन्नपि वृतः, अस्तीत्याह, यथा चमसा-
ध्वर्यवः । अथ तेऽपि होमसंयोगाद् याजयिष्यन्तो भवन्ति ।
एवमप्याधाने ये व्रियन्ते ते याजयिष्यन्तो न भवन्ति तत्र
यागाभावात् । इष्टयस्तु पृथग्भूताः, न तदङ्गं तद्वरणम् ।
तेन ते याजयिष्यन्तो न भवन्तीति य एवमाहुः ते सोमया-
गादन्यत्रापि मन्त्रवन्नियमवद्वरणमिच्छन्ति । तेषां तत्र मधु-
पर्कोऽपि प्राप्नोति । न चैव क्वचिदप्यनुष्ठीयते । येऽहीनैनैका-
हैर्याजयन्तीति च पुरस्तादुक्तम् । तस्माद् यथा वयमवोचाम
तथैव युक्तम् । कस्मात् पुनरयं जपशेषस्तत्रैव नोक्तः । सर्व-
शेषत्वात् । सर्वेषां ह्ययं साधारणः शेषः पूर्वोऽशो भिद्यते ॥

न्यस्तमार्त्विज्यमकार्यम् ॥ १६ ॥

न्यस्तमन्यस्मै दत्तं प्रतिश्रुतं वा । अपित्रा तेन त्य-
क्तमित्यन्ये । एवम्भूतमात्विज्यं न कर्तव्यम् ॥ १६ ॥

अहीनस्य ॥ १७ ॥

आर्त्विज्यमकार्यमित्येव । श्रूयते च 'तस्माद् द्वाद-
शाहेन न याज्यमि'ति । नचैवमहीनानामुपदेशानर्थक्यं व्रा-
त्यस्तोमादिवदतिक्रान्तनिषेधानामप्यृत्विजां सम्भवात् ॥ १७॥

नीचदक्षिणस्य ॥ १८ ॥

नीचाल्पीयसी दक्षिणा यस्य । बहुवित्तस्यापि सतः
तस्यार्त्विज्यमकार्यम् । क्रतुस्तु यो वा को वा भवतु । अन्ये
त्वहीनस्य नीचदक्षिणस्येत्येकमेव विषयं मन्यन्ते । नीचद-

Page 144Permalink

९४ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः

क्षिणस्याहीनस्यार्त्विज्यं न कार्यं, बहुदक्षिणस्य तु कार्यमे-
वेति । श्रूयते च ‘ददतं वैते तमयाजयंस्तस्माद्ददृक्षाज्य’
इति ॥ १८ ॥

व्याधितस्यातुरस्य यक्ष्मगृहीतस्य अनुदेश्या-
भिशस्तस्य क्षिप्तयोनेरिति चैतेषाम् ॥ १९ ॥

व्याधितो ज्वरादिगृहीतः । आतुरोऽलसः । यक्ष्मगृ-
हीतः क्षयरोगी । प्राधान्यादस्य पृथग्ग्रहणमवश्यं वर्जना-
र्थम् । अनुदेश्यः समीपवर्ती तेन योऽभिशस्यते तथ्यमतथ्यं
वा दुष्कर्मायमिति । यस्य माता व्यभिचारिणी स क्षिप्त-
योनिः । इति चैतेषाम् अन्येषामप्येवंप्रकाराणामार्त्विज्यं न
कर्तव्यम् ॥ १९ ॥

सोमप्रवाकं परिपृच्छेत् को यज्ञः क ऋत्विजः
का दक्षिणेति ॥ २० ॥

सोमं यः प्रथमं वक्ति असौ सोमेन यक्ष्यते स होता-
रं वृणीत इति स सोमप्रवाकः । कर्मण्यण् । न्यङ्कादिषु-
दर्शनात् कुत्वम् ॥ २० ॥

कल्याणैः सह सम्प्रयोगः ॥ २१ ॥

याज्यो यज्ञ ऋत्विजो दक्षिणाश्च यत्र कल्याणाः तत्र
कर्म कर्तव्यमिति ॥ २१ ॥

न मांसमश्नीयुर्न स्त्रियमुपेयुरा क्रतोरपवर्गात् ॥ २२ ॥

क्रत्वादेः प्रभृत्या समाप्तेरेतौ नियमौ भवतः ऋत्वि-
जाम् ॥ २२ ॥

Page 145Permalink

एकविंशः खण्डः] अनाविलोपेतम् । ९५

एतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्या-
हुतिं हुत्वा यथार्थं प्रव्रजेत् ॥ २३ ॥

य आर्त्विज्यं करोति तस्य तत्समाप्ताविदं नैमित्ति-
कमुच्यते । एतेनाग्ने इत्यृचा दक्षिणाग्नावाज्यहुतिं जुहुयात्
ततो यथार्थं प्रव्रजेत् । देशान्तरगमनमांसाशनादिकमस्य न
प्रतिषिध्यते । पूर्वं तु प्रतिषिध्यत इति ॥ २३ ॥

एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो
न इत्येतयर्चा ॥ २४ ॥

हुत्वा यथार्थं प्रव्रजेदिति वर्तते । अनाहिताग्नेरार्त्वि-
ज्यं कृतवत ऋगग्निश्च भिद्यते । अन्यत् समानम् । पाद-
ग्रहणादेव सिद्धे ऋचेति वचनं विस्पष्टार्थम् । ऋत्विग्भ्यो म-
धुपर्को देय इति वक्ष्यते । तत्र के त ऋत्विज इत्यपेक्षामपने-
तुमिहर्त्विग्वरणमाम्नातम् ॥ २४ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये विंशः खण्डः ।


अथैकविंशः खण्डः ।

ऋत्विजो वृत्वा मधुपर्कमाहरेत् ॥ १ ॥

दद्यात् । वृत्वेति वचनाद् वरणानन्तरमेव ऋत्विजां
मधुपर्कः, न प्रत्यहम् ॥ १ ॥

स्नातकायोपस्थिताय ॥ २ ॥

स्नातकः कृतसमावर्तनः । तस्मै उपस्थिताय गुरु-
कुलादागताय मधुपर्कमाहरेत् । तत्र मनुः—

Page 146Permalink

९६ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः

“^१तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥”

इति ॥ २ ॥

राज्ञे च ॥ ३ ॥
मधुपर्कमाहरेदित्येव । अविशेषवचनात् प्रत्यागमनं राज्ञे मधुपर्कः ॥ ३ ॥

आचार्य्यश्वशुरपितृव्यमातुलानां च ॥ ४ ॥
चतुर्थ्यर्थे षष्ठी । एतेभ्यः प्रतिसंवत्सरमुपतिष्ठद्भ्यो देयः । यथाहोपस्तम्बः— ‘आचार्यायार्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत् कार्यम् । ‘सकृत् प्रव्रजे ^२चित्राये’ति ॥ ४ ॥

दधनि मध्वानीय सर्पिर्वा मध्वलाभे ॥ ५ ॥
मधुपर्कमाहरेदिति सम्बध्यते । आनयनं निषेचनम् । दधनि मध्वानीय मध्वलाभे वा सर्पिः । स एष मधुपर्कः । मध्वलाभ इति वचनान्न तुल्यविकल्पः ॥ ५ ॥

विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते ॥ ६ ॥
विष्टर आसनम् । पादार्थमुदकं पाद्यम् । अर्घार्थमर्घ्यम् । आचमनार्थमाचमनीयम् । मधुपर्क उक्तः । गौः स्त्रीगवी । आपस्तम्बगृह्ये दर्शनाद्, ‘गौरिति गां प्राहै तां स उत्तरेण यजुषे’ ^४ति ‘गौर्धेनुभव्ये’ति च मन्त्रे स्त्रीलिङ्गदर्शनात् । एतेषां द्रव्याणां


१. ‘तत्प्रती’ ख. पाठः.
२. ‘पितृव्याये’ क. ख. ग. पाठः.
३. ‘ह’ ग. पाठः.
४. ‘ति मन्त्रलिङ्गाच्च ए’ ख. पाठः.

Page 147Permalink

एकविंशः खण्डः] अनाविलोपेताम् । ९७

मध्ये एकैकं द्रव्यं मधुपर्क्याय त्रिस्रिनिवेदयन्ते । के, दातारः तत्परिचारका वा । तेषां च निवेदनं तत्रावसरे क्रमेण । एतेषामिति वचनमेवंजातीयानां गन्धादीनां मा भूदिति ॥ ६ ।

एवं दातुः कर्तव्यमुक्तम्, मधुपर्क्यस्य कर्तव्यमाह —

अहं वर्ष्म सजातानां विद्युतामिव सूर्यः। इदं तंमाधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेत् ॥ ७ ॥

विष्टरो विष्टरो विष्टर इति त्रिरुक्त्वा उदगग्रं विष्टरं निदधाति दाता । स च दर्भमयं कूर्चम् । तस्मिन्नुपविशेत् प्रतिग्रहीता अहं वर्ष्मेति मन्त्रेण ॥ ७ ॥

आक्रम्य वा पादौ प्रक्षालापयीत ॥ ८ ॥

अथवा नोपविशेत्, पादाभ्यां विष्टरमाक्रम्य पाद्योः प्रक्षालनं कारयेत् । प्रक्षालापयीतेति रूपसिद्धिश्चिन्त्या ॥ ८ ॥

दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ॥ ९ ॥

यदा ब्राह्मणः प्रक्षालयिता तदा तस्मै दक्षिणं पादं पूर्वं प्रयच्छेत्, ततः सव्यम् ॥ ९ ॥

सव्यं शूद्राय ॥ १० ॥

पूर्वोक्तविपरीतम् । क्षत्रियवैश्ययोर्यथारुचि ॥ १० ॥

प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्णात्याचमनीयेनाचामत्यमृतोपस्तरणमसीति ॥ ११ ॥

उपदेशक्रमादेव सिद्धे प्रक्षालितपादग्रहणमानन्तर्यार्थम् । तेन गन्धमाल्यादीनामर्हणाद्रव्याणां पश्चात् प्रवृत्तिः ।


१. 'ते', २. 'त्व' क. ख. ङ. पाठः. ३. 'नान्वाचा' क. पाठः.

Page 148Permalink
९१आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

“तं १ प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥”

इति ॥ २ ॥

राज्ञे च ॥ ३ ॥
मधुपर्कमाहरेदित्येव । अविशेषवचनात् प्रत्यागमनं राज्ञे मधुपर्कः ॥ ३ ॥

आचार्यश्वशुरपितृव्यमातुलानां च ॥ ४ ॥
चतुर्थ्यर्थे षष्ठी । एतेभ्यः प्रतिसंवत्सरमुपतिष्ठद्भ्यो देयः । यथाहापस्तम्बः— 'आचार्यार्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत् कार्यम् । 'सकृत् प्रव्रजे २ चित्राये'ति ३ ॥ ४ ॥

दधनि मध्वानीय सर्पिर्वा मध्वलाभे ॥ ५ ॥
मधुपर्कमाहरेदिति सम्बध्यते । आनयनं निषेचनम् । दधनि मध्वानीय मध्वलाभे वा सर्पिः । स एष मधुपर्कः । मध्वलाभ इति वचनान्न तुल्यविकल्पः ॥ ५ ॥

विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्ये-
तेषां त्रिस्त्रिरैकैकं वेदयन्ते ॥ ६ ॥

विष्टर आसनम् । पादार्थमुदकं पाद्यम् । अर्घार्थमर्घ्यम् । आचमनार्थमाचमनीयम् । मधुपर्क उक्तः । गौः स्त्रीगवी । आपस्तम्बगृह्ये दर्शनाद्, 'गौरिति गां प्राह तां स उत्तरेण यजुषे' ति ४ 'गौर्धेनुभव्ये'ति च मन्त्रे स्त्रीलिङ्गदर्शनात् । एतेषां द्रव्याणां


१. 'तत्प्रती' ख. पाठः.
२. 'पितृव्याये' क. ख. ग. पाठः.
३. 'ह' ग. पाठः.
४. 'ति मन्त्रलिङ्गाच्च ए' ख. पाठः.

Page 149Permalink

एकविंशः खण्डः] अनाविलोपेताम् । ९७

मध्ये एकैकं द्रव्यं मधुपर्काय त्रिस्त्रिर्निवेद्यन्ते । के, दातारः तत्परिचारका वा । तेषां च निवेदनं तत्रावसरे क्रमेण । एतेषामिति वचनमेवंजातीयानां गन्धादीनां मा भूदिति ॥ ६ ॥

एवं दातुः कर्तव्यमुक्तम्, मधुपर्क्यस्य कर्तव्यमाह —

अहं वर्ष्म सजातानां विद्युतामिव सूर्यः। इदं तैमधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेत् ॥ ७ ॥

विष्टरो विष्टरो विष्टर इति त्रिरुक्त्वा उदगग्रं विष्टरं निदधाति दाता । स च दर्भमयं कूर्चम् । तस्मिन्नुपविशेत् प्रतिग्रहीता अहं वर्ष्मेति मन्त्रेण ॥ ७ ॥

आक्रम्य वा पादौ प्रक्षालापयीत ॥ ८ ॥

अथवा नोपविशेत्, पादाभ्यां विष्टरमाक्रम्य पादयोः प्रक्षालनं कारयेत् । प्रक्षालापयीतेति रूपसिद्धिर्चिन्त्या ॥ ८ ॥

दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ॥ ९ ॥

यदा ब्राह्मणः प्रक्षालयिता तदा तस्मै दक्षिणं पादं पूर्वं प्रयच्छेत्, ततः सव्यम् ॥ ९ ॥

सव्यं शूद्राय ॥ १० ॥

पूर्वोक्तविपरीतम् । क्षत्रियवैश्ययोर्यथारुचि ॥ १० ॥

प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्याथाचमनीयेनौचामत्यमृतोपस्तरणमसीति ॥ ११ ॥

उपदेशक्रमादेव सिद्धे प्रक्षालितपादग्रहणमानन्तर्यार्थम् । तेन गन्धमाल्यादीनामर्हणाद्रव्याणां पश्चात् प्रवृत्तिः ।


१. 'ते', २. 'त्व' क. ख. ङ. पाठः. ३. 'नान्वाचा' क. पाठः.

Page 150Permalink

९८ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः

अर्घ्यमञ्जलिना प्रतिगृह्य एतावानर्घ्योपयोगः । केचित् मुखप्रक्षालनमिच्छन्ति । अथशब्दाद् गन्धादीनामुत्कर्षः । आचमनीयैनाचामति आचमनयिमुदकं सकृत् पिबति अमृतोपस्तरणमसीति मन्त्रेण । तत्रान्यच्छौचार्थं विधिवदाचमनं प्रवर्तते । नेत्यन्ये, यथा भोजनोपक्रमे न भवति एवमन्यत्रापीति । ज्ञापकं चात्र वक्ष्यामः ॥ ११ ॥

मधुपर्कमाह्रियमाणमीक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति ॥ १२ ॥

मधुपर्कमाहरति दाता । तमाह्रियमाणमीक्षते प्रतिग्रहीता मित्रस्य त्वेत्यनेन ॥ १२ ॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तमञ्जलिना प्रतिगृह्य मधु वाता ऋतायत इति तृचेनावेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य वसवस्त्वा गायत्रेण छन्दसा भक्षयन्विति पुरस्तान्निमार्ष्टि ॥ १३ ॥

तं मधुपर्कमञ्जलिना प्रतिगृह्णाति देवस्य त्वेति मन्त्रेण । ततो मधु वाता इति तृचेनावेक्षते । ततोऽनामिकया उपकनिष्ठिकयाङ्गुल्याङ्गुष्ठेन च त्रिः प्रदक्षिणमालोडयति । आलोड्य वसवस्त्वेति मन्त्रेण पुरस्तान्निमार्ष्टि लेपमपनयति ॥ १३ ॥

रुद्रास्त्वा त्रैष्टुभेन छन्दसा भक्षयन्त्विति दक्षिणतः आदित्यास्त्वा जागतेन छन्दसा भक्षयन्विति


१. 'ति मन्त्रेण ॥' ख. ग. घ. पाठः.

Page 151Permalink

एकविंशः खण्डः] अनाविलोपेताम् । ९९

पश्चात् विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्त्वित्युत्तरतः ॥ १४ ॥

एवं रुद्रास्त्वेत्यादिभिर्मन्त्रैर्दक्षिणादि प्रतिदिशं निमार्ष्टि ॥ १४ ॥

भूतेभ्यस्त्वेति मध्यात् त्रिरुद्गृह्य विराजो दोहोऽसीति प्रथमं प्राश्नीयात् ॥ १५ ॥

भूतेभ्यस्त्वेति मन्त्रेण मध्यात् त्रिरुद्गृह्णाति ऊर्ध्वमुत्क्षिपति । उद्गृह्य विराजो दोहोऽसीति मन्त्रेण प्रथमं प्राश्नीयात् । प्रथमोपदेशादेव सिद्धे प्रथमवचनमाचार्यप्रवृत्तिकृतम् । एषा प्रवृत्तिराचार्यस्यैवंविधे विषये । तद्यथा ‘आयुषे त्वा प्राश्नामीति प्रथममन्नाद्याय त्वेत्युत्तरमि’ति ॥ १५ ॥

विराजो दोहमशीयेति द्वितीयम् ॥ १६ ॥

मध्ये शौचार्थमाचमनं न भवति । स्मर्यते च ‘सोमे प्राणाहुतिषु मधुपर्के च नोच्छिष्टा भवन्ती’ति ॥ १६ ॥

मयि दोहः पद्यायै विराज इति तृतीयम् ॥ १७ ॥

पूर्वयोर्दर्शनादिहापि विराज इति षष्ठ्यन्तं पदं न चतुर्थ्यन्तम् ॥ १७ ॥

न सर्वम् ॥ १८ ॥

सर्वं मधुपर्कं न प्राश्नीयात् ॥ १८ ॥

न तृप्तिं गच्छेत् ॥ १९ ॥

आ तृप्तेर्न पिबेत् ॥ १९ ॥

Page 152Permalink
१००आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

ब्राह्मणायोदङ्ङुच्छिष्टं प्रयच्छेत् ॥ २० ॥

उच्छिष्टं प्राशितशिष्टं मधुपर्कमुदङ्मुखो ब्राह्मणाय दद्यात् ॥ २० ॥

अलाभेऽपः ॥ २१ ॥

यदि ब्राह्मणो न लभ्यते तदापः प्रवेशयेन्मधुपर्कम् ॥ २१ ॥

सर्वं वा ॥ २२ ॥

प्राश्नीयादित्येव । अलाभ इति च । ब्राह्मणस्यालाभे सर्वं वा प्राश्नीयात् ॥ २२ ॥

अथाचमनीयैनान्वाचामति अमृतापिधानमसीति ॥ २३ ॥

यत् पूर्वमानीतमाचमनीयं तेन अन्वाचामति अमृतापिधानमसीति यजुषा ॥ २४ ॥

सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम् ॥ २४ ॥

सत्यमित्यादिना यजुषा द्वितीयमाचामति ॥ २४ ॥

आचान्तोदकाय गां वेदयन्ते ॥ २५ ॥

अथ शौचार्थं विधिवदाचामति । तस्मै आचान्तोदकाय । एतदेव ज्ञापकं पूर्वत्र मध्ये शौचार्थं नाचमनमिति । उदकग्रहणेनाचमने उदकमेव प्राप्तं दर्शयति । तेन नालिकेराम्ब्वादिभिराचमनं न भवति । तस्मै गां वेदयन्ते गौर्गौर्गौरिति ॥ २५ ॥

Page 153Permalink

CC-0. Agamnigam Digital Preservation Foundation, Chandigarh

एकविंशः खण्डः] अनाविलोपेताम् । १०१

हतो मे पाप्मा पाप्मा मे हत इति जपित्वोङ्कुरुतेति कारयिष्यन् ॥ २६ ॥

ब्रूयादिति शेषः । क्रियासामान्यवाचिना करोतिना वधो लक्ष्यते । यो वधं गोरनुजानाति स कारयिष्यन् भवति । स हतो मे पाप्मेत्यादि जपित्वा ॐ कुरुतेति ब्रूयात् । ॐ हतेत्युक्तं भवति ॥ २६ ॥

माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन् ॥ २७ ॥

यः पुनर्गामुत्स्रक्ष्यन्¹ उत्स्रष्टुकामो भवति स माता रुद्राणाम् इति मन्त्रं जपित्वोमुत्सृजतेति ब्रूयात् ॥ २७ ॥

नामांसो मधुपर्को भवति भवति ॥ २८ ॥

मांसरहितो मधुपर्को न भवति । किं मधुपर्के मांसं देयमित्युच्यते² मधुपर्के³ भोजनममांसं न भवतीत्युच्यते । तदनेनाभ्युपायेन मधुपर्के भोजनमुपदिश्यते । द्विरुक्तिरध्यायसमाप्तिकृता ॥ २८ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
अनाविलायां प्रथमाध्याये एकविंशः खण्डः ।

प्रथमाध्यायः समाप्तः ।


१. 'मुत्स्रष्टुमिच्छति स' ख. पाठः. २. 'ते । नेत्याह म' क. ख. पाठः. ३. 'र्को नाम भो' ख. पाठः.

Page 154Permalink

अथ द्वितीयोऽध्यायः।

श्रावण्यां पौर्णमास्यां श्रवणाकर्म ॥ १ ॥

मेषादिस्थे सवितरि यो यो दर्शः प्रवर्त्तते ।
चान्द्रा मासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्रादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निश्चयः ॥

तदेवं सिंहस्थे सवितरि यामावास्या तदन्ते चान्द्रमसे मासि मध्यवर्तिनी या पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा मा वा भूत् । तस्यां श्रवणाकर्म कर्तव्यम् । श्रवणाशब्देनापि श्रावण्येवोच्यते । 'विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्य' इति दर्शनात् । तस्यां क्रियत इति श्रवणाकर्म । नामधेयमेतदन्वर्थम् । किं पुनस्तत् यः सर्पबलिरित्याख्यायते । अविशेषवचनात् प्रतिसंवत्सरं भवति ॥ १ ॥

अक्षतसक्तूनां नवं कलशं पूरयित्वा दर्वीं च बलिहरणीं नवे शिक्ये निदधाति ॥ २ ॥

तत्राक्षतानां धानानां सक्तवः कर्तव्याः अखण्डितानां यवानां तैर्नवं कलशं पूरयित्वा तं कलशं दर्वीं च बलिहरणीं बलिराह्रियते यया तां च नवे शिक्ये निदधाति ॥ २ ॥

अक्षतधानाः कृत्वा सर्पिषार्द्धा अनक्ति ॥ ३ ॥

अक्षतानां यवानां धानाः कृत्वा तासामर्धाः सर्पिषानक्ति । समप्रविभागोऽयमर्धः । अर्धशब्दो नपुंसकलिङ्ग इति

प्रथमः खण्डः] अनाविलोपेनम् । १०३

Page 155Permalink

प्रथमः खण्डः] अनाविलोपेनम् । १०३

वैयाकरणाः । वेदे तु स्त्रीलिङ्गोऽपि दृश्यते ‘तस्यार्धाः शस्त्वा-
र्धाः परिशिष्ये²ति । सर्पिंरं³संस्कृतम् । सर्वमेतदहन्येव भवति ॥

अस्तमिते स्थालीपाकं श्रपयित्वैककपालं च पुरोडाशम् अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यृचं हुत्वा पाणिनेककपालम् अच्युताय भौमाय स्वाहेति ॥

अस्तमित आदित्ये स्थालीपाकमेककपालं पुरोडाशं च श्रपयित्वा अग्ने नयेति चतसृभिः प्रत्यृचं स्थालीपाकं जुहोति । अच्युताय भौमाय स्वाहेति मन्त्रेण पुरोडाशम् । सर्वहुतोऽयं पुरोडाशः । कारणमुत्तरत्र वक्ष्यामः । तत्रावदानमर्थलुप्तम् । उपस्तरणाभिघारणयोस्तु सव्येन पाणिना प्रवृत्तिमिच्छन्ति । इह स्थालीपाकपुरोडाशयोः श्रपणविधानात् सक्तूनां धानानां च विधिवच्छ्रपणं न भवति । यथासिद्धानामेव ग्रहणम् । प्रत्यृग्ग्रहणादृगन्तेन होमः न स्वाहाकारेण ॥ ४ ॥

अवप्लुतः स्यादाविःपृष्ठो वा ॥ ५ ॥

अयं पुरोडाशः अवप्लुतः घृते निमग्नः स्यात् प्रकाशपृष्ठो वा । कस्मिंश्चित् पात्रे निधाय तथा घृतेन परिषेकः कार्यः यथायं निमग्नो भवति, आविःपृष्ठो वा भवति ॥ ५ ॥

मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति ॥ ६ ॥


१. 'र्धांश', २. 'शिष्य मध्ये निविदं दधाति' ग. पाठः.
३. 'लौकिकमसं' ग. घ. पाठः. ४. 'हुत्वा अ' ख. पाठः.

Page 156Permalink

१०४ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

एनं पुरोडाशमाशयेन यस्मिन् घृते पुरोडाश आश-
यितः मग्नः तेन घृतेनाभिजुहोति एनामिति वचनादखण्डि-
तस्यास्य होम इति ज्ञाप्यते ॥ ६ ॥

शं नो भवन्तु वाजिनो हवेष्वित्यक्ता धाना अञ्ज-
लिना ॥ ७ ॥

जुहोतीत्येव । अञ्जलिनेत्युभयोर्हस्तयोर्व्यापृतत्वादुप-
स्तरणाभिघारणयोरन्यः कर्ता ॥ ७ ॥

अमात्येभ्य इतरा दद्यात् ॥ ८ ॥

अमात्याः पुत्रादयः तेभ्य इतरा अनक्ता धाना दद्यात् ।
एतावद् गृह्ये करोति ॥ ८ ॥

कलशात् सक्तूनां दर्वीं पूरयित्वा प्रागुपनिष्क्र-
म्य शुचौ देशेऽपोऽवनिनीय सर्पदेवजनेभ्यः स्वाहेति
हुत्वा नमस्करोति ये सर्पाः पार्थिवा ये आन्तरिक्ष्या ये
दिव्या ये दिश्यास्तेभ्य इमं बलिमाहार्षं तेभ्य इमं ब-
लिमुपाकरोमीति १ ॥ ९ ॥

अथ शिक्यं गृहीत्वा प्राङ्मुख उपनिष्क्रम्य शुचौ
देशेऽपोऽवनिनीय नवात् कलशाद् गृहीतैः सक्तुभिर्दर्वीं पूर-
यित्वा जुहोति । सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति
ये सर्पा इति मन्त्रेण । मन्त्रलिङ्गात् सर्पेभ्यो नमस्कारः ।
शुचौ देश इति वचनाद्धोमत्वेऽप्यग्नेर्निवृत्तिः । शुचाविति व-
चनात् स्वभावतः शुचेररण्यस्य ग्रहणमिच्छन्ति ॥ ९ ॥


१. 'ति अस्योपरि प्रश्च्योतयति । ए' क. ख. पाठः.