Skip to content
SarvaKosh
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

by महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य)

Source: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (origin)

DevanagariHindipublished292 pages

Page 152 of 292

Read in context
Page 152
१००आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

ब्राह्मणायोदङ्ङुच्छिष्टं प्रयच्छेत् ॥ २० ॥

उच्छिष्टं प्राशितशिष्टं मधुपर्कमुदङ्मुखो ब्राह्मणाय दद्यात् ॥ २० ॥

अलाभेऽपः ॥ २१ ॥

यदि ब्राह्मणो न लभ्यते तदापः प्रवेशयेन्मधुपर्कम् ॥ २१ ॥

सर्वं वा ॥ २२ ॥

प्राश्नीयादित्येव । अलाभ इति च । ब्राह्मणस्यालाभे सर्वं वा प्राश्नीयात् ॥ २२ ॥

अथाचमनीयैनान्वाचामति अमृतापिधानमसीति ॥ २३ ॥

यत् पूर्वमानीतमाचमनीयं तेन अन्वाचामति अमृतापिधानमसीति यजुषा ॥ २४ ॥

सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम् ॥ २४ ॥

सत्यमित्यादिना यजुषा द्वितीयमाचामति ॥ २४ ॥

आचान्तोदकाय गां वेदयन्ते ॥ २५ ॥

अथ शौचार्थं विधिवदाचामति । तस्मै आचान्तोदकाय । एतदेव ज्ञापकं पूर्वत्र मध्ये शौचार्थं नाचमनमिति । उदकग्रहणेनाचमने उदकमेव प्राप्तं दर्शयति । तेन नालिकेराम्ब्वादिभिराचमनं न भवति । तस्मै गां वेदयन्ते गौर्गौर्गौरिति ॥ २५ ॥