Skip to content
SarvaKosh
Back to the archive

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

by महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह)

Source: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (origin)

Public domain in India · Report a copyright issue

DevanagariHindipublished1,001 pages

About this granth

The Vishnudharmottara Purana (विष्णुधर्मोत्तरपुराण) is a large Upapurana that presents itself as a supplement to the Vishnu Purana. It has three books: the first on creation, the cosmic ages, geography and genealogies; the second on kingship, law, astronomy, medicine and related subjects; and the third on the arts, covering painting (the Chitrasutra), music, dance, poetry, image-making and temple architecture. The Chitrasutra is among the oldest systematic accounts of Indian painting.

The scanned copy is the complete Sanskrit edition of about a thousand pages printed by the Shri Venkateshwar Press, Bombay, catalogued by the Digital Library of India under 1929. It opens with a Sanskrit preface on the authority of the Puranas, citing the Bhagavata and the Yajnavalkya Smriti. There is no Hindi translation in this edition, and the copy bears the stamp of Sarvodaya Sahitya Mandir, Hyderabad.

Art historians and students of iconography and Indian aesthetics can read the whole Purana here in Sanskrit.

Page 54
Page 54 scan

वि० ध० ॥ २ ॥
प्र० खं० अ० २

भवन्तु सर्वेऽपि तथा महीपाः ॥ सुखोपविष्टोऽसि महीपालैः स्वसंशयान् ब्रूहि यथाप्रकामम् ॥ २५ ॥ इत्येवमुक्तः स यदुप्रधाने भृगुप्रवरेण महर्षिमुख्ये ॥ प्रणम्य विप्रांस्तु जगाम राजा सिंहासनं रत्नसहस्रचित्रम् ॥ २६ ॥ सिंहासनस्थे नृपवर्यमुख्ये सिंहासनस्थाः क्षितिपा प्रधानाः ॥ सर्वे बभूवुः प्रणतास्तथा च शुश्रूषवो ब्राह्मणमुख्यवाक्यम् ॥ २७ ॥ वज्र उवाच ॥ आचक्ष्व मह्यं भृगुवंशचन्द्र समुद्भवं त्वं जगतो यथावत् ॥ शृण्वंति मे ब्राह्मणसंघमुख्या नरेंद्रमुख्याश्च वचस्त्वदीयम् ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कथाप्रस्तावने नाम प्रथमोऽध्यायः ॥ १ ॥

॥ मार्कण्डेय उवाच ॥

॥ नारायणं नमस्कृत्य सर्वभूतपरायणम् ॥ लक्ष्मीसहायं वरदं शेषपर्यङ्कशायिनम् ॥ १ ॥ जगतोऽस्य समुत्पत्तिस्थितिनाशनैककारणम् ॥ ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य संस्थितम् ॥ २ ॥ वक्ष्यामि जगतां राजन् समुत्पत्तिं निबोध ताम् ॥ सर्वपापप्रशमनीमायुष्यां स्वर्गदां शिवाम् ॥ ३ ॥ नारायणोऽस्य जगतः सृष्टिंसंहारपालनम् ॥ करोति जगतांपाल यस्य सर्वमिदं महत् ॥ ४ ॥ वेदेषु गीयते योऽसौ पुरुषः पञ्चविंशकः ॥ अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ॥ ५ ॥ यस्योन्मेषस्तु दिवसो ब्रह्मणः परमेष्ठिनः ॥ निमेषस्तु तथा रात्रिरितस्य कल्पं प्रकीर्तितम् ॥ ६ ॥ पुरुषत्वे त्वनन्तस्य न रूपं नृप विद्यते ॥ न च शब्दो न च घ्राणः स्पर्शो वा पृथिवीपते ॥ ७ ॥ न तस्य परिमाणं वा नचादिर्निधनं कुतः ॥ सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ॥ ८ ॥ सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ९ ॥ असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ तं च प्राप्य भवन्तीह युक्ताः पुरुषोत्तमाः ॥ १० ॥ सुरातिर्यङ्नृसिद्धानां तत्सात्म्यस्य सम्भवः ॥ तस्माद्भवति चाव्यक्तस्तस्मादात्मापि जायते ॥ ११ ॥ तस्माद्बुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ॥ तस्मात्तेजस्ततश्चापस्तेभ्योऽण्डमभवत्किल ॥ १२ ॥ अण्डो हिरण्मयो राजंस्तस्यान्तः स्वयमेव हि ॥ अङ्गग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥ १३ ॥ ब्रह्मा चतुर्मुखो देवो रजोमात्राधिकः सदा ॥ शरीरग्रहणं कृत्वा सृजतीदं चराचरम् ॥ १४ ॥ अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ॥ सप्तलोकान् सप्तपातालान् सप्तद्वीपार्णवां महीम् ॥ १५ ॥ सृष्टिं कृत्वा स भगवान् सात्त्विकीमाश्रितस्तनुम् ॥ अङ्गेऽङ्गे कृशता भूत्वा शेषभोगमयः प्रभुः ॥ १६ ॥ लक्ष्मीसहायो लोकांस्तु सदा पालयते सदा ॥ योगनिद्रां समास्थाय सर्वमन्वन्तराणि सः ॥ १७ ॥ शुभाशुभानि कर्माणि सर्वेषां स हि पश्यति ॥ अन्तकाले हरो भूत्वा जगत्संहरते पुनः ॥ १८ ॥ तामसीं तनुमास्थाय लीलयैव महायशाः ॥ रात्रिकाले तु जलमध्यगतां महीम् ॥ १९ ॥ दृष्ट्वोद्धरति यज्ञात्मा वाराहीमाश्रितां तनुम् ॥ ब्राह्मस्य मानं परिपाल्यं च विष्णोर्महात्मनो भवतीह नित्यम् ॥

॥ २ ॥


१ 'यतः' इति क० ख० ।

Page 55
Page 55 scan

संहारकाले च हरत्येति त्रैधं विभ्रते स त्रिकालयोगात् ॥ २० ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिरण्यगर्भोत्पत्ति
कथनो नाम द्वितीयोऽध्यायः ॥ २ ॥ मार्कण्डेय उवाच ॥ ब्रह्मरात्र्यां व्यतीतायां विबुद्धे पद्मसंभवे ॥ विष्णुः सिसृक्षुर्भूतानां ज्ञात्वा भूमिं जला-
न्तगाम् ॥ १ ॥ जलक्रीडारुचिं शुभं कल्पादिषु यथा पुरा ॥ वाराहमस्थतो रूपमुज्जहार वसुन्धराम् ॥ २ ॥ वेदपाद्यूपदंष्ट्रश्च चतुर्वक्त्रश्चतुर्मुखः ॥
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ ३ ॥ अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ॥ आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥
॥ ४॥ धर्मः सत्यमहाः श्रीमान्कर्मविक्रमसत्कृतः ॥ प्रायश्चित्तमयो धीरः प्रांशुजानुर्महाशयः ॥ उद्गात्रंत्रो होमलिङ्गः फलबीजमहौषधिः ॥ ५ ॥
वाय्वन्तरात्मा मन्त्रास्थिर्विकृतः सोमशोणितः ॥ वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ॥ ६ ॥ प्राग्वंशकायो द्युतिमानानादीक्षाभिरन्वितः ॥
दक्षिणाहृदयो योगी महाक्रतुमयो महान् ॥ ७ ॥ उपाकर्मरुचिरः प्रवर्ग्यावर्त्तभूषणः॥ नानापत्निसहायो वै महाशृङ्ग इवोदितम् ॥८॥ महीं सागर-
पर्यन्तां सशैलवनकाननाम् ॥ एकाणर्वजलभ्रष्टामेकापर्णकवार्णवतः प्रभुः ॥ ९ ॥ दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ॥ आदिदेवो महायोगी
चकार जगतीं पुनः ॥ १० ॥ एवं ज्ञात्वा वराहेण भूत्वा भूतहितार्थिना ॥ उद्धृता पृथिवी देवी जलमध्यगता पुरा ॥ ११ ॥ उद्धृत्य भूमिं सविभुर्म-
हात्मा वाराहरूपेण जलान्तरस्थाम् ॥ चक्रे विभागं जगतस्तदानीं यथातथा तच्छृणु राजनृसिंह ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे
मार्कण्डेयवज्रसंवादे वराहप्रादुर्भावो नाम तृतीयोऽध्यायः ॥ ३ ॥ मार्कण्डेय उवाच ॥ जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ॥ प्रथमं तत्प्र-
माणानां त्रसरेणुं प्रचक्षते ॥ १ ॥ त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ॥ ता राजसर्षपास्तिस्रस्तावत्यो गौरसर्षपाः ॥ २ ॥ सर्षपाः पञ्च वो
मध्ये अङ्गुलं च तदष्टकम् ॥ द्वादशाङ्गुलिकः शङ्कुस्तद्वयं हस्त उच्यते ॥३॥ तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिका ॥ क्रोशद्वयं च गव्युतिः
योजनं तच्चतुष्टयम् ॥ ४ ॥ योजनानां प्रमाणेन वायुतानां शतत्रयम् ॥ अयुतानां च पञ्चाशच्छ्रेष्ठस्थानं मनोहरम् ॥ ५ ॥ स एव लोके वाराहः
कथितश्च स्वयं प्रभुः ॥ वाराहरूपी भगवाञ्छत्रहस्त्यधरस्तथा ॥६॥ तत्रास्ते भगवान्विष्णुर्ऋषिभिः सह महात्मभिः ॥ लोकोऽयमुण्डसंलग्नश्छत्राकारः
प्रकीर्तितः ॥ ७ ॥ स्वयं प्रसुर्विताजाः सर्वदुःखविवर्जितः ॥ एकान्तभावोपगतास्तं प्रयान्ति हरिं जनाः ॥ ८ ॥ सर्वावस्थादयं लोकः कथितस्ते
मनोहरः ॥ तत्योपरिष्टादपरस्तावदेव प्रभाणतः ॥ ९ ॥ कालानिश्रृङ्गोलोकस्तु कथ्यतेऽग्निसमन्वितः ॥ एक एव स तत्रास्ते स्वप्रभाभास्वरा


१ 'पङ्गुजानुः' इति ख० । २ 'प्राग्वंशवर्त्ती' इति ख० । ३ 'तद्देशो' इति ख० ।

Page 56
Page 56 scan

वि० ध०
प्र० खं०
अ० ४

त्मकः ॥ १० ॥ तस्मात्समुत्थितो वह्निर्जगत्प्राप्ते दिनक्षये ॥ भस्मसात्कुरुते सर्वं यच्चाङ्गं यच्च नेङ्गते ॥ ११ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥
पातालनामा पातालः प्रथमः परिकीर्तितः ॥ १२ ॥ योगमायां समास्थाय द्वितीयामास्थितस्तलम् ॥ सर्वतो भगवानास्ते शेषमूर्तिर्जनार्दनः ॥
॥ १३ ॥ रुक्मभौमः स पातालो धृतो रुद्रस्य तेजसा ॥ तस्मिन्त्स भगवानास्ते शेषपर्यङ्कमाश्रितः ॥ १४ ॥ नित्यं तालध्वजो वाग्मी वनमालाविभू-
षितः ॥ धारयञ्छिरसा नित्यं रत्नांश्चित्रां फणावलीम् ॥ १५ ॥ लाङ्गली मुसली खङ्गी नीलाम्बरविभूषितः ॥ स्तूयमानः स गन्धर्वैर्नागैश्चापि वरेस्तथा
॥ १६ ॥ तातस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ सुतलसंज्ञः पातालः शिलाभासः समन्ततः ॥ १७ ॥ बलिरुतु भगवांस्तत्र बहिस्तिष्ठति संयतः ॥ रम्यं
पुरवरं तस्य विष्णुना निर्मितं स्वयम् ॥ १८ ॥ निवासं देवराजस्य विशिष्टं तत्पुरोत्तमम् ॥ सा वैष्णवी कला प्रोक्ता ययेदं धार्यते जगत् ॥ १९ ॥
(फणेषु तस्य विश्रान्ता मिलिता च शुभाशुभा ॥ तत्रास्ते स महाभागः श्रिया परमया युतः॥२०॥ तमुपासन्ति सततं गन्धर्वाप्सरसां गणाः ॥)
तत्रास्ते देवदेवस्य मूर्तिः कृष्णस्य चापरा ॥ २१ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ आभासतल इत्येव पातालो नीलवृत्तिकः ॥ २२ ॥
तृतीयः स तु विख्यातः सुरम्यैश्च तिष्ठति ॥ द्विपञ्चवत्तथा तत्र चतस्रश्च तथा स्थिताः ॥ २३ ॥ सुभद्रा बहिरूपा च विश्वरूपा तथैव च ॥
रोहिणी च महाभागा याभिर्धृतमिदं जगत् ॥ २४ ॥ तासां क्षीरेण सर्वासां कृतः क्षीरार्णवः प्रभो ॥ पातालमध्ये तस्मिंस्तु पुरं विष्णोर्मनोहरम् ॥
॥ २५ ॥ यत्रास्ते भगवान्विष्णुः शेषपर्यङ्कगास्तथा ॥ अग्निज्वालापरिक्षिप्तः सह लक्ष्म्या परन्तप ॥ २६ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥
पीतभौमश्चतुर्थस्तु गभस्तिमत्तलसंज्ञितः ॥ २७ ॥ तत्रास्ते भगवान्विष्णुर्देवो हयशिरोधरः ॥ शशांकशतसंकाशः शातकौंभविभूषणः ॥ २८ ॥
पुरं तत्रैव विख्यातं गरुडस्य महात्मनः ॥ (प्रह्लादस्यासुरेन्द्रस्य वाष्फलेश्च महात्मनः) ॥ २९ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ महा-
तलेति विख्यातो रक्तभौमस्तु पञ्चमः ॥ ३० ॥ सरोवरं तस्य मध्ये योजनानां दशाश्रुतम् ॥ जंगमाजंगमैः सर्वैर्जलजैश्च विवर्जितम् ॥ ३१ ॥
तत्राङ्गेण वसति कूर्मरूपधरो हरिः ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ ३२ ॥ षष्ठश्चैव महाराज नाम्ना भीमबलस्तु सः ॥ तत्रापि सरसी
दिव्या योजनानां शतं गता ॥ तस्यां च वसते देवो मत्स्यरूपधरो हरिः ॥ ३३ ॥ सप्तमः कृष्णभौमस्तु नाम्ना भीमबलस्तु सः ॥
तत्रास्ते कपिलो देवो वासुदेवः स्वयं प्रभुः ॥ ३४ ॥ तत्राश्मनगरं नाम वरुणस्य पुरं स्मृतम् ॥ तथा दानववीराणां नगराणि पृथक्पृथक् ॥३५ ॥

॥ ३ ॥


१ कोष्ठकान्तर्गतः पाठः ख पुस्तके नास्ति । २ कोष्ठान्तर्गतः पाठो नास्ति ख पुस्तके । ३ 'महातेजेति' इति ख० । ४ 'योजनं दशसंख्यया' इति ख० ।

Page 57
Page 57 scan

विरोचनस्य कुम्भस्य निकुम्भस्य हरस्य च ॥ शम्बरस्य करालस्य हयस्य च ॥ ३६ ॥ हयग्रीवस्य सुन्दस्य घस्रस्य प्रथसस्य च ॥
बलेः पुरवरं चात्र योगीशस्त्य तथापरम् ॥ ३७॥ यत्रस्थमेनं दृष्ट्वानं रावणो लोकरावणः ॥ तथा पुरवरं तत्र विष्णोरमिततेजसः ॥३८॥ लक्ष्मीसहाया
यत्रास्ते चांग्राम्बरसंवृतः ॥ तिस्रः कोट्यस्तु यत्रास्य भक्तानां सुमहात्मनाम् ॥ ३९ ॥ शङ्खचक्रगदापद्मधारिणां पीतवाससाम् ॥४०॥ नीलोत्पल
सवर्णानां विष्णोः सदृशतेजसाम् ॥ विष्णोः सुतानां हृद्यानां सततं भूरिवर्चसाम् ॥ ४१ ॥ तत्रस्थो दृष्टवान् देवो पौलस्त्यो रावणः पुरा ॥ पुरीं
भोगवतीं तत्र तथा वासुकिकालिता ॥ ४२ ॥ नागानां च पुराण्यत्र तथैव च पृथक्पृथक् ॥ पद्मस्य धृतराष्ट्रस्य विरक्तस्य कुरोस्तथा ॥ ४३ ॥
तक्षकस्यैलपत्रस्य तथा कर्कोटकस्य च ॥ धनञ्जयस्य शङ्खस्य तथैवाश्वतरस्य च ॥ ४४ ॥ कण्डलस्य मुरालस्य सुमुखस्य गयस्य च ॥ दिशां
गजानां च तथा तत्र स्थानं पृथक्पृथक् ॥ ४५ ॥ येषां स्कंधगता भूमिः सशैलवनकानना ॥ विरूपाक्षस्य नागस्य महापद्मस्य चाप्यथ ॥ ४६ ॥
तथा सुमनसश्चात्र रुद्रस्य च महात्मनः ॥ पञ्चायुतपरीमाणा भूमिः सर्वेषु पार्थिव ॥ ४७ ॥ पातालेषु विनिर्दिष्टा पठितान्तरवर्तिनी ॥
अण्डस्यार्द्धमिदं प्रोक्तमधस्तात्तु प्रमाणतः ॥ ४८ ॥ तिस्रः कोट्यस्तु राजेन्द्र नियुतानि तथा दश ॥ पञ्चान्यानि महीपाल भूमि
पृष्ट्या महानच ॥ ४९ ॥ पञ्चायुतपरीमाणाः पृथिव्यैः प्रकीर्तिता ॥ भूमेरथोपरिष्टाच्च अण्डस्यार्धमथापरम् ॥ एतावदेव निर्दिष्टा भूमिपाल
प्रमाणतः ॥ ५० ॥ चन्द्रार्कभासा रहितं नूवारं स्वयं प्रभेदं कथितं मयैतत् ॥ पातालपूर्वं विविधं सुगम्यं शृणुष्व लोकान् गदतोममान्या
न् ॥ ५१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पातालवर्णनो नाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ मार्कण्डेय उवाच ॥
भूर्लोकः प्रथमो राजञ्शृणुष्व गदतो मम ॥ पातालेन तु तुल्यमूर्ध्वतः परिकीर्तितः ॥ १ ॥ वायुकक्षा विनिर्दिष्टास्ते तु सप्त महात्मभिः ॥
एकैकं नियुताः पंच योजनानां प्रकीर्तितम् ॥ २ ॥ पशवः पक्षिणः कीटा मनुष्याः किन्नरास्तथा ॥ यक्षराक्षसगन्धर्वाः पिशाचा भूमिगोचराः ॥३॥
सर्वे एते विनिर्दिष्टा अन्नादा भूमिगोचराः ॥ विद्याधराणां प्रथमं वायुमार्गः प्रकीर्तितः ॥ ४ ॥ द्वितीयः सिद्धविद्यानां तृतीयस्तु गरुत्मताम् ॥
चतुर्थो वायुमार्गेस्तु गन्धर्वाणां प्रकीर्तितः ॥ ५ ॥ विनायकाः पञ्चमगा षष्ठे च करिणी गणाः ॥ येषां शिकिरतोयेन चावस्थायः प्रकीर्तितः ॥ ६ ॥
सप्तमे च महाभाग सिद्धास्तिष्ठंति यादव ॥ तस्योपरिष्टादपरस्तावदेव प्रमाणतः॥७॥ भुवर्लोक इति ख्यातो यत्र तिष्ठंति देवताः ॥ मन्वन्तराधिका


१--'स्तोत्रं' इति ख० ।

Page 58
Page 58 scan

वि० भू० ॥ ४ ॥
प्र० सं० अ० ५

रेषु ये भविष्या महीपते ॥ ८ ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ स्वर्लोके वसतिस्तत्र प्रायशः पुण्यकर्मणाम् ॥ ९ ॥ सोमपानां च देवानां
शक्रादीनां महीपते ॥ महर्लोकस्थितिस्त्वियं देवतानां महात्मनाम् ॥ १० ॥ विनिवृत्ताधिकाराणां सिद्धानां नृपसत्तम ॥ तस्योपरिधिरप्यस्तावदेव
प्रमाणतः ॥ ११ ॥ जनलोकः स्थितिश्चियं गवां पार्थिवसत्तम ॥ तिष्ठन्ति ब्रह्मणो रात्र्यां यत्र जीवाः समन्ततः ॥ १२ ॥ तस्योपरिधिरप्यस्तावदेव
प्रमाणतः ॥ तपोलोकः स्थितिश्चियं प्राणेशानां महात्मनाम् ॥ १३ ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ सत्यलोकः स्थितिरियं ब्रह्मणः
परमेष्ठिनः ॥ १४ ॥ इत्येते कथिताः सप्त तव लोका महात्मनाम् ॥ एतावानेव सवितुर्विवरन्ति मरीचयः ॥ १५ ॥ एतेषु लोकसंज्ञाक्ता
तस्मादेव मनीषिभिः ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ १६ ॥ स्थानं रुद्रस्य कथितं रुद्रतेजोविराजितम् ॥ ब्रह्मलोकोपरिह्याशु
रुद्रलोको महत्तमः ॥ १७ ॥ योजनानां सहस्राणि पञ्चभिश्चिनिर्बिडं मतम् ॥ आदित्यमन्दिरं प्रोक्तं यदेतद्दिवि दृश्यते ॥ १८ ॥ यदेतद्दृश्यते नीलं
तमस्तत्पृथिवीपते ॥ तमसस्तु परं पारे रुद्रलोकः स्वयं प्रभो ॥ १९ ॥ रुद्रत्वं समनुप्राप्तस्तत्र भक्तैर्महानहम् ॥ क्रीडन्नास्ते महादेवः सपत्नीको
वृषध्वजः ॥ २० ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ अगम्यस्सर्वदेवानां विष्णुलोकः प्रकीर्त्तितः ॥ २१ ॥ तस्योपरिगदाह्लाण्डः
काञ्चनो दीप्तिसंयुतः ॥ भुवर्लोके तु वसतिर्वामनस्य महात्मनः ॥ २२ ॥ स्वर्लोके वसतिर्विष्णोर्वैकुण्ठस्य महात्मनः ॥ नृवराहस्य वसतिर्मह
र्लोके प्रकीर्त्तिता ॥ २३ ॥ नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः ॥ त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्त्तिता ॥ २४ ॥ लोकाः सन्तानका
नाम सत्यलोके प्रकीर्त्तिताः ॥ एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥ २५ ॥ तपसा महता राजन भक्ताश्च मततं प्रभुम् ॥ रुद्रस्थानोपारिह्याद्यु
विष्णोः स्थानं मयोदितम् ॥ २६ ॥ न कश्चिद्देवं शक्नोति द्रष्टुं देववरं हरिम् ॥ न तत्र सूर्यस्तपति चन्द्रमा न विराजते ॥ २७ ॥ तेजसा तस्य
देवस्य स तु देशो विराजते ॥ तस्योपरिह्याण्डामध्य यावदन्तं महीपते ॥ २८ ॥ प्रोक्तं वाङ्मनसान्यत्य तत्र मानं निबोध मे ॥ योजनानां च
षट्कोट्यास्त्रिंशच्च नियुतान्यथ ॥ २९ ॥ एतावच्चैवं भूतानां वसतिः परिकीर्त्तिता ॥ एतावदेव चन्द्रम्य तलमुक्तं ममंत्रतः ॥ ३० ॥ एतुषु देवं
पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥ तपसा महता राजन भक्ताश्च मततं प्रभुम् ॥ ३१ ॥ बाह्येतोऽण्डं दशगुणं त्विद्भिन्नु परिवाग्निम् ॥ आपो
दशगुणेनैव बाह्यतस्तेजसा वृताः ॥ ३२ ॥ तेजोगुणेनैव वायुतः पवेनंतं च ॥ वायुर्दशगुणेनैव गगनंत तथायुतः ॥ ३३ ॥ आकाशं च दशग्रनं


१- 'एतावदेव' इति ख० ।

॥ ४ ॥

Page 59
Page 59 scan

मनसा बाह्यतो वृत्तम् ॥ मनश्च बुद्ध्या सकलं वृत्तं राजन् दशैश्चया ॥ ३४ ॥ आत्मना चावृता बुद्धिर्दशभिश्च समन्ततः ॥ अन्यैस्तेन तथैवात्मा दशभैरेव चावृतः ॥ ३५॥ अव्यक्तः पुरुषेणायं त्वनन्तेनावृतोऽनघः॥ एवं विधाना मण्डानामानन्त्यं कः पुरुषोत्तमः ॥ ३६॥ तिर्यगूर्ध्वमधः संख्या वक्तुं राजन्न शक्यते ॥ अनन्तत्वात्प्रधानस्य पुरुषस्य महात्मनः ॥३७॥ एकरूपास्तथैवाण्डाः सर्वे एव नराधिप ॥ तुल्यदेशविभागाश्चं तुल्यजन्तव एव च ॥३८॥ देशेदेशे समाना ये अण्डेषु नृपसत्तम ॥ सुखदुःख समा तेषां जीवितं मरणं तथा ॥३९॥ सर्वाण्डानां समा ज्ञेया कालसंख्या नराधिप ॥ पौरुषस्य दिनस्यान्ते सर्वे ह्यण्डनिवासिनः ॥ ४० ॥ एकोऽप्यनन्तो राजेन्द्र नान्तरेव प्रकीर्तितः ॥ अयं मयोक्तो नृप सन्निवेशः संक्षेपमात्रेण चराचरस्य ॥ व्यासेन चैवं परिकीर्त्यमानः समाप्यते नैव कदाचिदेव ॥ ४१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे लोकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

॥ वज्र उवाच ॥
भूमण्डलस्य कृत्स्नस्य संस्थानेन च भार्गव ॥ वद प्रमाणं कृत्स्नं तत्तत्र मे संशयो महान् ॥ १॥

मार्कण्डेय उवाच ॥
भूमण्डलस्य राजेन्द्र मध्ये मेरुर्महागिरिः ॥ योजनानां सहस्राणि तस्य मध्ये समन्ततः ॥२॥ जम्बूद्वीपस्तु पश्चात्तत्प्रमाणेन प्रकीर्तितः ॥ योजनानां तु नियुतं तस्य पारं महीपते ॥ ३ ॥ लवणेन समुद्रेण तेनाऽसौ परिवेष्टितः ॥ लवणाद्द्विगुणेनापि शाकद्वीपेन लावणः ॥४॥ वेष्टितश्च महाराज शाकद्वीपो न संशयः ॥ क्षीरोदेन स्वतुल्येन क्षीरोदोऽपि च वेष्टितः ॥ ५ ॥ क्षीरोदाद्द्विगुणेनापि कुशद्वीपेन योजनैः ॥ आज्योदेन कुशद्वीपः स्वतुल्येन च वेष्टितः ॥ ६॥ क्रौञ्चद्वीपेन चाज्योदो द्विगुणेन च वेष्टितः ॥ क्रौञ्चद्वीपः स्वतुल्येन दधिमण्डोदकेन च ॥ ७॥ द्वीपेन शाल्मलेनाथ द्विगुणेन च वेष्टितः ॥ सुरोदो द्विगुणेनाथ गोमेदेन च वेष्टितः ॥ ८ ॥ पुष्करद्वीपमध्ये तु द्वीपसंस्थानमण्डपः ॥ पर्वतः सुमहालोके विख्यातो मानसोत्तरः ॥ ९ ॥ नियुताधं योजनानां प्रमाणेन प्रकीर्तितः ॥ नानाप्रकारशिखरास्तत्रावेद्य समुच्छ्रितः ॥ १० ॥ मेरोस्तु पूर्वदिग्भागे मानसोत्तरमूर्धनि ॥ पुरी शक्रस्य विख्याता नामतस्त्वमरावती ॥ ११ ॥ पूर्वदक्षिणदिग्भागे तथा वन्हेः प्रभावती ॥ यमस्य दक्षिणे भागे नाम्ना संयमनी पुरी ॥ १२ ॥ विरूपाक्षस्य विक्रान्ता भागे दक्षिणपश्चिमे ॥ पश्चिमे च तथा भागे वरुणस्य सुखप्रभा ॥ १३ ॥ शिवा नाम पुरी वायोर्भागे वै पश्चिमोत्तरे ॥ विभावरी सोमपुरी उत्तरेण प्रकीर्तिता ॥ १४ ॥ शर्मदा च पुरी शैवे भागे पूर्वोत्तरे स्मृता ॥ पुष्करश्च स्वतुल्येन वृतः स्वादूदकेन च ॥ १५ ॥ स्वादूदकात्परं क्षोणी कार्त्तस्वरमयी शुभा ॥ योजनानां प्रमाणेन सहस्राणि तु विंशतिः ॥ १६ ॥


१ 'मन्ततः' इति ख० ।
२ 'तुल्यदेशो विभागाश्च' इति ख० ।

Page 60
Page 60 scan
प्र० खं०
अ० ६

वि० ध०
॥५॥

दश चान्यानि राजेन्द्र पञ्च पञ्च प्रकीर्तिताः ॥ समन्ततस्तरत्नशिला देवोद्याने मही शुभा ॥ १७ ॥ स्थितस्ततां परिधाय्यौँ लोकालोको महीधरः ॥
अयुतं योजनानां तु विस्तरेणोच्छ्रयेण च ॥ १८ ॥ लोकालोके महीपाल लोकपालास्त्वमी स्मृताः ॥ प्राच्यादिषु महावीर्याः कल्पस्थायिन
एव ते ॥ १९ ॥ सुदामा शेषपादश्च केतुमान्सुमहाबलः ॥ हिरण्योरोमा च तथा विज्ञेयाश्च दिगीश्वराः ॥ २० ॥ अर्वाक्तस्य महीध्रस्य चन्द्रार्क
ग्रहतारकाः ॥ प्रपतन्ति महाराज न तु पारे कदाचन ॥ २१ ॥ दृषोदकसमुद्रस्तु लोकालोकं समन्ततः ॥ परिवार्थ स्थितो राजन्रन्ध्रकारे महा
र्णवः ॥ २२ ॥ एकषष्टिप्रमाणेन नियुतानि समन्ततः ॥ तस्य पारे ततो राजन्ब्रह्माण्डस्तु समन्ततः ॥ २३ ॥ ऊर्द्धनाधश्च विष्कम्भो यावान
ण्डस्य कीर्तितः ॥ तावदेव प्रमाणेन तिर्यक्षु परिवार्तिः ॥ २४ ॥ मेरुमध्यात्समुद्रस्य पारं गर्भोदकस्य तु ॥ कोटित्रयं योजनानां नियुतानि
तथा दश ॥ २५ ॥ पञ्चान्यानि च राजेन्द्र प्रमाणं परिकीर्तितम् ॥ तस्य राज... ब्रह्माण्डस्तु समन्ततः ॥ २६ ॥......तदधश्च द्वितीयस्य
महीपते ॥ एतदेव तु निर्दिष्टं प्रमाणं तत्त्वचिन्तकैः ॥ २७ ॥ मेरोस्तु पूर्वदिग्भागे मध्ये तु लवणोदधेः ॥ विष्णोलोको महान्प्रोक्तः सलिलान्तर
संस्थितम्॥२८॥स्वभासयात्र देवस्य सततं नृप राजितम् ॥ तत्र स्वपिति धर्मान्ते देवदेवो जनार्दनः ॥ २९ ॥ लक्ष्म्यासहायः सततं शेषपर्यङ्क
माश्रितः ॥ एकादश्यामाषाढस्य शुक्लपक्षे जनार्दनम् ॥ ३० ॥ देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ॥ अभिद्रवन्ति ते गत्वा सततं दिनपञ्च
कम् ॥ ३१॥ उत्सवं चैव कुर्वन्ति गीतनृत्यसमाकुलम् ॥ ततस्तु चतुरो मासान् योगनिद्रासुपासते ॥३२॥ सुतं च तमुपासते ऋषयो ब्रह्मसप्रमताः ॥
सप्तर्षिगण शर्वाणि भक्तास्ते देवमानवाः ॥३३॥ कार्तिकस्य सिते पक्षे तदेव दिनपञ्चकम् ॥ विवोधयन्ति देवशं गत्वा सेन्द्रा दिवौकसः ॥३४॥
देवास्तथैव कुर्वन्ति तदापि च महोत्सवम् ॥मेरोस्तु पूर्वदिग्भागे मध्ये क्षीरार्णवस्य तु ॥३५॥ शृंगारमुख्येण शुभा देवस्यान्या तथा पुरी ॥ लक्ष्मी
सहायस्तत्रास्ते शेषपासनगतः प्रभुः ॥३६॥ तत्रापि चतुरो मासान् सुतस्तिष्ठति वापिकान् ॥ अन्ते च केवलंस्तत्र दृश्यते शाश्वतः प्रभुः ॥ ३७ ॥
तस्मिंस्तथैव दिग्भागे मध्ये क्षीरार्णवस्य तु ॥ योजनानां सहस्राणि मण्डलः पश्चविंशतिः ॥ ३८॥ श्वेतद्वीपंनु विख्यातो द्वीपः परमशोभनः ॥
नराः सूर्य्यप्रभास्तत्र शीतांशसमदर्शनाः ॥३९॥ तेजसा दुर्निरीक्ष्याश्च देवानामापि यादव ॥ पञ्चकालविधानज्ञाः पूजयन्ति जनार्दनम् ॥ ४० ॥
पूजां तेषां शिरसा स तु देवः प्रयच्छति ॥ दृष्ट्वैश्च कृतां पूजां पादक्षै प्रयच्छति ॥४१॥ एकाल्नाभावपगतामन्त्र यान्ति हरिं नगः ॥ तत्र गत्वा ॥ ५ ॥

---
१ 'महद्रस्य' इति क० । २ 'गर्भोदकसमुद्रस्तु' इति ख० । ३ 'नेत्रवार' इति ख० । ४ 'नेयापि च' इति क० ३ 'सर्वेश' इति कः । ६ 'पङ्कज' इति क० ।
Page 61
Page 61 scan

नशोचन्ति निवर्तन्तेन चाप्यथ॥४२॥ पूजयित्वा चिरं कालं देवदेवं जनार्दनम् ॥ आदित्यमण्डलं भित्त्वा ब्रह्माणं प्रविशन्ति ते ॥४३ ॥ ततो
निरुद्धं देवेशं प्रद्युम्नं चाप्यनन्तरम् ॥ ततः संकर्षणं देवं वासुदेवं ततः परम् ॥ ४४ ॥ वासुदेवं च संप्राप्य मुच्यन्ते सर्ववन्धनैः ॥ श्वेतद्वीपगता
स्तस्मान्न निवर्तन्ति कर्हिचित् ॥४५ ॥ पूर्वोत्तरे तु दिग्भागे मध्ये क्षीराणवस्य तु ॥ वैजयन्त इति ख्यातः पर्वतः सर्वकाञ्चनः ॥ ४६ ॥ योजनानां
सहस्राणि प्रमाणेन दश स्मृतः ॥ आयामाद्विस्तरोच्छ्रायैः प्रमाणं तस्य कीर्तितम् ॥४७॥ योजनानां सहस्राणि पञ्च तस्य गुहा स्मृता ॥ उच्छ्रिता
योजनशतं तावदेव च विस्तृता ॥ ४८ ॥ तिमिरेणावृता द्वारि योजनानां तथा शतम् ॥ स्वप्रभाभरणा दिव्या ततः परतरं हि सा ॥ ४९ ॥ नाम्ना
च लोके विख्याता ऋषिभिस्तिमिरार्वती ॥ तस्यां देववरो विष्णुः स्वपन्नास्ते जनार्दनः ॥५०॥ तत्रैवानुपतिष्ठन्ति दिव्यस्तिस्रो महीपते ॥ निद्रा च
कालरात्रिश्च लक्ष्मीश्च वरवर्णिनी ॥५१॥ उपास्ते च तं देवं भुवाद्या परमर्षयः ॥ शरीरधारिभिश्चास्त्रैस्तथा तत्र च सेव्यते ॥५२॥ तस्य सुप्तस्य
वदनान्निश्वासोच्छासतः क्रमात् ॥ प्रजानां पङ्कयो ह्यर्त्तिनिपतन्ति पतन्ति च ॥ ५३ ॥ तस्योच्छासञ्च जन्तूनां सम्भवः कथितो नृप ! ॥
निःश्वासतश्चैव तथा जन्तूनां मरणं स्मृतम् ॥ ५४ ॥ मध्ये वृत्तस्त्वम्बुदस्य मेरोः पश्चिमतस्तथा ॥ योजनानां तु नियुतं द्वीपस्तु परिमण्डलः॥५५॥
तत्र गोवर्धनस्योक्ता वसतिः सुमहात्मनः ॥ दिव्यानां तत्र धेनूनां वसतिश्च तथा स्मृता ॥ ५६ ॥ सततं कामरूपेण भामिः स रमते हरिः ॥ मध्ये
दधिसमुद्रस्य द्वीपस्तावत्प्रमाणतः ॥ ५७ ॥ हेमरूपधरो यत्र नित्यं वसति केशवः ॥ तत्रस्थमेनं पश्यन्ति ऋषयो भूरितेजसः ॥ ५८ ॥
सुरासमुद्रमध्ये तु द्वीपः परमावृतस्ततः ॥ तत्र संकर्षणो देवो विभुश्चास्ते सुराऽसुराः ॥ ५९ ॥ उपतिष्ठन्ति तत्रैनं दिव्यस्त्रीस्तत्र मनोरमाः ॥ कान्तिश्च
मदिरा चैव तथा देवी करीषिणी ॥६०॥ तत्रस्थमेनं पश्यन्ति प्रजानां पतयः सदा ॥ दृष्यामण्डलं कृत्स्नमिदं तवोक्तं क्ष्मापालवृन्दारकपूरणचन्द्र ॥
समासतो व्यासगिरामशक्यं वक्तुं महेन्द्रोपि न वर्षपूगैः ॥ ६१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वीपविभागवर्णनो नाम
षष्ठोऽध्यायः ॥ ६ ॥ ॥वज्र उवाच ॥ जम्बूद्वीपस्य संस्थानं विस्तरेण महामुने ! ॥ त्वत्तोहं श्रोतुमिच्छामि यत्र जातोऽसि भार्गव ॥ १ ॥
॥ मार्कण्डेय उवाच ॥ अवगाढावुभयतस्समुद्रौ पूर्वपश्चिमौ ॥ जम्बूद्वीपे महाराज ! षडिमे कुलपर्वताः ॥ २ ॥ हिमवान्हेमकूटश्च निषधो नील
एव च ॥ मेरुश्च शृंगवांश्चैव सर्व रत्नाकशः शुभाः ॥ ३ ॥ मध्ये तु मण्डलः शैलो नीलस्य निषधस्य च ॥ सौवर्णः कथ्यते मेरुः प्रमाणं तस्य
मे शृणु ॥ ४ ॥ चतुरशीतिसाहस्रैः कथिताश्चोच्छ्रयेण च ॥ अधस्तात्षोडशैवोधः षोडशैव तु विस्तृतः ॥ ५ ॥ विस्तारो द्विगुणश्चास्य मूलभूमौ

Page 62
Page 62 scan

बि० ध०
॥ ६॥

प्र० सं०
अ० ७

मण्डलः स्मृतः ॥ वृन्दपुष्पनिभश्चोर्ध्वं द्वात्रिंशच्चैव विस्तृतः ॥ ६ ॥ विस्तारो द्विगुणश्चास्य तत्राप्यधिकविधिः स्मृतः ॥ मेरोस्तु नवतिः प्रोक्तः
सहस्रः पूर्वतो गिरिः ॥ ७॥ योजनानां सहस्रं तु माल्यवान् नाम नामतः ॥ आनीलं निषधं यावत्पार्श्वेन तु तावता ॥ ८ ॥ तावत्प्रमाणो
निर्दिष्टः पूर्वतो गन्धमादनः ॥ मेरोस्त्ववततः श्वेतः पूर्वतोऽनन्त उच्यते ॥ ९ ॥ दक्षिणे च तथा पीतः कृष्णः पश्चिमस्तः स्मृतः ॥ अन्तेण स्मृतो
विप्रः पूर्वतः क्षत्रियः स्मृतः ॥ १० ॥ दक्षिणेन तथा वैश्यः शूद्रः पश्चिमस्तः स्मृतः ॥ तस्माद्दूर्ध्वा विप्राणां प्राची स्यात्क्षत्रजन्मन ।म् ॥ ११ ॥
दक्षिणा वैश्यजातीनां शूद्राणां पश्चिमा स्मृता ॥ प्राच्यां महेन्द्रस्य पुरी मेरुपृष्ठेऽमरावती ॥ १२ ॥ वह्नेः प्रदक्षिणेनोक्ता पुरी नाम्ना प्रभावती ॥
यमस्य दक्षिणेनोक्ता नाम्ना संयमनी पुरी ॥ १३ ॥ प्रोक्ता वै नैर्ऋतौ भागे पुरी पश्चिमदक्षिणे ॥ पश्चिमेन तथा रम्या सुखदा वरुणस्य च ॥ १४ ॥
अनन्तरं शिवा नाम पुरी वायोः प्रकीर्तिता ॥ उत्तरेण पुरी रम्या सोमस्योक्ता विभावरी ॥ १५ ॥ अनन्तरं शिवस्योक्ता नगरी शार्ङ्गी शिवा ॥
मेरुपृष्ठे यथा देवाः संश्रितास्तु यथादिशम् ॥ १६ ॥ विज्ञेयास्ते तु दिक्पालास्तत्संस्थायौ तथा दिशि ॥ देवः स्वर्गे नगरी नित्यं मानसोत्तरमूर्द्ध
नि ॥ १७ ॥ मेरुन्तु पश्यति विमुखास्तस्यो मेरुगतां पुरीम् ॥ उदक्‌शुक्लवतोऽधं तु याम्येन कुरुसंज्ञितम् ॥ १८ ॥ वर्षन्तु कथितं दिव्यं गवांपद‌व
वर्जितम् ॥ शुक्लवच्छृंगयोर्मध्ये वर्ष ज्ञेयं हिरण्मयम् ॥ १९ ॥ रम्यन्तु वर्ष विझेयं मध्यतः श्वेतनीलयोः ॥ मध्ये निषधनीलायां पश्चाद्वै गन्ध
मादनः ॥ २० ॥ केतुमालः स्मृतो वर्षस्त्वतीव सुमनोहरः ॥ मध्ये निषधनीलाभ्यां पूर्वे माल्यवतो गिरेः ॥ २१॥ वर्षे भद्राश्वो नाम नित्यं मुदित
मानवः ॥ मेरोश्चतुर्दश नाम्रा वर्षो गजलिलावृतः ॥ २२ ॥ तस्यापि भद्रश्वक्षणे नामतन्तान्निवोध मे ॥ भद्राश्वो जम्बूमालश्च केतुमालुकुव
स्तथा ॥ २३ ॥ जम्बूवृक्षस्तु विख्यातो जम्बूमाले तु यादव ! ॥ योजनानां सहस्रं तु तत्पूर्वं तस्य कीर्तितम् ॥ २४ ॥ तत्फलभ्यः प्रभवति
रम्या जांबूनदी शुभा ॥ मेरोः प्रदक्षिणं कृत्वा स्वमुखे मा च नश्यति ॥ २५॥ वृक्षोजन तनदं जम्बूद्वीपं प्रचक्षते ॥ इलावृतन्तु प्रभया मेरो
र्नित्यं प्रकाशते ॥ २६ ॥ न तत्र भ्राजते सूर्यो न चन्द्रो न च तारकाः ॥ मेरोः शगवसंमध्यान्नित्यमेव तिरोहितः ॥ २७॥ हेमकूटादुत्तरतो
हरिवर्षं प्रचक्षते ॥ हेमकूटाद्दक्षिणतस्तथा किंपुरुषं स्मृतम् ॥ २८ ॥ हिमाचलाद्दक्षिणतो वर्षं यादव भारतम् ॥ कर्मभूमिरिहोपाल यत्र
वर्तमिहे वयम् ॥ २९॥ भारतोऽस्मिन्युगाख्या क्रमेवन विनिर्मिता ॥ वर्षे तु चाय संस्थाने विज्ञेयं दक्षिणात्तरं ॥ ३० ॥ वर्षत्रयं तु


१ 'पद्ममाल्या' इति क० ।

॥ ६॥

Page 63
Page 63 scan

विज्ञेयं चतुरस्रं तु मध्यमम् ॥ दीर्घं तथैव विज्ञेयं वर्षाणां च चतुष्टयम् ॥ ३१ ॥ वर्षाणां नवसाहस्रो विष्कम्भः कथितो नृप ॥
योजनानां प्रमाणेन कथितस्तत्त्वदर्शिभिः ॥ ३२ ॥ विष्कम्भः पर्वतानां तु सहस्रादित्य संस्मृतम् ॥ मेगोर्योजनसाहस्रो विष्कम्भः
कथितस्तथा ॥ ३३ ॥ योजनानां तु नियुतं जम्बूद्वीपः प्रकीर्तितः ॥ याम्योत्तरेण तस्येदं प्रमाणं ते मयोदितम् ॥ ३४ ॥ पूर्वापरेण तस्यापि
प्रमाणं शृणु पार्थिव ॥ योजनानां सहस्राणि द्वात्रिंशच्च शतानि च ॥ ३५ ॥ भद्राश्वकेतुमालौ द्वौ प्रत्येकं पार्थिवोत्तम ! ॥ योजनानां सहस्रेण
शतसाहस्रकानि च ॥ ३६ ॥ नवमेरुस्तथा प्रोक्तो गन्धमादनमानतः ॥ मेरोर्नवसहस्राणि माल्यवांश्च निगद्यते ॥ ३७ ॥ मेगोर्योजनसाहस्रो विष्क
म्भः कथितस्तथा ॥ एवमप्येष नियुतं जम्बूद्वीपः प्रकीर्तितः ॥ ३८ ॥ हिमाचले यक्षवरा निविष्टा दैत्यप्रधानाः खलु हेमकूटे ॥ गन्धर्वमुख्या
निषधे च शैले नागा निविष्टाश्च तथैव नीले ॥ ३९ ॥ श्वेते पितॄणां च गतिर्निदिष्टा सिद्धास्तथा शृङ्गवतश्च पृष्ठे ॥ सेन्द्रास्तथा देवगणाश्च मेरौ
क्रीडाविहारेण सदा वसन्ति ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जम्बूद्वीपवर्णनो नाम सप्तमोऽध्यायः ॥ ७ ॥ ॥
॥ वज्र उवाच ॥ भगवन्भारतं वर्षं श्रोतुमिच्छामि तत्त्वतः ॥ कर्मभूमिरिषु मर्त्यानां वर्षं भार्गव ! भागवत् ॥ १ ॥ मार्कण्डेय उवाच ॥ भारतस्यास्य
वर्षस्य नव भेदाः प्रकीर्तिताः ॥ अष्टभिर्गिरिभिश्छन्ना येत्वाख्याः परस्परम् ॥ २ ॥ हिमाचलसमुद्देशे गीयन्ते व्यवस्थितः ॥ ग्राम्योत्तरेण
राजेन्द्र नामतस्तान्निबोध मे ॥ ३ ॥ स्वमाली हेममाली च शम्भुः कान्तस्तथापरः ॥ वैडूर्यपर्वतश्चैव रजतो मणिमान्भवः ॥ ४ ॥ इन्द्रद्युम्नः कदे
तश्च ताम्रवर्णो गभस्तिमान् ॥ गगोद्धेपरतथैवान्यो गान्धर्वस्त्वथ वारुणः ॥ ५ ॥ तेषां तु नवमो मध्ये द्वीपो नाम्ना तु मध्यमः ॥ अस्मिन्मन्वन्तरे
क्षितः सागैश्च चतुर्दिशम् ॥ ६ ॥ वैडूर्यपर्वतः पूर्वसुत्तेणेण हिमाचलात् ॥ पश्चाच्च काञ्चनगिरिर्दुरुडंव च लावण तात् ॥ ७ ॥ वेष्टितः सागरः सर्वो
नानास्तत्त्वाश्रयो नृप ! ॥ हिमालयः सागरेस्तु कृतो देशइयस्तथा ॥ ८ ॥ लवणस्योत्तरे पार्श्वे सागरस्य च दक्षिणे ॥ पुरी लंका सन्निविष्टा
यस्यां वै रावणो हतः ॥ ९ ॥ लवणेन च संयुक्तः समुद्रो लवणो यतः ॥ हिमाचलस्य यो भागो वर्षेऽस्मिन्नृप भारते ॥१०॥ तत्रास्ति शैलप्रवरो
द्वितीयो गन्धमादनः ॥ श्वेतश्च पर्वतश्रेष्ठो मन्दरश्च महागिरिः ॥ ११ ॥ एते शैलवरा दृष्टा पाण्डवैश्च महात्मभिः ॥ हिमाचलस्य मध्ये तु कैलासो
नाम पर्वतः ॥ १२॥ हिमवत्येव विख्यातो नरनारायणाश्रमः ॥ यत्र सा बदरी रम्या नानाशकुनिसंसेविता ॥१३॥ उष्णतोयवहा गङ्गा श्‍वेततोयवहा


१-‘नामतः’ इति ख० ।
२

Page 64
Page 64 scan

वि० ध०

प्र० खं०
अ० १०

॥ ७ ॥

परा ॥ सुवर्णसिकता राजंस्ताम्रस्फटिकशोभिता ॥ १४ ॥ इत्येते कथिता द्वीपाः प्राधान्येन तवानघ ॥ एतेषामंतरे द्वीपाः शतशोथ सहस्रशः ॥१५॥
न ते वर्णयितुं शक्या वर्षाणां तु शतेरपि ॥ विवर्जयित्वा भारतस्य वर्षं वर्षेषु सर्वेषु नरेंद्रसिंह ॥ निरामया वीतमया मनुष्या वर्षेषु सर्वेषु तथैव
चोक्ताः ॥ १६ ॥ आयुःप्रमाणं लभते हि राजन् द्वीपेषु सर्वेषु नरो मयोक्तम् ॥ कृत्वा शुभं कर्म तु भारतेऽस्मिन्द्वीपेषु सर्वेषु नराः प्रयान्ति ॥
॥ १७ ॥ वृक्षेषु तेषां प्रभवन्ति कामाः स्त्रियश्च तेषामपि रूपवत्यः ॥ दण्डश्च तेषां च न दाण्डिकोऽस्ति सन्मार्गगंस्तेऽपि तथा च राजन् ॥१८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भारतवर्षवर्णनं नामाऽष्टमोऽध्यायः ॥ ८ ॥ ॥ वज्र उवाच ॥ श्रोतुं जनानिहेच्छामि
सागरद्वीपवासिनः ॥ प्राधान्येन मुनिश्रेष्ठ विस्तराद्विस्तरो यतः ॥ १ ॥ मार्कण्डेय उवाच ॥ पाञ्चालाः कुरवो मत्स्या यौधेयाः सर्वटम्बराः ॥
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ॥ २ ॥ वृषध्वजांजनाः पद्माः सुह्या मगधचेदयः ॥ काशयश्च विदेहाश्च पूर्वस्यां कोसलाः
स्तथा ॥ ३ ॥ कलिङ्गाङ्गपुण्ड्राश्चैवाङ्गा मूलकास्तथा ॥ विन्ध्यान्तनिलयाः प्रोक्ताः पूर्वदक्षिणतः स्मृताः ॥ ४ ॥ पुलिन्दाश्मकर्जोलस्तथा[१]
निवासिनः ॥ कर्णाटका भोजकट्या दक्षिणापथवासिनः ॥ ५ ॥ अम्बष्ठा द्रविडा नागाः काम्बोजाः स्त्रीमुखाः शकाः ॥ आनन्तवानसिन्ध्वश्च
ज्ञेया दक्षिणापश्चिमे ॥ ६ ॥ सौराज्यं सैन्धवा म्लेच्छा नास्तिका यवनास्तथा ॥ पश्चिमेन च विज्ञेयाः पदमानौनंधः सह ॥ ७॥ माण्डव्याश्च
तुषाराश्च मूलिकाश्च सुपाः खशाः ॥ महाकेशा महानासा देशास्तूत्तरपश्चिमे ॥ ८ ॥ लम्पास्तालोचनाश्च मल्लाश्चान्धराजहुताः ॥ हिमवन्निलया
म्लेच्छा ह्युदीचीं दिशमाश्रिताः ॥ ९ ॥ त्रिगर्तमार्नकोलूता ब्रह्मपुत्रास्ततर्गणाः ॥ अभिसाराश्च काश्मीरौंगाश्चोद्धपूर्वर्ण कीर्तिताः ॥ १० ॥ गज
न्हूसागर्दपा प्रधाना वसुधाधिपाः ॥ भवतेहं प्रवक्ष्यामि दिग्दर्शनं निबोध ततः ॥ ११॥ पश्चात्नाथा मगधाधिपश्च कलिङ्गराट् भाञ्कटश्चाथ ॥
अनन्तः सैन्ययुक्तस्तूप्रागो महेश्वरश्चाथ कुलप्रनाथः ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जनपदवर्णना नाम
नवमोऽध्यायः ॥ ९ ॥ वज्र उवाच ॥ निवेदितान्ससागरे द्वीपे सप्ताहे कुलपर्वतान् ॥ नामतः श्रोतुमिच्छामि तन्प्रसूताश्च निम्नगाः ॥ १ ॥
मार्कण्डेय उवाच ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ विन्ध्यश्च पारियात्रश्च सप्तमी मन्दुकुलपर्वताः ॥ २ ॥ विमोषा ऋपिकुल्याश्च इक्षुणा
त्रिदिवालया ॥ लांगूलिनी वंशधरा नद्यस्त्वता महेन्द्रजाः ॥३ ॥ कृतमाला ताम्रपर्णी पुष्पजा चोत्पलावती ॥ शीतौदका गिरिव्रता नद्यो मलयन


१ 'निलया देशाः' इति ख० । २ 'विख्याता' इति क० ।

॥ ७ ॥

Page 65
Page 65 scan

म्भवाः ॥४॥ तुङ्गभद्रा सुप्राकारा वाह्या कावेरिका तथा ॥ दक्षिणापथमध्यस्था सह्यपादविनिःसृताः ॥ ५ ॥ ऋषिका सुकुमारी च मन्दागा मन्दवा-
सिनी ॥ नृपमाला शिरी चैव शुक्तिमत्पादनिःसृताः ॥ ६ ॥ मन्दाकिनी दशार्णा च शोणो देवी च नर्मदा ॥ तमसा पिप्पला चेति ऋक्षवत्पादनिः-
सृताः ॥७॥ वेणी वैतरणी चैव नर्मदा च कुमुद्वती ॥ तोया सेतविशल्या चैव विन्ध्यपादविनिःसृताः ॥८॥ पारा चर्मण्वती पाशा विदिशा वेणुमत्यपि ॥
सिप्रा ह्यवन्ती कुन्ती च पारियात्रविनिःसृताः ॥ ९॥ नद्यः प्रधानाः कथितास्तवैताः पुण्याः पवित्रा ऋषिसंविताश्च ॥ सन्तीह नद्यश्च सहस्रशोऽन्याः
वक्तुं न शक्या यदुनन्दनार्थ ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सतार्गिधुर्वन्दनवर्णनो नाम दशमोऽध्यायः ॥ १० ॥
वज्र उवाच ॥ हिमवत्पादसम्भूताः पुण्या ब्रह्मर्षिनिषेवतः ॥ प्राधान्येन समाचक्ष्व नद्यः पापभयापहाः ॥ १॥ मार्कण्डेय उवाच ॥ कौशक्यवंसलिला
कुशेशयविमिश्रिता ॥ कौशिकस्य प्रिया नित्यं कौशिकी निम्नगोत्तमा ॥ २ ॥ निमज्जतापसंधौघनिर्मलीकरणे शुभा ॥ निश्चरा निष्प्रभा श्रेष्ठा
नित्यं मुनिजनप्रिया ॥३॥ गजेन्द्रभिन्नांकूला तु गङ्गातुल्या च पुण्यतः ॥ गन्धर्व्वगणगीता च गण्डकी गोकुलाकुला ॥ ४ ॥ लोकानां पापनाशार्थं
लोकनाथेन निर्मिता ॥ लोकदृष्टिमनेोहारी लोहित्यश्च महानदः ॥५॥ दिवः सेव्या सदा विप्रैर्दिवि देवगणैयथा ॥ दृषद्वती समाकीर्णा दर्शनीयादका
तथा ॥ ६ ॥ बहुदा बहुसत्त्वाऽथ मेना च प्रलयक्षमा ॥ अनवच्छिन्नप्रवाहा तु लिकितस्य च बाहुदा ॥७॥ धर्मप्रदा सेवकानां धूतपापा महानदी॥
गोमती गोकुलाकीर्णा गजेन्द्रगणगाहिता ॥ ८ ॥ गन्धर्व्वगीतगंभीरा गणऋषणैर्युता ॥ कुङ्कुदम्बकणत्केकारुताविनादिता ॥ ९ ॥ कुमुदोत्पल
कहारकुसुमैराकुलोदका ॥ देवदेवस्य या देवी दयिता शङ्करस्य चा ॥ १० ॥ देविका सा पुरा राजन् देवलोकगतिमप्रदा ॥ विस्तार्तितमहाकूला विषमद्वीप
वाजिता ॥ ११ ॥ विष्णुलोकप्रदा देवी वितस्ताद्यैघविनाशिनी ॥ चन्द्रभागा च चन्द्रांशुचारुशीतजलाविला ॥ १२ ॥ चन्द्रलोकप्रदा स्नाने
चामरत्वप्रदायिनी ॥ १४॥ सरोजाकुलतीर्था च सरयूः सरितां वरा ॥ १३ ॥ सततं सेविता सद्भिः सोमोलोकमभीप्सुभिः ॥ इन्द्रेमभेसंवितातट्य इन्द्रलोक
प्रदायिनी ॥ १४ ॥ इन्दीवराकुलजला तथा देवी इरावती ॥ विरिष्टपाशाविच्छेदे विपाशा कुशला तथा ॥ १५ ॥ तथैव सर्वपापानां विपाकैकका
रिणी नृणाम् ॥ वशिष्ठाविद्रुता देवी शतद्रुर्तगगामिनी ॥ १६ ॥ रौद्रणामपि सत्त्वानां रुद्रलोकप्रदा शिवा ॥ कृष्णेन कृष्णतोया च बाल्ये पीतपयो
धरा ॥ १७॥ यमस्वसा च यमुना याम्यदुःखविनाशिनी ॥ सप्तप्रकारा च नदी तथा देवी सरस्वती ॥१८॥ तस्याः सप्तसु भागेषु नामानि शृणु


१ 'वीणा' इति ख० । २ 'विपाप' इति क० ।

Page 66
Page 66 scan

प्र० खं०
अ० ३२

मे नृप ! ।। सुप्रभा कातराक्षी च विशाला मानसह्नदा ।। १९ ।। सरस्वत्योघनादा च सुवेणुर्विमलोदका ।। पुष्करे नैमिषे चैव गयायां कोशलेषु
च ॥ २० ॥ कुरुक्षेत्रे क्रमाज्ज्ञेया गङ्गाद्वारे हिमाचले ।। नद्यस्तथैता हिमवत्प्रसूताः प्रधानभूताः कथिता नृवीर ! ।। उक्ताश्च नद्यश्च सहस्रशोऽन्याः
सर्वाः पवित्रा ऋषिवर्यजुष्टाः ।। २१ ।। वर्षस्य तस्यापि तथान्तरेऽस्मिन्सप्तप्रकारा च त्रिमार्गगापि ।। द्वौपं प्रविष्टा भरतस्य राजन् भगीरथा-
राधितपद्मजोत्था ।। २२ ।। इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिमवद्वर्णनं नामैकत्रिंशोऽध्यायः ।। ३१ ।। ॥वज्र उवाच ।।
भारतस्यास्य वर्षस्य भेदमिच्छाम्यहं प्रभो ।। किमर्थं सागरः खातः स कृतः सगरेस्तथा ।। १॥ मार्कण्डेय उवाच ।। भारतस्यास्य वर्षस्य भेदोऽस्मिन्रुच्यते
नृप ! ।। नवमे च दिशां भागे पूर्वस्यां दिशि यादव ।। २ ।। कोशलो नाम विषयः प्रभूतरथवान्चयान् ।। स्फीताम्नायगुणाढ्यास्ति नित्यं मुदित
मानवः ।। ३ ।। पयस्विन्वयः पयस्विन्यो यत्र सस्यवरा धरा ।। मनोभिरामा रामाश्च पुरुषाः पौरुषाग्रयाः ।। ४ ।। विद्वज्जनभृयिष्ठा सर्वपुण्य
समाकुला ।। नगरैर्न विशिष्ट्यन्ते यत्र ग्रामा मनोहराः ।। ५ ।। गवां प्रवेशे सायाह्ने यत्र ग्रामेषु भास्करः ।। धूलिपुञ्जायोगक्षितः वनसाद्वायुर्विरा
जितः ।। ६ ।। पश्चिमे प्रथमे चैव यत्र यामे विराजितः ।। रात्रौ ब्रह्मध्वनिस्तत्र तिष्ठतीव नभस्तलम् ।। ७ ।। फलावन्नतशाखाढाच्छाद्याद्युमत्समा
कुलाः ।। प्रपाकूपतडागाढ्याः पन्थानो यत्र यादव ! ।। ८ ।। व्याधितस्तर्कुमिक्षपन्नगगृहभयानि च ।। जना गत्र न जानन्ति नाकालमरणं
तथा ।। ९ ।। यूपचिता मही यत्र देववेश्मवतंसिका ।। यत्रोत्पललसत्कार्ष्णिवर्गवापीविभूषिता ।। १० ।। उद्यानेषु मदा यत्र वेणुगानध्वनिःस्वनः ।।
शिलीमुखरवैमिश्रं यात्यसंभावतां गुणैः ।। ११ ।। यस्मिन्न कश्चिच्च्यवते स्वधर्मार्हनो जनो यत्र न चास्ति कश्चित् ।। न नेत्रहीनो विकलेन्द्रियो
वा वसुन्धरा यत्र यथार्थनामा ।। १२ ।। इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कोशलवर्णनो नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।
मार्कण्डेय उवाच ।। कोसलाविवये स्फीते तस्मिन्मनुजपुङ्गव ! ।। देवानमप्ययोध्यास्ति त्वयोध्यानामतः पुरी ।। १ ।। प्राकारपङ्क्तोपता
सरयूतीरशोभिता ।। शोभिता भवनैर्मुख्यैः सुविभक्तमहापथा ।। २ ।। नित्यप्रमत्तमातङ्गजनाचलसद्भिर्भिः ।। दवनागकुलोत्पन्नैः शतसंख्यैरधि
ष्ठिता ।। ३ ।। नितांतवक्त्रैस्तुरंगैः सुकुणश्च मनोजवैः ।। दीर्घग्रीवाश्चकूटैश्च महाराजैरनुष्ठिता॥४॥ पद्ममन्भववर्णाङ्ग्यः पुंजनद्रनिनभास्तनाः ।। मंदलोधो
ष्टास्रकुशला यत्र वेश्याः सहस्रशः ॥ ५ ॥ न नतृष्यनं न मा विद्या न तच्छिल्पं न मा क्रिया ।। अयो यां प्राप्य यन्त्यार्थी निराशः प्रतिगच्छति ।।
॥ ६ ॥ उद्यानशतसंवाधा समाजोत्सवशालिनी ।। अंगर्गविपुला सर्वतर्कविवर्जिता ।। ७॥ वणवाणवुसुङ्गानां शब्दैः मत्तगनादिता ।। मडा प्रवृष्ट

वि० ध०
॥ ८ ॥

Page 67
Page 67 scan

मनुजा बहुरत्नोपशोभिता ॥ ८ ॥ ब्रह्मघोषमहाघोषा द्विजवृन्दोपशोभिता ॥ साज्यधूमोद्गमोऽनेन वायुना नद्यकल्मषा ॥ ९ ॥ सुगन्धिधूपविक्षेप-
सुरभीकृतमारुता ॥ सुगन्धिमनुजाकीर्णा नित्यमापणवीथिषु ॥ १० ॥ यत्र दीनो जनो नास्ति मलिनः क्षुधितोऽपि वा ॥ वेदनिन्दापरः क्षुद्रो
भिन्नसेतुर्न नास्तिकः ॥ ११ ॥ विस्तीर्णा दश मध्ये च योजनानां महापुरी ॥ सरयूतीरमाश्रित्य योजनत्रयमायता ॥ १२॥ मन्वन्तरेऽस्मिन्पुनरेव
राज्ञा विनिर्मिता सा मनुना नृवीर ! ॥ मन्वन्तरं येन जगत्समग्रं पाल्यं यथावद्वदबुद्धनाथ ! ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क-
ण्डेयवज्रसंवादे अयोध्यावर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ ॥ मार्कण्डेय उवाच ॥ वैवस्वतेन मनुना येन सा निर्मिता पुरी ॥ स तु कृत्वा
चिरं राज्यमिक्ष्वाकुमभिषिच्य च ॥ १ ॥ पुत्रे भारं समावेश्य सशरीरो दिवं गतः ॥ ततस्त्यः पाल्यन्नास्ते त्रैलोक्यं सचराचरम् ॥ २ ॥ तेन
मन्वन्तरं सर्वं पालनीयमिदं जगत् ॥ इक्ष्वाकुस्तस्य तनयः पालयामास मेदिनीम् ॥३॥ धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेन्द्रियः ॥ सुदक्षः सर्व-
भूतानां नयापनयकोविदः ॥ ४ ॥ ब्रह्मण्यश्च शरण्यश्च दीनानाथानुकम्पकः ॥ देवमन्त्रप्रभूतसाहस्रिशक्तिभिश्च समन्वितः ॥ ५ ॥ पाङ्गुण्यविन्महोत्साहः
स्मितपूर्वाभिभाषणः ॥ युक्तदण्डो न निर्दण्डो न च दण्डरतिस्तथा ॥६॥ वेदवेदाङ्गतत्त्वज्ञो यज्ञयाजी तपोरतिः ॥ अक्रूरहृदेलोऽभिमतः सर्वसत्त्वेषु
न हिंसकः ॥ ७ ॥ मान्यो मान्यतां शक्त्यः सुहृः पूज्यप्रपूजकः ॥ कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च ॥ ८ ॥ नित्यं शरीरप्रभवा
रिपवस्तेन षड् जिताः ॥ सर्वत्र विधिना दृष्टयः सुभगः प्रियदर्शनः ॥ ९ ॥ बहुधान्यो बहुधनो बहुनागाश्वपूरुषः ॥ अयोध्यानिलयो नित्यं देवा-
रिगणदर्पहा ॥१०॥ स तदा पालयामास पुत्रवत्सकलाः प्रजाः ॥ नाधर्मः कश्चिदप्य्यासीत्प्रतिस्वम्व्रजनि मानवः ॥ ११ ॥ दीनो वा व्यथितो वापि
स्वल्पायुर्वा च दुःखितः ॥ मूर्खो वा मन्दरूपो वा दुर्मगो वा निराकृतिः ॥१२॥ एकत्र देहे सकलं गुणौघं द्रष्ट्वाहमित्येव विशुद्धबुद्धिः ॥ ससर्ज यं
राजवरं महात्मा प्रजापतिः सर्वजगत्प्रधानः ॥१३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इक्ष्वाकुकुलवर्णनं नाम चतुर्दशोऽध्यायः॥
॥१४॥॥॥॥ मार्कण्डेय उवाच ॥ इक्ष्वाकोरभवत्पुत्रो विकुक्षिश्राम धार्मिकः ॥ ककुत्स्थस्तत्तनयस्तस्य चानेनास्तस्य चात्मजः ॥१॥ तस्य पुत्रः पृथुः
श्रीमान् विश्वदंस्तस्तदात्मजः ॥ तस्य श्रावस्तको नाम श्रावस्ती येन निर्मिता॥२॥ वृहदश्वः सुतस्तस्य कुवलाश्वस्तदात्मजः ॥ कुवलाश्वो महातेजा
धुन्धुमारत्वमागतः ॥ धुंधुं हत्वा महाकायमुदके जलराक्षसम् ॥ ३ ॥ वज्र उवाच ॥ कथं धुंधुर्महातेजाः कुवलाश्वेन घातितः ॥ कश्चायं धुंधुरित्येष
विश्रुतो जलराक्षसः ॥ ४॥ मार्कण्डेय उवाच ॥ एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे ॥ ५ ॥ नष्टचन्द्रार्कपवने विनष्टद्युहतारके ॥ शेषपर्यङ्कमासाद्य

Page 68
Page 68 scan
वि० ध०
प्र० खं०
अ० १६

॥ ९ ॥

सुप्तो देवो जनार्दनः ॥ ६ ॥ नाभौ तस्य समुत्पन्नं देवस्य कमलं शुभम् ॥ तत्र जज्ञे स्वयं ब्रह्मा देवः शुभचतुर्मुखः॥७॥ तत्रास्ते सोऽभ्यसन्वेदान्स्तुते
देवं जनार्दने ॥ उपासांचक्रिरे तस्य वेदा देहभृत्तस्तथा ॥ ८ ॥ वेदाभ्यासस्ते तत्र स्वेदबिन्दुरजायत ॥ सप्तमपद्मत्रामासाद्य द्विधाभूतोऽभवन्नृप ॥ ९ ॥
रजस्तमोमयो तस्माज्जातौ दैत्यौ बलोत्कटौ ॥ मधुकैटभनामानौ महाबलपराक्रमौ ॥ १० ॥ ततस्तौ जह्रतुर्वेदान्ब्रह्मणः पापिनिश्चयौ ॥ सशरीरेषु
वेदेषु हतेष्वथ पितामहः ॥ ११॥ बोधयामास देवेशं पद्मानाभं स चानघः ॥ स विबुद्धस्तदा देवः कृत्वा हयशिराेपरम् ॥ १२ ॥ शशाङ्कशंतसङ्काशं
नानाशस्त्रशोभितम् ॥ द्वितीयेन शरीरेण रसातलगते गतः ॥ १३॥ तेनाश्वशिरसा गत्वा वेदानादाय शाश्वतान् ॥ पितामहाय प्रददौ भूय
एव जगद्गुरुः ॥ १४॥ ततो हयशिराेचारी गतोऽन्तर्धानमीश्वरः ॥ आजग्मतुस्ततो देशं दानवौ मधुकैटभौ ॥ १५॥ विष्णुञ्चकार देहौ द्वौ विष्णुर्जिष्णु
रिति स्मृतौ ॥ मधुना युयुधे जिष्णुर्विष्णुर्वै कैटभेन च ॥ १६ ॥ ततस्तयोः सुयुद्धेन तुष्टो देवो जनार्दनः ॥ उवाच तौ महाकायौ दानवौ मधु
कैटभौ ॥ १७ ॥ वरं वरयतां श्रेष्ठं भवन्तावपराजितौ ॥ तावूचतू ततो देवं विष्णुं कमललोचनम् ॥ १८ ॥ प्रतोऽस्माकं भवेद्देव महाबलपराक्रमः ॥
पुत्रे जाते तु यौ तौ द्वौ विष्णुना जिष्णुना पुरा ॥ १९ ॥ निहतौ च तदा वीरौ ह्युदकं च समाश्रितौ ॥ मेदो सुचुवतुस्तत्र स्याता येनामवन्मही ॥
॥ २० ॥ मेदिनीति ततः ख्याता लोकैर्विस्तारविन्तकैः ॥ वाराहरूपेण तदा चोद्धृता वसुधा ततः ॥ २१ ॥ तेनैव देवदेवेन पूर्वस्थाने निवे
शिता ॥ सर्गं चक्रे ततो ब्रह्मा देवदेवस्य शासनात् ॥ २२ ॥ एवं तदा देववरस्य युद्धे निपातितौ तौ मधुकैटभाख्यौ ॥ देवस्य विष्णोः सदनं प्रयातौ
क्षीरार्णवे तस्य समीपगौ च ॥ २३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मधुकैटभवधोपाख्यानं नाम पञ्चदशोऽध्यायः ॥ १५ ॥

॥ मार्कण्डेय उवाच ॥ भारतस्यास्य वर्षस्य भागेऽस्मिन्प्रबवे नृप ! ॥ समुद्रो वालुकापूर्ण उमानक इति श्रुतिः ॥ १ ॥ तस्य मंध्ये
समुद्रस्य भृगुप्रथपतेः सदा ॥ संवत्सरस्य सोऽन्ते तु महोच्छ्वासं प्रमुञ्चति ॥२॥ यदा तदा भृः स्खलति सहैलवनकानना ॥ प्राणिनो यदल्पसत्त्वाश्च
ते यान्ति यमसादनम् ॥ ३॥ यदा विबुद्धो भवति किञ्चिच्छेया मही तदा ॥ आहारार्थं करोत्युग्रः पापालया जलान्धसम् ॥ ४ ॥ एतस्मिन्नेव काले
तु चोतङ्कस्तप्यते तपः ॥ तपसोऽन्ते महात्माने दर्शनं मधुसूदनम् ॥ ५ ॥ तमुवाच हरिर्देवो वरं वय भार्गव ! ॥ उतंकः प्राञ्जलिर्भूत्वा तुष्टाव
मधुसूदनम् ॥ ६ ॥उवाच वरदं देवमथ एव करो मम ॥ यदहं देवदेवस्य दृष्टवांश्चरणाम्बुजौ ॥ ७ ॥ श्रीभगवानुवाच ॥ अवश्यं ते वरो देयो मया
भृगुकुलोद्वह ॥ अजरामरश्चैव मत्प्रसादाद्भविष्यसि ॥ ८ ॥ यत्रेच्छसि जलं तत्र भविष्यति तथा तव ॥ देवतानां महत्कार्यं तथैव च

॥ १ ॥
Page 69
Page 69 scan

करिष्यसि ॥ ९ ॥ आश्रमस्यास्य ते बाधां यः करोति सदानघ ॥ कुवलाश्वेन तं गत्वा धुंधुं घातय मा चिरम् ॥ १० ॥ अहं चास्य प्रवेक्ष्यामि
कुवलाश्वस्य विष्ण्वहम् ॥ तेजसा स मदीयेन धुंधुनाजो हनिष्यति ॥ ११ ॥ न ह्यल्पतेजसा हन्तुं धुंधुः शक्यो भृगूत्तम ! ॥ मार्कण्डेय उवाच ॥
एतावदुक्त्वा भगवान् गतोऽन्तर्धानमीश्वरः ॥ १२ ॥ जगाम च तथायोध्यां सुतपेकोऽपि महातपाः ॥ पूजितो बृहदश्वेन बृहदश्वमभाषत ॥ १३ ॥ उत्तङ्क
उवाच ॥ कथं निद्रासि राजेन्द्र सुतं पर्यङ्कमाश्रितः ॥ धुन्धोश्चारितमालोक्य वद्धकक्षो भवाधुना ॥ १४ ॥ वचनान्मम गजेन्द्र धुंधुं हन्तुं त्वमर्हसि
भोः ॥ शक्तिः किञ्चुभमाज्ञाज्ञां दुष्करं ते पुनः कथम् ॥ १५ ॥ जहि धुंधुं महाकायं नृपते द्विजबाधकम् ॥ श्रुत्वा मुनिवचो राजा कुवलाश्वमभाषत
॥ १६ ॥ अहं वनमवृत्तस्तु त्यक्तदण्डस्तथैव च ॥ जहि त्वं दानवं श्रेष्ठं त्वत्सुतेङ्केन पालितः ॥ १७ ॥ एवमुक्तः परिष्वक्तः पित्रा प्रकृतिवत्सलः ॥
उत्तङ्कसहितो गत्वा धुंधूत्पादकशलभ् ॥ १८ ॥ युयुधे तं च धर्मात्मा धुंधुं तेनैव केशवः ॥ उत्तङ्कात्सुमते पश्चाद्बलेन जघान तम् ॥ १९ ॥
हत्वा तं राक्षसं लेभे त्रिदशेभ्यस्तदा वरान् ॥ कृष्णे भक्तिं स्थितिं धर्मे वासं स्वर्गे तथाक्षयम् ॥ २० ॥ मयुतैकैरभ्ययैः पुत्रै घातयित्वा नराधिप ॥
धुन्धुमारत्वमगमच्छोभत तथा पुरीम् ॥ २१ ॥ तस्मिन्हते दैत्यवरे प्रसन्ना दिशो बभूवुर्मुदिताश्च देवाः ॥ विनष्टविध्वं च जगतद्गता गजा च कीर्त्ति
परमामवाप ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे धुंधुमारोपाख्यानं नाम षोडशोऽध्यायः ॥ १६ ॥ ॥ मार्कण्डेय
उवाच ॥ धुंधुमाराद्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ॥ निकुंभस्तस्य तनयः संहितश्च तदात्मजः॥१॥ भृशाश्वस्तनयस्तस्य मान्धाता तस्य चात्मजः॥
देवेन विधिना राजा जातस्तस्यैव चोदरात् ॥ २ ॥ पुरुकुत्सः सुतस्तस्य त्रसदस्युस्तदात्मजः ॥ शम्भूतस्तस्यात्मजः श्रीमाननरण्येति विश्रुतः॥३॥
रावणेन हतो योऽसौ त्रैलोक्यविजयी पुरा ॥ दृढाश्वः सुतस्तस्य तस्माद्धुम्नमना नृपः ॥ ४ ॥ तस्य पुत्रस्त्रय्यारुणस्तस्मात्त्रय्यारुणिः स्मृतः ॥
तस्य सत्यव्रतः पुत्रः त्रिशङ्कु च प्रचक्षते ॥ ५॥ हरिश्चन्द्रः सुतस्तस्य रोहिताश्वस्तदात्मजः ॥ हरितस्तत्सुतो राजा चञ्चुर्हारित उच्यते ॥ ६ ॥
विजयस्तस्य तनयश्चालिकेतस्तस्य चात्मजः ॥ अर्कस्तस्य वुकः पुत्रस्तस्माद्वाहुस्तु जज्ञिवान् ॥७॥ पातनश्चित्तगुणायोध्यां स बहुव्यसनानन्वितः ॥ व्यसने
तस्य सक्तस्य नरेन्द्रस्यारिमस्तदा ॥ ८ ॥ हैहयैस्तालजङ्घैश्च सर्वम्लेच्छगणावृतैः ॥ छलेनापहृतं राज्यं हतराज्यो वनं गतः ॥ ९ ॥ पद्मभ्यामभ्युयौ
तस्य वनं भार्या गुणान्विता ॥ गुर्विणी प्राग्ददौ यस्याः सपत्नी तु गरं किल ॥१०॥ ततस्सा सगरं पुत्रं सुषाव वनगा शुभा ॥ जातपुत्रो नरपतिः
संयुक्तः कालकर्मणा ॥ ११॥ अन्वारुरोह तं राज्ञी यादवी धर्मवत्सला ॥ संस्कृतः सर्वसंस्कारैः सगर श्च्यवनेन च ॥१२॥ शास्त्राण्यथ धनुर्वेदं नीतः पारं

Page 70
Page 70 scan

तथा परम् ॥ स यौवनमनुप्राप्य एक एव नराधिपः ॥ १३॥
पदातिर्बर्हिनिस्त्रिंशश्च्यवनस्य प्रसादतः ॥
हैहयांस्तालजंघांश्च निजघान परन्तपः ॥ १४॥
तातस्तवोध्यां सम्प्राप्य लेभे राज्यमकण्टकम् ॥
सग॒रो राज्यमासाद्य बलेन चतुरङ्गिणा ॥ १५॥
विजित्य सकलान् म्लेच्छान्वशं चक्रे च पार्थिवान् ॥
विजित्य पृथिवीं कृत्स्नां प्राप्य राज्यमकण्टकम् ॥ १६ ॥
च्यवनं पूजयामास सत्कारेण पुनःपुनः ॥
च्यवनेनाम्यनुज्ञातः स चक्रे दारसङ्ग्रहम् ॥ १७ ॥
आसीद्भार्याद्वयं तस्य सगरस्य महात्मनः ॥
स ताभ्यां सहितो राजा पुत्रार्थं तप्तवांस्तपः ॥ १८॥
तपसोऽन्ते हरः प्राह राजानं तपसा कृशम् ॥
एकं वंशकरं पुत्रमेका ते जनयिष्यति ॥ १९॥
षष्टिः पुत्रसहस्राणि द्वितीया जनयिष्यति ॥
एवं लब्ध्ववरो राजा सभाय्यः स्वपुरं गतः ॥ २० ॥
पुत्रं पुत्रांश्च धर्मात्मा जनयामास वीर्यवान् ॥
कर्मणा चैव नाम्ना च राजपुत्रोऽसमञ्जसः ॥२१॥
पित्रा विवासितो राज्यादपगोब्राह्मणि हिते रतः॥
तस्य पुत्रोंशुमान्नाम सर्वैः समुदितो गुणैः ॥
तोषयामास पितरं पितुः पृथ्वपतिं च सः ॥ २२ ॥
पौत्रेण तेनान्वः सेव्यमानः पुत्रैर्महावीर्यपगक्रमैश्च ॥
स गूज्य त्राजवरो जितारिः शशास पृथ्वीं सकलां महात्मा ॥ २३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सग॒रोपाख्यानं नाम सप्तदशोऽध्यायः ॥ १७ ॥

॥ मार्कण्डेय उवाच ॥
सगरस्य तु ते पुत्रास्सहता वीर्यसंयुताः ॥
मंजाता देवयोगेन देवब्राह्मणकंटकाः ॥ १ ॥
तेषां तु कर्मणोद्विग्ना देवाः सर्वे पितामहम् ॥
अब्रुवन्त्सामरैः सर्वैर्देव वाच्याम संहतेः ॥२॥
एवमुक्तस्तदा ब्रह्मा मर्वलोकपितामहः ॥
उवाच देवान्सकलान्सागैरैः प्रत्यपीडितान् ॥ ३ ॥
यस्यस्य जगतो नाथः परमात्मा मनातनः ॥
बासुदेवः स कपिलः सुतान्थान् घातयिष्यति ॥ ४ ॥
एवमुक्ताः सुगस्तेन ययुः सर्वे त्रिविष्टपम् ॥
एतस्मिन्नेव काले तु सगरः स महीपतिः ॥ ५ ॥
दीक्षिता वाजिमेधाय विविधैर्वेदपारगैः ॥
तुरंगं चाप्यगामस्यर्जिग्यं तनया महीम् ॥ ६ ॥
तेषां चायतां सोऽश्वः कपिलेन तथा हृतः ॥
कपिलेन हते नाश्वं ते जानन्ति विमोहिताः ॥ ७ ॥
अन्वेषन्तोऽपि यत्नतनापुस्ते तुरगं यतः ॥
पित्रे निवेद्य ते सर्वं नित्रतङ्गुः पृथिवीतलम् ॥ ८ ॥
माग्मन्यास्य वर्षस्य मंडंडस्मित्रवत्स नृप ! ॥
समन्ततस्ततश्चक्रुः खातमर्कमर्लन्विताः ॥ ९ ॥
विलोक्यमानास्तं प्रातालतलगामिनम् ॥
वैदूर्यपर्वतनीपूर्वेऽनुतंग हिमवान्स्यात ॥ १० ॥
पश्चाचं काञ्चनगिरङ्गद्गव च लावणाल ॥
हिमाचलग्व नवैर्येः गजैरूदेश्व संस्थैः क्षतः ॥ ११ ॥
हिमाचलम्य खण्डश्च खातस्यानन्तः प्रवेशितः ॥
उत्तरः नागमानस्ममाडिम शैलेन दुर्गमः ॥ १२ ॥
एवंविधेन खातंन ते प्रविश्य पृथक्पृथक् ॥
एकीकृता देवयोगान्मत्पिले यत्र वै स्थितः ॥ १३ ॥
कपित्थन्य ममीपस्थं ददृशुस्ते तुरङ्गमम् ॥
तुरङ्गमहितं दृष्ट्वा कपिले ते त्वमर्षिताः ॥ १४ ॥
कुद्दालैर्लगुडैश्चाद्धेन्नानाम्य जग्मुर्वेगवत्तया ॥
तान्वावधानानन्दुष्टीनमं

Page 71
Page 71 scan

ददर्श तदा ऋषिः ॥ १५ ॥ चक्षुषा दृष्टमात्रास्ते भस्मीभूतास्तु सागराः ॥ नरकं च गताः सर्वे देवब्राह्मणकण्टकाः ॥ १६ ॥ विज्ञाय तनयान्नष्टां
श्चारूढात्सगरो नृपः ॥ प्रेषयामास सततंमंशुमन्तं स धार्मिकम् ॥ १७ ॥ अंशुमानपि संप्राप्य कपिलं मुनिसत्तमम् ॥ अभिवाद्य महातेजास्तुष्टाव
रघुनन्दनः ॥ १८ ॥ तस्य तुष्टोऽथ तुरगं दत्तावान्कपिलो मुनिः ॥ अंशुमन्तं तदोवाच पितॄणां सलिलार्थिनाम् ॥ १९ ॥ पौत्रस्ते भविता
राजंस्तपसा तस्य तोषिता ॥ आगमिष्यति सा देवी गङ्गा गगनमेखला ॥ २० ॥ तया क्लिन्नमिदं भस्म सागराणां दुरात्मनाम् ॥ २१ ॥ यदा
भविष्यति तदा सागराः स्वर्गगामिनः ॥ अन्यस्यापि यदा त्वस्थि गङ्गातोये पतिष्यति ॥ २२ ॥ तस्यापि स्वर्गलोकैर्गतिर्भविष्यति न संशयः ॥
एवमुक्तोऽशुमांञ्शीघ्रं चाभिवाद्य जगद्गुरुम् ॥ २३ ॥ आगत्य योजयामास तुरगेण पितामहम् ॥ यज्ञं समापयामास सगरोऽपि महीपतिः ॥ २४ ॥
एवं हि सागरैः खातको नृपसत्तम ॥ येन कृतमिदं द्वीपं सागरं नृप कथ्यते ॥ २५ ॥ लवणोदाम्समुद्रश्च तोयेन नृप सागरः ॥ यदा पूर्णस्तदा
जातो लवणोदो नराधिप ॥ २६ ॥ कृतं च एवं जयति स सम्राडिति कीर्त्यते ॥ ततो गतः स धर्मात्मा कालेन महता दिवम् ॥ २७ ॥
दिलीपे भारमासज्य जगाम तनये स्वके ॥ दिलीपोऽपि समादाय राज्यं पुत्रं भगीरथम् ॥ २८ ॥ जगाम त्रिदिवं राजा वने तप्त्वा महत्तपः ॥
आसाद्य राज्यं स भगीरथोऽपि आनीय गङ्गां तपसा च भूमिम् ॥ २९ ॥ संप्लावयामास जलेन भस्म तत्सागराणां यदुवृन्दनाथ ! ॥ ३० ॥
संप्लाविते भस्मनि राजपुत्रा गङ्गाजलोचेन दिवं प्रयाताः ॥ स्वर्गलोकमासाद्य तथाऽऽश्चर्यं ते वसन्ति ह्यतिऋद्धिभिः समेताः ॥ ३१ ॥ इति श्रीविष्णुधर्मो-
त्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सगरोपाख्यानं नामाष्टादशोऽध्यायः ॥ १८ ॥ ॥ मार्कण्डेय उवाच ॥ राज्यं प्राप्य महातेजा दिलीपेपतनयो
नृपः ॥ नरकस्थान् पितॄञ्श्रुत्वा राज्यं न्यस्याशु वृद्धये ॥ १ ॥ गङ्गामाराधयामास तपसा महता तदा ॥ गंधैश्च नियमै राजनप्रणानिनेकस्तथा ॥ २ ॥
दशवर्षसहस्राणि तपस्तेपे भृशं नृपः ॥ अथ गंगा महादेवी प्रसन्नाऽभूत्प्रकम्पा ॥ ३ ॥ भगीरथोऽपि धर्मात्मा वरं लेभे कुतूहली ॥ ततो
ह्यैवनदीं देवीं प्रावोचंतं भगीरथम् ॥ ४ ॥ पतन्त्या गगनात्सोढुं मम वेगं वसुन्धरा ॥ ५ ॥ न समर्था यदा तस्मात्तोषयस्वाशु शंकरम् ॥
स हि शक्तः पतंत्या मे वेगं सोढुं नरेश्वर ॥ ६ ॥ एवमुक्त्वा गयो देवी तदान्तर्धानमिक्ष्वरी ॥ भगीरथोऽपि धर्मात्मा तपस्तेपे सुदारुणम्
॥ ७ ॥ आराधनायं देवस्य शङ्करस्य महात्मनः ॥ तपसोऽन्ते महातेजा दृष्टवाश्चागदीशश्वरम् ॥ ८ ॥ देवदेव उवाच ॥ तपसोम्रेण ते राजन्


१ 'तं देशं' इति ख० ।

Page 72
Page 72 scan

प्रसन्नोऽस्मि यथेप्सितम् ॥ ददामि ते यतो भक्तिं पितॄणां चाक्षयं यशः ॥ ९॥ मार्कण्डेय उवाच॥ एवमुक्तस्तु देवेन पूजयित्वा महेश्वरम् ॥ जगाम गङ्गां
मनसा राजा पूर्णमनोरथः ॥ १०॥ शङ्कराधिष्ठितं ज्ञात्वा नृपतेश्च चिकीर्षितम् ॥ पपात गगनाद्गङ्गा तदा राजीवलोचन ! ॥ ११॥ गङ्गायाः पतनं ज्ञात्वा
ब्रह्मा ते देशमागताः ॥ यमेन्द्रवरुणाद्रेन्द्रवान्पुरस्कृत्यामितौजसः ॥ १२ ॥ ऋषयो नागगन्धर्वाश्चारणाश्चोरगाः ॥ सुपर्णकिन्नरगणास्तथैवाप्सरसां
गणाः ॥ १३ ॥ विमानशतसंबाधं तदभून्नभस्तलम् ॥ प्रकीर्यमाणं कुसुमैर्देवगणाविराजितम् ॥ सुप्रभाभिनिर्दिश्यं तदाभरणभासुरम् ॥ १४॥
सुगन्धि चारु पवनं सुरतूर्यनिनादितम् ॥ नभस्तलस्य मध्येन पपात गगनान्नदी ॥१५॥ विशामि भित्त्वा पातालं स्रोतसा गृह्य शङ्करम् ॥ इत्येवं
दुष्टभावा सा पपात हरमूर्द्धनि ॥१६॥ ज्ञात्वा क्रूरमभिप्रायं देव्या देवः पिनाकधृत् ॥ जटाकलापे तां देवीं तिरश्चक्रे चतुर्मुखः ॥१७॥ बभ्राम सा तिरो-
भूता तत्रैव रुचिरे नदी ॥ तस्याः पतन्त्या ये केचिद्विन्दवः क्षितिमागताः ॥ १८ ॥ तैः कृतं पृथिवीपाल तदा विन्दुसरः शुभम् ॥ देवीपि दृष्ट्वा राजानं
क्षुधया व्याकुलेन्द्रियम् ॥ १९॥ तत्याज तां तदा शीघ्रं जटाग्रेण महेश्वरः ॥ २०॥ धृतगंगो जगामाथ ततोऽन्तर्धानमीश्वरः ॥ महेशेणशिरोधृता
प्रविष्टा च सरः शुभम् ॥ २१॥ तस्माद्विनिःसृता भूयः सप्तधा देवनिम्नगा ॥ ह्लादिनी ह्लादिनी चैव प्लावनी चेति प्राच्यगाः ॥२२॥ सीताचक्षुश्च
सिन्धुश्च प्रतीच्याभिमुखा गताः ॥ दक्षिणेन तथा गंगा भगीरथपथाऽनुगा ॥ कचिद्वेगेन महता क्वचिन्मन्दविसर्पिणी ॥ २३ ॥ क्वचित्फेनकुलाजला
कचिदावर्तमालिनी ॥ कचिद्भस्मोरुशद्बोधा निशङ्का च तथा क्वचित् ॥ २४ ॥ क्वचिद्धंसपदाध्माता चक्रवाकयुगा क्वचित् ॥ ऊर्मिमालाकुलाजला
कुसुमोत्करमण्डिता॥ २५॥ जलसत्त्वशताकीर्णा सुसिद्धसुखस्रवा ॥ अमृतस्वादुसलिला ह्यसंमर्शनिर्मला ॥ २६ ॥ विष्णुपादभ्रष्टगोत्या सर्वपात-
कनाशिनी ॥ एवं संप्राप्य सा विंध्यं प्रविष्टा पूर्वसागरम् ॥ २७॥ सगरेण समासाद्य पातालं भीमदर्शनम् ॥ प्लावयामास तद्भस्म सागराणां महात्म-
नाम्॥२८॥ भस्मनि प्लावितं सर्वं गतास्ते मार्गं दिवम् ॥२९॥ एवं भर्गं देवनदी प्रयाता सुपुण्यतोया ऋषिसंघजुष्टा ॥ महाप्रभावा नृप जह्नुकन्या
विशेषपूता त्रिदिवप्रयाणे ॥ ३०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गावतरणं नामैकोनविंशोऽध्यायः॥ १९॥ वज्र उवाच ॥
भागीरथित्वं गङ्गात्वं देवनद्या मया श्रुतम् ॥ किमर्थं जाह्नवी लोके कथ्यते सागरङ्गमा ॥ १ ॥ मार्कण्डेय उवाच ॥ पञ्चालस्याऽऽसिद्विषयो
मध्यदेशे महीपते ॥ स्वधर्मकर्मनिरतैर्युतो वर्णाश्रमैः सदा ॥ २ ॥ महोदयं पुरं तत्र कुशनाम्नेन निर्मितम् ॥ सर्वसम्पत्समाकीर्णं कान्यकुब्जेति
विश्रुतम् ॥ ३ ॥ तस्मिन्नभून्नृपालो जह्नुः परमधार्मिकः ॥ यस्य कीर्तिरमला कीर्तिब्रह्माण्डं व्याप्य तिष्ठति ॥ ४ ॥ स कदाचिन्महापालो

Page 73
Page 73 scan

हयमेधमुपाहरत् ॥ दीक्षितस्य नरेन्द्रस्य यज्ञवाटं तु निम्नगा ॥ ५ ॥ प्लावयामास वेगेन जलौघैर्दुद्दुतम् ॥ प्लाविते यज्ञवाटे तु राजा गङ्गां तदा
ब्रवीत् ॥ ६॥ अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ पिवामि सकलं तोयं तव सागरवल्लभे ॥ ७॥ एवमुक्त्वा पपौ गङ्गा सर्वं मार्गोगतञ्जलम् ॥
तपसा महता राजंस्तथा योगबलेन च ॥ ८॥ दृष्ट्वा गङ्गां निस्तोयां दीनेर्मुनिजनैस्ततः ॥ प्रसादितस्तु गङ्गायै तत्याज श्रवणेन ताम् ॥ ९ ॥
दुहितृत्वे च जग्राह राजा भागीरथीं तदा ॥ तेन सा कथिता लोके जाह्नवी यदुनन्दन ॥ १० ॥ अतीव दर्पिता गङ्गा गङ्गायाः स यदा नृप ॥
यशोऽर्घ्यं प्लावयामास यज्ञवाटं तदानघ ॥११॥ एवं विलोके नृप जह्नुकन्या प्रोक्ता बुधैर्विष्णुपदी पवित्रा ॥ हिमाचलब्याहृतितन्तुरूजा मञ्जुद्वपन्ती
वरदा विशोका ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जह्नुकन्योपाख्यानं नाम विंशतितमोऽध्यायः ॥ २० ॥ वज्र
उवाच ॥ गङ्गा विष्णुपदी लोके किमर्थं कथिता बुधैः ॥ तन्ममाचक्ष्व तत्त्वेन भृगुवंशविवर्धन ! ॥ १ ॥ मार्कण्डेय उवाच ॥ स्वायम्भुवेऽन्तरे पूर्वं
चत्वारो देवतागणाः ॥ जयास्याश्चाजितास्याश्च शुक्राख्याश्च प्रकीर्तिताः ॥ २ ॥ तेषां वभूव देवेन्द्रो विश्वसृग्लोकपूजितः ॥ आसीत्पुलोमस्तस्यैव
सुरा घोरस्तदा दायाद्वान्धवाः ॥ ३ ॥ वभूव राजा तेषां च वाष्कलिर्नाम नामतः ॥ येन विक्षिप्य शक्रन्तद् राज्ञं तदा वलात् ॥ ४ ॥
हृतराज्यस्तु देवेन्द्रो ब्रह्माणं शरणं गतः ॥ ब्रह्मापि शक्रमादाय जगाम शरणं हरिम् ॥ ५ ॥ निवेद्यामास तदा देवेन्द्रस्य पराङ्मुखम् ॥ वाष्कलेर्विनयञ्चैव
सर्वं ब्रह्मा शुभचक्षुषेः ॥ ६ ॥ श्रीभगवानुवाच ॥ ब्रह्मन्मत्त्यारिहरिष्यामि राज्यमस्य शतक्रतोः॥ दिवि देवेषु धर्मात्मन्विभ्रुता भव मा चिक्षुम् ॥७॥
अहं वामनरूपेण प्रयास्ये वाष्कलिं नृपम् ॥ मां दृष्ट्वा विस्मितं तन्तु गत्वा याचतुं देवराट् ॥ ८ ॥ लोकत्रयं मम दत्तं त्वया विक्षिप्य वाष्कले ॥
तत्राभिशरणार्थाय दीयतां मे क्रमत्रयम् ॥ ९ ॥ अतीव ह्रस्वगात्रस्य वामनस्याल्प मा चिरम् ॥ एवमुक्तस्तु भक्तेण तदा दाता
क्रमत्रयम् ॥ १० ॥ मार्कण्डेय उवाच ॥ ॥ इत्येवमुक्तो देवेन ब्रह्मा स्वभवनं गतः ॥ देवोऽपि वामनो भूत्वा प्रयातो यत्र वाष्क
लिः ॥ ११ ॥ वाष्कलिर्वामनं दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥ निरीक्ष्य तं यथाकाममकुर्व्वद्बुद्धिभिर्वृतः ॥ १२ ॥ एतस्मिन्नेव काले तु शक्रस्तं देश
माययौ ॥ पाद्यार्घ्याचमनीयाद्यैः शक्रं संपूज्य वाष्कलिः ॥ १३ ॥ किमागमनकश्चार्ये ते तमुवाच प्रहृष्टवत् ॥ अत्याश्चर्य्यमिदं मन्ये तवागमन
कारणम् ॥ १४ ॥ शक्र उवाच ॥ लोकत्रयं मेऽपहृतं विक्रमेण तु वाष्कले ! ॥ तत्राभिशरणार्थाय दीयतां मे क्रमत्रयम् ॥ १५ ॥ अतीव ह्रस्वगा
त्रस्य वामनस्यास्य पार्थिव ॥ भूमिभागे तु पारक्ये वस्तुं न त्वमुत्सहे॥ १६॥ वाष्कलिर्कुरुवाच ॥ क्रमत्रयं वामनक्रे देवराज कृतंशुभम् ॥ तत्रास्त्व