Skip to content
SarvaKosh
Back to the archive

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

by महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह)

Source: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (origin)

Public domain in India · Report a copyright issue

DevanagariHindipublished1,001 pages

About this granth

The Vishnudharmottara Purana (विष्णुधर्मोत्तरपुराण) is a large Upapurana that presents itself as a supplement to the Vishnu Purana. It has three books: the first on creation, the cosmic ages, geography and genealogies; the second on kingship, law, astronomy, medicine and related subjects; and the third on the arts, covering painting (the Chitrasutra), music, dance, poetry, image-making and temple architecture. The Chitrasutra is among the oldest systematic accounts of Indian painting.

The scanned copy is the complete Sanskrit edition of about a thousand pages printed by the Shri Venkateshwar Press, Bombay, catalogued by the Digital Library of India under 1929. It opens with a Sanskrit preface on the authority of the Puranas, citing the Bhagavata and the Yajnavalkya Smriti. There is no Hindi translation in this edition, and the copy bears the stamp of Sarvodaya Sahitya Mandir, Hyderabad.

Art historians and students of iconography and Indian aesthetics can read the whole Purana here in Sanskrit.

Page 123
Page 123 scan

कुटुम्बिनी सुप्रयाता धौतोपस्करभाजना ॥४॥ साध्यानां राम बीजानां पशूंश्च सुकृतेस्य च ॥ शाकानां व्यञ्जनानां च स्वजातानां गतेऽहनि ॥५॥
शक्तिं कुर्यात्सदा तस्य वहिनोपदमनेन च ॥ देशे शुचौ सुप्रयाता सुसहायगुणान्विता ॥ ६ ॥ सर्वं प्रक्षालितं कार्यं केशकीटादिवर्जितम् ॥ भूमावुत्तु-
पलितायां स्थार्थं राम न किञ्चन ॥७॥ सर्वं साध्यमथान्नार्थं गन्धवर्णरसान्वितम् ॥ नित्यं परिपंचेद्राम नास्त्वार्थं केनचित् क्वचित् ॥८॥ उपादान-
मथादाय प्रविश्य च गृही गृहम् ॥ शुचौ प्रक्षालितं सर्वं चोपादानमुपस्यसेत ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 124
Page 124 scan

वि० ध०
॥ ३८॥

प्र० खं०
अ० ६३

वस्त्रं विभूषणं चैव पुष्पाणि विविधानि च ॥ १५ ॥ वेष्टनं च स्रजं चैव कङ्कणं च मनोहरम् ॥ तथा रम्यं प्रतिसरं सुपिष्टं च तथाञ्जनम् ॥ १६ ॥
दर्पणे चौपचारं च प्रदीपं धूपमेव च ॥ तथैवाचमनीयं च गीतवाद्यस्वनं तथा ॥ १७ ॥ पुण्याहजयशब्दं च स्तोत्रोदीरणमेव च ॥ तथैवोपनहौ
देये छत्रं चामरमेव च ॥ १८ ॥ यानं च वाहनं चैव पताकाश्च ध्वजानि च ॥ भोगानां पूरणार्थायों ततो मात्रां निवेदयेत् ॥ १९ ॥ भोगानां
सञ्जनं कृत्वा यथाशक्त्या द्विजोत्तम ॥ अविद्यमाना ये भोगा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 125
Page 125 scan

पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि ॥ ४१ ॥ प्रतिस्तस्यैवार्चिः प्राणस्तर्पणमर्हणम् ॥ ४१ ॥ निवेदनञ्चाचमनमथ्या मन्त्रनिर्णयः ॥
मन्त्रेण चार्हणान्तेन प्रदद्यादर्हणं पुनः ॥ ४२ ॥ तथैवाचमनान्तेन देयमाचमनं भवेत् ॥ प्राशनान्तेन मन्त्रेण तर्पणं विनिवेदयेत् ॥ ४३ ॥
प्रतिस्रहेषु मात्रासु पादुकासु च दर्पणे ॥ छत्रे च वालव्यजने तालवृन्ते तथैव च ॥ ४४ ॥ उपानत्सु तथा याने वाहनेषु भृगूत्तम ॥
अश्विध्वजेषु च तथा पताकासु च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 126
Page 126 scan

वि०ध०
॥ ३१ ॥

प्र० खं०
अ० ६९
॥ ३१ ॥

ज्ञानाहंकृत्यं यदि नास्ति तत्त्वं यामे विशुद्धस्तु तथा चतुर्थे ॥ युञ्जीत योगं रिपुकालभूतं योगेन बुद्धिं संपुषोति सर्गम् ॥ ६४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शङ्करगीतासु स्वाध्यायकालकथने नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ शङ्कर उवाच ॥ जानुद्वयं सुदृङ्गुमं चेलाजिनकुशोत्तरम् ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥ १ ॥ चतुर्णामासनानां च बद्धा तत्रैकमासनम् ॥ योगं युञ्जीत विविधमथावदवदूर्ध्वशः ॥ २ ॥ राम उवाच ॥ योगासनानि चत्वारि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 127
Page 127 scan

अङ्गुष्ठमात्रे पुरुषे लब्धन्धे चिन्तयेत् ।। शशाङ्कशतसंकाशं सर्वालङ्कारभूषितम् ।। २३ ।। लब्धलक्ष्य स्तत्रापि बुद्धियोगान्नितिर्भवेत् ।। बुद्धिश्च भगवांत्सूर्यः
प्रथमं सूर्यमण्डले ॥ २४ ॥ समग्रमेव संपश्येद्ध्यानयोगेन बुद्धिमान् ॥ सूर्यमण्डलमध्यस्थं शतसूर्यसमप्रभम् ॥ २५ ॥ अङ्गुष्ठमात्रं पुरुषं
सर्वाभरणभूषितम् ॥ चिन्तयेत्प्रयतो नाम तत्परः सुसमाहितः ॥ २६ ॥ लब्धलक्ष्य स्तत्रापि नित्यमात्मानमात्मना ॥ आत्मस्थमेव
संपश्येद्ध्यानयोगेन भार्गव ॥ २७ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 128
Page 128 scan
वि० ध०प्र० खं०
अ० ६६

ऋषिप्रपूजितम् ॥ ४६ ॥ एतद्भक्तिविहीनाय न तु वाच्यं यदृच्छया ॥ न नास्तिकाय मूर्खाय तर्कदुष्टाय वा तथा ॥ ४७ ॥ एतच्छृण्वते वाच्यं शिष्याय च सुताय च ॥ यो वा दद्यान्महीं कृत्स्नां सशैलवनकाननाम् ॥ ४८ ॥ एतद्ब्रह्म परं पुण्यं पवित्रं पापनाशनम् ॥ आयुष्यं च यशस्यं च कलिदुःस्वप्ननाशनम् ॥ ४९ ॥ अध्येतव्यमिदं सम्यग्वचनं शंकरस्य च ॥ सर्वबन्धविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ५० ॥ एतावदुक्तं त्रिपुरान्तकेन तुष्टेन रामस्य महाबलस्य ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 129
Page 129 scan

तत्किमर्थं भवता करे ॥ न्यस्तं च तन्मे भगवाँश्चापरत्वं च कीदृशम् ॥ १ ॥ शङ्कर उवाच ॥ माया हि वैष्णवी राम यया संमोहिताः पुरा ॥
देवाश्च ऋषयश्चैव गत्वान्तः प्रणताः स्थिताः ॥ २ ॥ यजतां परमाधारं देवं कमलसंभवम् ॥ भूतमव्यभिविष्ण्वस्य पृष्टं लोकनमस्कृतम् ॥
॥ ३॥ देवा ऊचुः ॥ वासुदेवस्य देवस्य महादेवस्य चाप्यथ ॥ अन्तरं ज्ञातुमिच्छामः कः कस्मादतिरिच्यते ॥ ४ ॥ शङ्कर उवाच ॥ एवमुक्तस्सुरैः
सर्वै ऋषिभिश्च पितामहः ॥ विहस्योवाच तान्सर्वांस्त्वन्तर्गत्वो परस्परम् ॥ ५ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 130
Page 130 scan
त्त्वम् ॥ २३ ॥ त्वमेव भूतानि च तद्गुणाश्च मूर्त्तिर्विभिन्नैर्न भूतैर्विभिन्नः ॥ तत्त्वानि सर्वाणि च तद्व्यतीतः त्वमेव देवः पुरुषः प्रदिष्टः ॥ २४ ॥
तवेच्छया स्यात्सकला त्रिलोकी तवेच्छया देव तथा विनश्येत् ॥ इत्थंविधस्यानघ कर्मणस्ते स्तुतिः कथं स्यात्परमस्य धाम्नः ॥ २५ ॥ एवं
स्तुतो देववरो मयासावुवाच मां देवगणस्य मध्ये ॥ गोऽहं स देवः परमेश्वरस्त्वं गोऽहं स देवः प्रपितामहश्च ॥ २६ ॥ आश्रित्य मूर्त्तित्रितयं मयेदं
कर्मत्रयं शङ्कर साध्यते वै ॥ उत्पत्तिनाशौ परिपालने च कालेऽस्य शङ्कर

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 131
Page 131 scan

असि ॥ अनेन चापरत्नेन वैष्णवेन महाबल ॥ दैत्यान्संगरे हत्वा गत्वा च वरुणालयं ॥ १० ॥ पृष्टव्यो वरुणो देवस्त्वया धर्मभृतां वरः ॥
स पुत्र वरुणाद्धीमुं^१क्त्वा राम यथाविधि ॥ ११ ॥ आगच्छेद्या यथाकालं मत्समपं महाभुज ॥ एवमुक्तस्तदा रामः पित्रा धर्मभृतां वरः ॥ १२ ॥
पितरं मातरं भ्रातॄनभिवाद्य यथाविधि ॥ जगाम वरुणावासं रामो वैश्वानरद्युतिः ॥ १३ ॥ स प्रविश्य समुद्रं महादेवप्रसादातः ॥ ततोऽपश्यं
नगरं रामो ददर्श पुरुषोत्तमम् ॥ १४ ॥ मनोऽभिरां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 132
Page 132 scan

वि० ध०
॥ ४२ ॥

प्र० खं०
अ० ७०

रङ्गबलान्विताः ॥ मुसन्नद्धाः प्रतीक्षन्तो राममद्भुतविक्रमम् ॥ १९॥ ददृशुश्च महाभागं वरचापधरं तदा ॥ मृत्योर्मुखमिवाद्वैयं लोकाकर्षणतत्परम्
॥ २०॥ दीप्तांशुजालं रणचण्डवेगं धनुर्धरं कालमिवप्रकाशम् ॥ महानुभावं समरेष्वजेयं लेलिहमानं भुजगेन्द्रवाहूम् ॥२१॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मा० सं० वरुणादिदर्शनं नामकोनसप्ततितमोऽध्यायः ॥६९॥ मार्कण्डेय उवाच ॥ सन्नद्धं दानवाणां पताकाशतसंकुलम् ॥ नानाप्रका
र्वादित्रं सिंहनादबलोद्धतम् ॥ १ ॥ दृष्ट्वा रामो महातेजाः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 133
Page 133 scan

दानवाः ॥ तं राममक्षतं दृष्ट्वा हतशेषाः प्रदुद्रुवुः ॥ २४ ॥
मयताम्रप्रभृतयः पुरं च विविशुस्तदा ॥
पलायमानान्समरे न जघान स भार्गवः ॥ २५ ॥
किंचिच्छेषेषु दैत्येषु विनिवृत्तस्तदा रणात् ॥
हतैर्दैत्यायुतगणै रामोऽभ्यन्तरं ययौ ॥ २६ ॥
रामप्रवेशे नगरं वरुणस्याज्ञया तदा ॥
पताकाध्वजसंबाधं कृतं देवैर्विशेषवत् ॥ २७ ॥
नागैश्च दानवैश्चैव सिक्तं चन्दनवारिणा ॥
धूपपुञ्जैः सुसिक्तं कुसुमोत्करमण्डितम् ॥ २८ ॥
ततश्च सुमहातेजा वरुणस्तु विनिर्गतः ॥
पुत्रैः पौत्रैः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 134
Page 134 scan

वि० ध०
॥ ४२ ॥
प्र० सं०
अ० ७२
॥ ४३ ॥

भुवनस्य च ॥१४॥ त्रैलोक्यं सकलं देव प्रकृतिर्विकृतिश्च ते ॥ ममापि सुमहाभाग प्रसादसुमुखो ह्यसि ॥ १५॥ तत्समाचक्ष्व भगवांश्छिन्न संशयान्मन्मसि
स्थितान् ॥ वरुण उवाच ॥ यथास्ति ते संशयमत्राहं छेत्तास्मि ते तत्र न संशयोऽत्र ॥ यथा ममाशीविषरान्तकोऽसौ तथा भवान्मे रणचण्डवेगः ॥
॥१६॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० श्रीपरशुरामवरुणकृतस्तोत्रो नामैकसप्ततितमोऽध्यायः॥७१॥ राम उवाच ॥ स्निग्धवर्षोपसंक्लेश
यादोगणजलेश्वर ॥ त्वत्तोहं श्रोतुमिच्छामि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 135
Page 135 scan

भृगुनन्दन ॥ २१ ॥ संमाह्वये साष्टमासे दिनषोडशकान्विते ।१ नाडीचतुष्टयान्ते तु तस्मान्मासोऽतिरिच्यते ॥ २२ ॥ स चाधिमासकः प्रोक्तः
काम्यकर्मसु गर्हितः ॥ यदा चान्द्रेण मानेन पूर्णस्संवत्सरो भवेत् ॥ २३ ॥ तदा नाक्षत्रमानेन स मासो वार्षिको भवेत् ॥ एवं कालस्य
सूक्ष्मस्य प्रोक्तं मानतदुद्भवम् ॥ २४ ॥ येनेयेन च मानेन यद्यत्कार्यं निबोध तत् ॥ २५ ॥ अब्दायनं तु ग्रहचारकर्म सौरेण मानेन सदा
व्यवस्येत् ॥ सत्राण्युपास्त्यान्यथ सावनेन लोके च यत्स्याद्व्यवहारकर्म ॥ २६ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 136
Page 136 scan

वि० ध० प्र० खं०
अ० ७२

पितरोऽव्ययाः ॥ १६ ॥ समाशतैर्दशभिर्दिव्यैस्तिष्ययुगं स्मृतम् ॥ द्विगुणं द्वापरं ज्ञेयं त्रेता त्रिगुणमुच्यते ॥ १७ ॥ चतुर्गुणं कृतं प्रोक्तं पिण्डितं चाब्दसंख्यया ॥ चतुर्गुणं सहस्राणि राम द्वादश कीर्तितम् ॥ १८ ॥ अतः परं युगावस्थां निबोध गदतो मम ॥ चतुष्पात्सकलो धर्मस्तथा ऽब्रूहोतरं जगत् ॥ १९ ॥ श्वेतवर्णो हरिर्देवो ज्ञाननित्यश्च मानवाः ॥ चत्वार्यब्दसहस्राणि तेषामायुः प्रकीर्तितम् ॥ २० ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 137
Page 137 scan

दिवसा व्यतीता न चागता ये च महानुभाव ॥ अनादिसत्त्वात्परमेश्वरस्य ह्यानन्त्यभावाच्च तथा त्वसंख्याः ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्र० मा० सं० वरुणरामसंभाषणे कालसंख्यावर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ वज्र उवाच ॥ यदेतदुक्तं रामस्य वरुणेन महात्मना ॥ एतच्छ्रुत्वा तु मे जातस्संशयो भृगुनन्दन ॥ १ ॥ अस्मिंस्तु भारते वर्षे परिक्षीणे युगे तथा ॥ अवस्था या भवेद्ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ॥ २ ॥ मार्कण्डेय उवाच ॥ युगेयुगे परिक्षीणे वर्षे यद्भव भारते ॥ संग्रामेण विनश्यंति प्रायो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 138
Page 138 scan

वि० ध०
॥ ४६ ॥

प्र० खं०
अ० ७५

भारताचन्दनाः ॥ परिक्षित्सुतं राज्यस्थं राजानं जनमेजयम् ॥ २३ ॥ वैशम्पायन इत्येव शिष्यो व्यासस्य विश्रुतः ॥ आख्यास्याति महाऽऽख्यानं सर्वपापभयापहम् ॥ २४ ॥ धर्मे चार्थे च कामे च मोक्षे च यदुनन्दन ॥ प्रदीपभूतं सर्वत्र बुध्बुिद्धिविवर्धनम् ॥ २५ ॥ यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ॥ तच्छ्रोतव्यं मनुष्येण परं पदमभीप्सता ॥ २६ ॥ भारताख्यानं प्राप्य नर्कं तु न गच्छति ॥ न चेत्स्याद्यदि भूपाल महापातकसंयुतः ॥ २७ ॥ दशभिः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 139
Page 139 scan

जायते ॥ समवस्था महाभाग तादृशीं वक्तुमर्हसि ॥ १ ॥ मार्कण्डेय उवाच ॥ मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः ॥ महर्लोकंमथासाद्य तिष्ठन्ति गतकल्मषाः ॥ २ ॥ मनुश्च सह शक्रेण देवाश्च यदुनन्दन ॥ ब्रह्मलोकं प्रपद्यन्ते पुनरावृत्तिदुर्लभम् ॥ ३ ॥ ऋषयश्च तथा सप्त तत्र तिष्ठन्ति ते सदा ॥ अधिकारं विना सर्वे सदृशाः परमेष्ठिनः ॥ ४ ॥ भूतलं सकलं वज्र तोयरूपी महेश्वरः ॥ अर्चिमाली महावेगः सर्वमावृत्त्य तिष्ठति ॥ ५ ॥ भूलोकाश्रितं सर्वं तदा नश्यति यादव ॥ न विनश्यन्ति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 140
Page 140 scan

वि० ध०
॥ ४६ ॥

प्र० सं०
अ० ७७

काराः केचिद्रत्निसन्निभाः ॥ हरितालाञ्जनप्रख्यास्तथा हिङ्गुलकप्रभाः ॥ ८ ॥ शुकप्रभानिभाः केचित्केचिन्नोत्पलप्रभाः ॥ विद्युन्माला
विनद्धाश्च गर्जन्तोऽथ बलाहकाः ॥ ९ ॥ आक्रम्य गगनं राजन्पूरयन्ति महीतलम् ॥ गङ्गाप्रवाहप्रतिमैर्घोरपातैः पुनःपुनः ॥ १० ॥ ततस्समुद्रा
भूधाल वेलोद्वेलद्रुतप्लिक्षिणः ॥ छादयन्ति महीं सर्वं दग्धं सूर्यगभस्तिभिः ॥ ११ ॥ ततस्संहृतको वायुर्घनतान्गिरुजति क्षणात् ॥ ततो वायुं समादाय
स्वशरीरे पितामहः ॥ १२ ॥ स्वापित्येकार्णवे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

प्रथमखण्डे मा०सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

Page 141
Page 141 scan

प्रथमखण्डे मा०सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

वज्र उवाच ॥ ॥
सप्तमस्ते महाभाग जातस्य दिवसस्त्वयम् ॥ वर्तते ब्रह्मणो ब्रह्मँस्तत्र मन्वन्तरक्षये ॥ १ ॥
कथं कालस्त्वया नीतः पुरा कल्पक्षये तदा ॥ एतन्मे संशयं छिन्धि त्वं समः परमेष्ठिनः ॥ २ ॥

मार्कण्डेय उवाच ॥
नैर्गेतेन मया नीतः कालो मन्वन्तरक्षये ॥ भूयोभूयो महाभाग देवदेवप्रसादतः ॥ ३ ॥
कल्पक्षयमनुप्राप्य दाहकाल उपस्थिते ॥ जनलोकगतेनाथ कालो नीतस्त्व वै मया ॥ ४ ॥
दाहकाले तदा वृत्ते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 142
Page 142 scan

पश्यतम् ॥ ततोऽहं पतितस्तस्य पादयोस्सुमहात्मनः ॥ २४॥ ततस्सोऽन्तर्हितो बालस्सह तेनैव शाखिना॥ एवं मया तस्य निशा नरेन्द्र संप्राप्य पुण्यं
जले हि नीता ॥ महाशरीरस्य महाद्युभाव महाप्रमेयस्य पितामहस्य ॥ २५॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० बालप्रभावकथनो नामाष्टसप्त-
तितमोऽध्यायः ॥ ७८॥ वज्र उवाच ॥ कस्त्वसौ बालवेषेण कल्पान्तेषु पुनःपुनः ॥ दृष्टोऽपि न त्वया ज्ञातस्तत्र कौतूहलं महत् ॥ १॥ मार्कण्डेय
उवाच ॥ भूयोऽप्यस्त्वसौ दृष्टो मया देवो जगत्पतिः ॥ कल्पक्षये न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in