विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
Page 381 of 493
Read in context( ३७४ )
मन्दराचल के समान मन्थन करने वाले पर्वतों के समान सोमदेव के गजेन्द्र
अत्यन्त शोभा को प्राप्त हो रहे थे ।
इति सम्बन्धकुलकम्—कुलकमित्यर्थ ।
अथ सोमदेवसेनाश्वान्पञ्चभिः श्लोकैर्वर्णयति कविः—
कुलिशकठिनलोहबन्धयोगान्निजगृहकुट्टिमवद्विलङ्घ्यते स्म ।
विशिखशकलकण्टकावतीर्णा रणखुरली खुरमण्डलैर्यदीयैः ॥४६॥
अन्वयः
यदीयैः खुरमण्डलैः कुलिशकठिनलोहबन्धयोगात् विशिखशकलकण्ट-
कावकीर्णा रणखुरली निजगृहकुट्टिमवत् विलङ्घ्यते स्म ।
व्याख्या
येषामश्वानामिमे इति यदीयास्तैः खुरमण्डलैः शफसमूहैः 'शफं क्लीबे खुरः
पुमान्' इत्यमरः । कुलिशवद्वज्रवत्कठिनानां कठोराणां लोहबन्धानां खुरेषु
कीलितलोहानां "नाल" इति भाषायां प्रसिद्धानां, योगात्सम्बन्धाद्विशिखानां
बाणानां शकलानि खण्डान्येव कण्टकास्तैरवकीर्णा व्याप्ता रणखुरली युद्धभूमि-
र्निजानि स्वकीयानि गृहाणि गेहाः 'गृहं गेहोदवसितम्' इत्यमरः । तेषां
कुट्टिमा निबद्धा भूस्तद्वत् 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । विलङ्घ्यते
स्मातिक्राम्यते स्म ।
भाषा
जिन घोडो के खुरो से, वज्र के समान कड़ी नांल बधी होने के कारण,
बाणो के टुकडे रूपी काटो से आच्छादित युद्धभूमी, घुडसाल की फरशबन्दी के
समान लाघी जाती थी अर्थात् घोड़े, खुरो में कड़ी नाल जड़ी होने के कारण
आराम से घुडसाल की पक्की सतह पर चलन के समान बाणो के टुकडे रूपी
कांटो से आच्छादित रणभूमि पर भी आराम से चलते थे ।
व्यजनचटुलवालधिप्रपञ्च-प्रचुरसमीरणपुञ्जमध्यवर्ती ।
त्वरितगमनलङ्घितोऽपि येषां मरुदविभाव्यतया न लज्जते स्म ॥४७॥