विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
Page 367 of 493
Read in context( ३६० )
क्रीडयैव विघटनं विशृङ्खलनं विधाय सम्पद्य तरङ्गैर्वीचिभिर्विरचिता राज-
कुमारस्य स्वागतसंस्कारार्थं सम्यक् संघटिता (माङ्गलिकी) वन्दनमालिका
तोरणस्रक् (बन्दनवार इति भाषायां प्रसिद्धा।) यया सा तां तुङ्गभद्रां तन्नाम्नीं
नदीं पुनरपि मुहुर्जगाम ययौ। तरङ्गाणां वन्दनमालिकाभीरूपणाद्रूपकम्।
भाषा
वह विक्रमाङ्कदेव, दुर्गम मार्गों में आक्रमण करने वाले कोलभिल्लादि
जंगली धनुर्धारियों को सहज में भगाकर, अपने स्वागत में, लहरों से बन्दन वार
बांधने वाली तुङ्गभद्रा नदी पर फिर से गया।
अथ कतिपुचिदेव दैवयोगात् परिगलितेषु दिनेषु चोलसूनोः।
श्रियमहरत राजिगाभिधानः प्रकृतिविरोधहतस्य वेङ्गिनाथः॥२६॥
अन्वयः
अथ कतिपुचित् एव दिनेषु परिगलितेषु दैवयोगात् राजिगाभिधानः
वेङ्गिनाथः प्रकृतिविरोधहतस्य चोलसूनोः श्रियम् अहरत।
व्याख्या
अथाऽनन्तरं कतिपुचिदेव कियत्स्वेव दिनेषु दिवसेषु परिगलितेषु व्यतीतेषु
सत्सु दैवयोगाद्भाग्यवशात् राजिग इत्यभिधानं नाम 'आख्याह्वे ह्यभिधानञ्च
नामधेयञ्च नाम च' इत्यमरः। यस्य स राजिगाख्यो वेङ्गिनाथो वेङ्गि-
देशाधिपती राजेन्द्रचोलः प्रकृतीनां प्रजानां प्रकृतेः स्वभावस्य या विरोधेन
प्रातिकूल्येन वैरेण वा हतस्य मारितस्य चोलसूनोश्चोलराजपुत्रस्याऽधिराज-
राजेन्द्रस्य श्रियं लक्ष्मीं राज्यमित्यर्थः। अहरत गृहीतवान्।
भाषा
इसके अनन्तर कुछ ही दिन बीतने पर राजिग उपनामक वेङ्गिदेश के राजा
राजेन्द्र चोल ने प्रजा के विरोध से या स्वाभाविक वैर से चोल के राजपुत्र
अधिराज राजेन्द्र को मारकर उसका राज्य छीन लिया।
कुटिलमतिरसौ विशङ्कमानः पुनरमुमेव पराभवप्रगल्भम्।
प्रगुणमकृत पृष्ठकोपहेतोः प्रकृतिविरोघिनमस्य सोमदेवम् ॥२७॥