विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
Page 348 of 493
Read in context( ३४० )
ऐसी ठंडी कान्ति फैलाती है । तुम्हारा दुश्चरित राजाओं को विशेष तपाने
वाला वह प्रताप तुम्हारे शरीर में कहाँ रहता है ?
धैर्यस्य धाम निधिर्अद्भुतचेष्टितानां
दृष्टान्तभूरनवधेः करुणारसस्य ।
त्वं वेधसा विरचितः सकलादिराज-
निर्माणसारपरमाणुसमुच्चयेन ॥८७॥
अन्वयः
वेधसा सकलादिराजनिर्माणसारपरमाणुसमुच्चयेन त्वं धैर्यस्य धाम,
अद्भुतचेष्टितानां निधिः अनवधेः करुणारसस्य दृष्टान्तभूः विरचितः ।
व्याख्या
वेधसा ब्रह्मणा सकलास्समस्ता आदिराजानो मान्धातृदिलीपप्रभृतय आदि-
नृपतयस्तेषां निर्माणस्य रचनायाः सारभूताः श्रेष्ठांशा ये परमाणवस्सूक्ष्मतम-
भागास्तेषां समुच्चयेन समूहेन सर्वादिमान्धातृप्रभृतिनृपरचनासारांशरूपसूक्ष्मतम-
भागकदम्बेन त्वं भवान् धैर्यस्य गाम्भीर्यस्य धाम कुलगृहमद्भुतान्याश्चर्योत्पा-
दकानि चेष्टितानि व्यापारास्तेषां निधिरकरोऽनवधेर्निर्मर्यादस्य करुणारसस्य
दयार्द्रभावस्य दृष्टान्तभूदृष्टान्तभूमिस्तदुदाहरणमित्यर्थः । विरचितो निर्मितः ।
अत्र राज्ञि धामनिध्यादेरभेदारोपान्मालारूपकालङ्कारः ।
भाषा
ब्रह्मा ने समग्र प्राचीन मान्धाता दिलीप आदि राजाओं को बनाने के
सारभूत परमाणुओं के सङ्ग्रह से गाम्भीर्य के घर, आश्चर्यजनककार्यों का
खजाना और असीम दयार्द्रभाव के उदाहरण स्वरूप, आप की रचना की ।
कन्या विभूषणमियं भुवनत्रयस्य
सिंहासनं विपुलमेतदयं ममात्मा ।
व्यस्तं समस्तमथवा यदिदं गृहाण
पुण्यैर्मम प्रणयमेतु यशःपताका ॥८८॥