Skip to content
SarvaKosh
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री

Report a copyright issue

DevanagariSanskritpublished493 pages

Page 254 of 493

Read in context
Page 254

( २३४ )
भाषा
राजा आहवमल्ल देव ने पाण्ड्यराजा को निस्तेज करने वाले चोलराजा को
घबड़ाहट में डालने वाले और सीलोन के राजा को परास्त करने वाले तुम्हारे
विजय को सुन कर सुखमय अवस्था का अनुभव किया । अर्थात् राजा को
अत्यन्त हर्ष हुआ ।
अकाण्डे विधि चाण्डालस्तस्मै दाहज्वरं ददौ ।
न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसंपदः ॥४६॥
अन्वयः
अकाण्डे विधिचाण्डालः तस्मै दाहज्वरं ददौ। कैश्चित् अपि निष्कम्पाः
सुखसम्पदः न लभ्यन्ते ।
व्याख्या
अकाण्डेऽनवसरे विधिर्ब्रह्मैव चाण्डालो दुष्टकार्यकर्ता तस्मै राज्ञे दाहज्वरं १
ज्वरविशेषं महासंतापकरं ज्वरमित्यर्थः । ददौ दत्तवान् । विधिवशात्तसमय
एव स दाहज्वराक्रान्तोऽभूदित्यर्थः । कैश्चिदपि भाग्यवद्भिर्निष्कम्पाः कम्पेन
चाञ्चल्येन रहिता निष्कम्पा विघ्नरहिताः सुखसम्पदः सुखसम्पत्तयो न लभ्यन्ते
न प्राप्यन्ते । पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तरन्यासालंकारः ।
भाषा
बेमौके ही चाण्डाल विधि ने राजा को दाहज्वर से पीड़ित कर दिया ।
कोई भी मनुष्य विघ्न रहित सुखसम्पत्ति को नहीं प्राप्त कर सकते ।
अपरिश्रान्तसन्तापश्चन्दनालेपनेन सः ।
त्वदङ्कपालीपेयूपमाचकाङ्क्ष पुनः पुनः ॥४७॥
१ वेगस्तीक्ष्णोऽतिसारश्च निद्राल्यत्वं तथा वमिः ।
कण्ठोष्ठमुखनासानां पाक स्वेदश्च जायते ॥
प्रलापो वक्त्रकटुता मूर्च्छादाहो मदस्तृषा ।
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ॥
इति दाहज्वरलक्षणम् । (चक्रपानिदत्तोक्तम्)