विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
Page 198 of 493
Read in context( १७३ )
अन्वयः
त्वम् अङ्गीकृतयौवराज्यः (सन्) जगद्रक्षणयामिकत्वं न धत्से चेत्,
मौर्वीरवापूरितदिङ्मुखस्य मद्भुजस्य क्लान्तिः कथं शाम्यतु ।
व्याख्या
त्वमङ्गीकृत परिगृहीत यौवराज्य युवराजकर्म येन स एवम्भूतस्सन् जगतो
भुवनस्य 'विष्टप भुवनं जगत्' इत्यमर । रक्षण पालनं तस्य यामिकत्व प्रहरित्वं
न धत्से न वहसि चेत् मौर्व्या ज्याया रखेण नादेनाऽऽपूरितानि दिशा मुखानि येन
स तस्य मद्भुजस्य मम बाहो 'भुज बाहु प्रवेष्टो दो' इत्यमर । क्लान्ति
परिश्रान्ति कथ केन प्रकारेण शाम्यतु शान्तिमेतु । मदुपार्जितस्य रक्षणे यदि
त्व दीक्षितो न भविष्यसि तर्हि मत्कठोरपरिश्रमस्य साफल्य कुत इति भावः ।
भाषा
अगर तुम युवराज पद को स्वीकार कर जगत की रक्षा के लिय पहरेदारी
नही करोगे तो प्रत्यञ्चा के शब्दो से सब दिशाओ को भर देन वाली अर्थात्
गुजाने वाली मेरी इस भुजा की थकावट कैसे दूर होगी । अर्थात् मेरी जीती
हुई पृथ्वी के यदि तुम पहरे दार न बनोगे तो मेरा इस समस्त पृथ्वी को जीत
कर अपन अधीन करने का कठोर परिश्रम कैसे सफल होगा ।
आकर्ण्य कर्णाटपतेः सखेद-मित्थं वचः प्रत्यवदत्कुमारः ।
सरस्वतीलोलदुकूलकान्तां प्रकाशयन्दन्तमयूखलेखाम् ॥३३॥
अन्वयः
कुमारः कर्णाटपतेः इत्थं सखेद वचः आकर्ण्य सरस्वतीलोलदु-
कूलकान्ता दन्तमयूखलेखा प्रकाशयन् प्रत्यवदत् ।
व्याख्या
कुमारो राजकुमार कर्णाटपतेर्दक्षिण भारतस्थितकर्णाटकदेशाधिपतेराहव-
मल्लदेवस्येत्यनेवम्भूत खेदेन दुःखेन सहित युक्त खेदप्रकाशक वचो वाणीमाकर्ण्य
निशम्य सरस्वत्या वागधिष्ठातृदेव्या लोल चञ्चल यददुकूल वस्त्रं तद्वत कान्ता
शुभ्रत्वेन रमणीया दन्ताना रदाना मयूखा किरणा सेषा लेखा पङ्क्ति
'वीथ्यालिरावलि पङ्क्ति श्रेणी लेखातु राजय, इत्यमर । तां प्रकाशयन्
प्रकटयन् प्रत्यवदत् प्रत्युत्तर ददौ । अत्रोपमालङ्कार ।