Skip to content
SarvaKosh
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री

DevanagariSanskritpublished493 pages

Page 174 of 493

Read in context
Page 174

॥ श्री ॥
महाकवि श्री विल्हण विरचितं
विक्रमाङ्कदेवचरितम्
तृतीयः सर्गः
अथ नवजातराजकुमारं वर्णयति कविः—
स विक्रमेणाद्भुततेजसा च चेष्टाविशेषानुमितेन बालः ।
श्रीविक्रमादित्य इति क्षितीन्दोरवाप विख्यातगुणः समाख्याम् ॥१॥
अन्वयः
स विख्यातगुणः बालः चेष्टाविशेषानुमितेन विक्रमेण अद्भुततेजसा
च क्षितीन्दोः श्रीविक्रमादित्यः इति समाख्याम् अवाप ।
व्याख्या
सः प्रसिद्धो विख्यातगुण प्रसिद्धगुणो बालो बालकश्चेष्टाविशेषेणाऽऽकारेङ्गि-
तादिव्यवहारेणानुमितो विज्ञातस्तेन विक्रमेण शौर्येणाऽद्भुततेजसाऽऽश्चर्यचुम्बि
प्रतापेन च क्षिते पृथिव्या इन्दुश्चन्द्र (प्रजाह्लादकरत्वात्) तस्मादाहवमल्लदेवनृपात्
श्रीविक्रमादित्य इति विक्रमेण पराक्रमेण तेजसा चाऽऽदित्यस्वरूप इति समामन्व-
र्थामाख्यां नाम 'आख्याऽह्वे अभिधानञ्च नामधेयञ्च नाम च' इत्यमरः ।
अवाप प्राप ।
भाषा
प्रसिद्ध गुणों से युक्त उस बालक ने अपने विशेष लक्षणों से अनुमित
आश्चर्य कारक तेज तथा भावि विक्रम का परिचय देकर पृथ्वी के चन्द्र स्वरूप
राजा आहवमल्लदेव से विक्रम में और तेज में सूर्य की समानता का सूचक
श्री विक्रमादित्य यह अन्वर्थक नाम पाया ।