विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
by महाकवि बिल्हण / पं. विश्वनाथ शास्त्री
Page 103 of 493
Read in context( ८० )
स्ताम्बूलशोभायाः सस्मरन्तीव स्मरन्ती सतीव ताम्बूललक्ष्मीः पत्युर्विरहवेदनया
समाप्तिं गतेति सहवासात्सखीवृत्तान्तं स्मरन्ती सतीव तानवं कृशत्वमाससाद
प्राप । पतिविरहात्ताम्बूलभक्षणेन सह हास्यमपि लुप्तमितिभावः । अत्र
हासप्रभायाः ताम्बूललक्ष्मीसमाप्तिस्मरणस्य हासप्रभानिष्ठतनुत्व-प्राप्तौ हेतुत्वे-
नोत्प्रेक्षणाद्धेतूत्प्रेक्षा । अप्रस्तुतसखीवृत्तान्तस्य हासप्रभावृत्तान्तेऽभेदसमारोपात्स-
मासोक्तिरलङ्कारः ।
भाषा
जिस राजा के शत्रुओं की स्त्रियों के मुखों की हास्यशोभा, एकत्र वास होने
से शीघ्र समाप्त होनेवाली ताम्बूल शोभा को स्मरण करती हुई, कम होने
लगी । अर्थात् पतियों के मर जाने से वैधव्य प्राप्त होने पर आनन्दजनित
हंसी और ताम्बूलभक्षण दोनों ही न रहा ।
यं वारिधिः प्रज्वलदस्त्रजालं वेलावनान्तेषु नितान्तभीतः ।
भूयः समुत्सारणकारणेन समागतं भार्गवमाशशङ्के ॥१०७॥
अन्वयः
नितान्तभीतः वारिधिः वेलावनान्तेषु प्रज्वलदस्त्रजालं यं समुत्सारण-
कारणेन भूयः समागतं भार्गवम् आशशङ्के।
व्याख्या
नितान्तमत्यन्तं भीतो भयाकुलो वारिधिस्समुद्रो वेलावनान्तेषु तटगतारण्यभू-
मिषु प्रज्वलञ्जाज्वल्यमानमस्त्रं यस्य स यं नृपं समुत्सारणस्यापसारणस्य कार-
णेन हेतुना भूय पुनरपि समागतं सम्प्राप्तं भार्गवं परशुराममाशशङ्के शङ्कित-
वान् । अत्र नृपे परशुरामस्य सम्भावनादुत्प्रेक्षा१ ।
भाषा
अत्यधिक भयभीत समुद्र, तट के जंगलों में चमकते हुये अस्त्रों से शोभित
इस राजा को देखकर अपने को हटाने के लिये फिर से परशुराम आये हैं
क्या, ऐसा सन्देह करने लगा ।
१ कोकणदेश पूर्वं समुद्राभ्यन्तरे वर्तमानो भार्गवेण समुद्र समुत्सार्य स्वनिवा-
सायं निर्मित इति पौराणिकीकथाऽत्राऽनुसन्धेया ।