Skip to content
SarvaKosh
Back to the archive

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages
Page 182Permalink

त्वमात्रव्याप्तत्वे"
Let's compare the word in line 19 with line 20:
Line 20 clearly has "व्याप्तत्वे" (व्य + ा + प्त + त् + वे).
Wait, in line 19, look at: "करणमात्राधीनत्वव्याप्तत्वे":
व + ्य + ा + प्त + ल् + वे? Wait, look at the letters after प्त:
It looks like 'व्याप्तौ' or 'व्याप्तत्वे'?
Wait, look at the top: no double matra for 'ौ'. There is a single e-matra 'े'!
And the consonant under it: 'त्वे' or 'ल्वे'? 'त्वे'! Wait, is there a 'त्व'?
Yes, "व्याप्तत्वे" or "व्याप्तौ"? Actually, wait, look at line 19:
करणमात्राधीनत्वव्याप्तत्वे.

Line 20:
सिद्धिर्भवति तथैवोत्पत्तिमत्त्वस्याचेतनोपादानत्वस्य चौपादानोपकरण-
Wait, "चौपादानोपकरण-" -> च + औपादानोपकरण-.

Line 21:
सम्प्रदानप्रयोजनज्ञकर्तृ त्वमात्रव्याप्तत्वे विवादाध्यासितेषु तनुभुवनादिषु
Wait, "ज्ञकर्तृ त्वमात्रव्याप्तत्वे" - notice the small space or joined: "

Page 183Permalink

in the middle or space? "उपलब्धिर्मत्कर्तृका" - there is a small mark/comma/correction above?
Wait, there is a small 'र्' or sign: look at 'तृ' and 'का', above is a small mark, like a caret or mark.
It is "उपलब्धिर्मत्कर्तृका इति ।"

Line 7:
"रूपादीनां कार्याणामुपलब्धेस्तोयादिवरमाणोरपि" -> Wait!
Is it "स्तोयादिपरमाणोरपि"?
Let's look at the letter: 'प' or 'व'?
"स्तोयादिपरमाणोरपि" - yes, 'परमाणोरपि', the 'प' has a slight loop, but it's clearly 'परमाणोरपि'!
Wait, is it 'परमाणोरपि' or 'परमाणवोऽपि'?
Look at the end: 'परमाणो र पि' ->
प-र-मा-णो-र-पि!
Wait, then why does it say: "न रूपादिमन्तो भवेयुः"?
If it were "परमाणोरपि", the subject would be singular, but "भवेयुः" is plural!
Wait, look at that word:
"स्तोयादिपरमाणवोऽपि"?
Let's zoom in very closely to line 7:
स्तो - या - दि - प - र - मा - णो - र - पि ?
Wait, look

Page 184Permalink

An exact, line-by-line transcription of the text from both pages:


[Page 342]

श्वरप्रत्यक्षे सत्त्वात् । “अत्रैवैतस्य वाऽक्षरस्य प्रशासने गार्गि द्यावा-
पृथिव्यौ विधृते तिष्ठत' इत्याद्याम्नायवचनान्यपि मानम् । ईश्वरज्ञानं
शरीरैन्द्रियाद्यनपेक्षमेवेत्यत्रापि 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः
स शृणोत्यकर्ण' इत्यादि श्रुतिवचनानि च प्रमाणानि ।
तदेतदपि मीमांसका दूषयन्ति । तथा च तेषामिदमाकूतम्—'न
पक्षधर्मतावशात्क्षित्यङ्कुरादिकार्यदर्शनेन सर्वज्ञः कर्तृविशेषः सिद्ध्यति ।
नहि कस्यचित्सर्वज्ञत्वमात्रेण विश्वं कार्यमुत्पत्तुमर्हति । ज्ञानचिकीर्षा-
प्रयत्नसमुदायमन्तरा तदसिद्धेः । न ह्यपादानाद्यभिज्ञोऽप्यलसः कुलालो
ज्ञानादिसमुदायमन्तरा कुम्भोत्पादने समर्थः । यथा केवलाद्वह्नेः
केवलाद्वा

Page 185Permalink

or र्ध्ना?
In L9, we have: शकृन्मूर्ध्नोऽपि.
In L11, we have: शकृन्मूर्ध्नो.
In L18, we have: शकृन्मूर्ध्नोपि.
In L19: ablative of शकृन्मूर्द्धन् or शकृन्मूर्ध:
शकृन्मूर्द्धात् -> with sandhi before वैशेष्यं: शकृन्मूर्द्धाद्वैशेष्यं!
Wait, look at the letter between न्मू and द्वै:
It is र्द्धा!
Wait, let me look at र्द्धा: is there an ना? No, it's र्द्धा.
Wait, let me look really closely at L19:
शकृन्मूर्द्धाद्वैशेष्यं!
Ah, wait, does it say द्वै then another वै?
Look: र्द्धा (with a repha and a-matra), then द् with वै subscript/attached -> द्वै, then शे, ष्यं.
Yes! द्वैशेष्यं! द् + वै + शे + ष्यं. It is just शकृन्मूर्द्धाद्वैशेष्यं!
Wait

Page 186Permalink

Here is the line-by-line transcription of the provided image into pure Devanagari Markdown:

[बायाँ पृष्ठ]

३४६ वेदस्वरूप-विमर्श
सम्भवति, कादाचित्कादृष्टपरिपाकादेव देशकालादिप्रतिनियतकार्यो-
त्यादोपपत्त्या तद्व्यतिरेकाव्यभिचारस्यानिश्चितत्वात् ।
यदि च घटादेद्विकर्तृ कत्वं ततः क्षित्यङ्कुरादीनामपि द्विकर्तृ कत्वा-
पत्त्येश्वेरश्वरप्रसङ्गादनवस्था । यथा प्रत्यक्षसिद्धकुलालादिकर्तृ केऽपि
घटादौ तावत्तद्बोधोपपद्यमानोत्पादे चेतमान्तरमीश्वरस्तत्कर्त्तारं कुलामधिष्ठातुं
कल्प्यते, तथैवेश्वमधिष्ठातुमीश्वरान्तरमित्यनवस्था । न चानवस्था-
प्रसङ्गादेव न द्वितीयस्येश्वरस्यानुमानमिति वाच्यम्; एकानुमानेऽप्यन-
वस्थायास्तुल्यत्वात् लब्धपरिपाकादृष्टवत् । क्षेत्रज्ञसंयोगादेव क्षित्यादि-
कार्योत्पत्तावीश्वरकल्पनाया अनवकाशात् । अथ न द्व्यधिष्ठातृका
घटादयः सर्वमेकाधिष्ठातृकमिति नेश्वरान्तरानुमानञ्च न चानवस्थेति चेत्,
सर्वज्ञत्वासिद्धेः ।
यदपि च यत्परस्परोपकार्योपकारकभावेन व्यवस्थितं तदेककर्तृकं
दृष्टम्, यथा रथावयवा एकतक्षककृतिपूर्वका दृष्टास्तथा क्षित्यङ्कुरादिकमपि
परस्परोपकार्योपकार्योपकारकभावेन व्यवस्थितमिति तेनाप्येककर्तृकेन
भाव्यमिति जगतकर्तु : सार्वज्ञ्यसिद्धिरिति । तदप्यकिञ्चित्करम्,
रथादीनां नानातक्षककृतिपूर्वकत्वस्यापि दर्शनात् । अपि चेश्वरस्य क्लेशकम-
विपाकाशयापरामर्शाभ्युपगमात् कर्माभावे देहाद्यनुपपत्तिस्तदभावे
बुद्धिरीश्वर्यं वा नोपपद्यते । कुतः सावश्यम् ? वह्न्यभावे धूमस्येव
कर्माशयाभावे शरीरादीनामनुपपत्तेः । यस्य मते सर्वज्ञेऽपि कर्माशयसत्वं
तन्मते सर्वज्ञत्वस्य कर्माशयपूर्वकत्वेन कर्मज्ञानमन्यतोऽभ्युपेतव्यं येन
कर्माशयेनास्य शरीरादयो जनयितव्यस्तेनापि ज्ञातेनाधिष्ठितेन च
भाव्यम्, तथाचानवस्था । तत्रापि चैष एव प्रसङ्गः ।
ननु हेतुभावे कार्य्याभाव इति नियमेन यदि तनुभुवनादीनां हेतु-
पूर्वकत्वं सिद्धयति तथा सर्वज्ञत्वसिद्धिस्तदसिद्धौ दूषणमपि न
सिद्धयति । तथा च ।
“यत्रोभयोः समो दोषः परिहारश्च तादृशः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥”
इति रीत्या नैकोऽनुयोगमर्हतीति चेन्न, वैलक्षण्यात् ।


[दायाँ पृष्ठ]

वेदप्रमण्य-विमर्शः ३४७
अयमभिप्रायः-प्रत्यक्षं दर्शननिरपेक्षमुपजायमानमदृष्टचरमपि, त्रैलोक्य-
विलक्षणमपि, स्वलक्षणमर्थं गोचरयितुं शक्नोत्येव अनुमानं तु व्याप्त्य-
पेक्षितया व्याप्तेश्च पूर्वदर्शनाधीनतया दृष्टसद्रक्षणमेव गोचरयति न
विलक्षणमदृष्टलिङ्गसम्बन्धात् । तथा च तनुभुवनादिहेतुत्वेनानुमोयमाना
बुद्धिर्यथादर्शनमेवानुमीयेत । सा चानित्या शरीरात्ममनःसंयोगहेतुरसर्व-
विषयास्मदाद्युपलब्ध्वेति तद्विधैवानुमातव्या । एवञ्च नित्यत्वसर्वविषय-
त्वादि व्याहन्येत । नच वह्न्यनुमानस्यास्येव प्रसङ्गः पर्वतेऽनुमीयमा-
नस्य बह्नेर्महानसादिष्टप्रवहिविलक्षणाभावात् । न च देशभेदस्तद्वैल-
क्षण्याय पर्याप्तोऽन्यत्वात् । न च तर्हि कथं रूपाद्युपलब्धेरिन्द्रियानुमानं तत्र
दण्डादिकरणसालक्षण्याभावादिति वाच्यम्, रूपादिपरिच्छित्तिकरणा-
नामिन्द्रियाणामनुमानागोचरत्वात् । न च तर्हि कथमिन्र्दियसिद्धिः,
रूपादिपरिच्छित्यन्यथानुपपत्त्यार्थापत्त्या तत्सिद्धेः । साच सम्बन्धदर्श-
नानपेक्षतया न दृष्टसालक्ष्ण्यमपेक्षते । न चैवं बुद्धिमत्यूर्वकत्वेऽपि अर्था-
पत्तिरन्यथानुपपद्यमानस्य कस्यचिदप्यदर्शनात् । अदृष्टवत्क्षेत्रज्ञपरमाणु-
संयोगात् तनुभुवनादेरुत्पत्तेरुपपत्तेरप्यस्ति साधकापेक्षया साधनदूषणस्य
वैलक्षण्यम् । अपि च साम्येपि वैतण्डिको यः स्वपक्षस्थापनाहीनः
परपक्षं खण्डयति, स न निराकर्तुं शक्यते । अपि च तुल्यत्वे प्रतिबन्ध-
मात्राद् दूषणम्, साधनन्तु निरस्तप्रतिपक्षं साध्यसिद्धम् उपयुज्यते, न तु
सत्प्रतिपक्षं प्रतिबन्धमात्रात् न च बुद्धिमात्रं सन्निवेशविशेषहेतुः, अपि
तु प्रेक्षावुपबुद्धिविशेष एव तद्धेतुः । प्रेक्षा च विन्यासप्रयोजनविचार-
निर्णयरूपा । न च सा तत्र सम्भवति, स्वार्थपरार्थाभावात् । ननु
माभूत्सर्वज्ञो नियोक्ता धर्मज्ञस्त्विवष्यताम् । तदुक्तम्-
'हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसविज्ञो न तु सर्वस्य वेदकः ॥
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।
दूरं पश्यतु वा मा वा तत्त्वमिष्टन्तु पश्यति ॥
प्रमाणं दूरदर्शी चेद्वयं गृध्रानुपास्महे ॥”
ननु धर्मो रूपविशेषाभावात् कथं प्रत्ययपूर्व इति चेन्न । रूपवत

Page 187Permalink

३४८ वेदस्वरूप-विमर्श
एव चक्षुरादीनां विषयत्वनियमे प्रमाणाभावात् । न च प्रत्यक्षस्य
वर्तमानकालमात्रविषयत्वेन कथं प्रत्यक्षविषयत्वमिति वाच्यम्; धर्मस्य
कदाचिद्वर्तमानत्वेऽतिशयवच्चक्षुरादिविषयत्वे बाधाभावात् । आत्यन्तिके
चावर्तमानत्वे खपुष्पवदसत्त्वापत्तेः ।
यत्तु कुर्विति नियोगो धर्मः स च न वर्त्तमानः करोषीति प्रसङ्गात्,
नियोगविषयस्य यागादेरेव धर्मत्वोपगमात्, तत्रैव धर्मत्वप्रसिद्धेस्तस्य
चोत्पाद्यत्वेनाप्रत्यक्षत्वादिति तन्न; तदानीमप्रत्यक्षत्वेऽप्युत्पन्नस्य प्रत्यक्षत्व-
संभवात् । न चोत्पन्नमपि यागादिर्न स्वरूपेण धर्मः, श्रेयःसाधनरूपेणैव
तत्त्वात्, तच्चातीन्द्रियमिति वाच्यम्; विकल्पासहत्वात् ।
तथा हि-यदि श्रेयःसाधनता शक्तिः । पूर्वोक्तयुक्त्येन्द्रियाणां
परिमाणतो विषयनियमस्तु न निरूप्यते

Page 188Permalink

३५० वेदस्वरूप-विमर्शः
अत्र वाचस्पतिमिश्राः-तापत्रयपरीतान् प्रेत्यभावमहार्णवाज्जन्तू-
नुद्धरिष्यामि ज्ञानधर्मोपदेशेन, न च ज्ञानक्रियाशक्त्यतिशयसम्प-
त्तिमन्तरेण तदुपदेशः । न चैवमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं
विना इत्यालोच्य सत्त्वप्रकर्षमुपादत्ते । अविद्यादिभिरपरामृष्टोऽप्या-
त्मारूपेण शैलूष इव तत्तदभिमानोपि न भवति भ्रान्तः । नचैवमुद्दिधीर्षया
भगवता सत्त्वमुपादेयम् । तदुपादाने च तदुद्दिधीर्षा चेदन्योन्याश्रय
इति वाच्यम् । सृष्टिप्रलयप्रवाहस्यानादित्वेन तदनुपपत्तेः ।
नचेश्वरस्य सत्त्वप्रकर्षे न कस्यचित्प्रत्यक्षमनुमानं वास्ति, न चेश्वर-
प्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वापि स्वात्मैश्वर्यप्रकाशनाय
तथोक्तिसंभवेनानाप्तवासंभवदिति वाच्यम्, मन्त्रायुर्वेदादिष्वीश्वर-
प्रणीतेषु प्रवृत्तिसामर्थ्याव्यभिचारनिश्चयात् प्रामाण्यस्य सिद्धत्वेन
तन्निर्मितस्य शास्त्रस्यानातिशङ्कनीयत्वात् । न चौषधिभेदानां तत्संयोग-
विशेषाणां च मन्त्राणां तत्तदङ्गावापोद्वापेण सहस्रेणापि पुरुषायुषैर्लौकि-
कैकमात्रव्यवहारी शक्तः कर्तुमन्वयव्यतिरेकौ । न चागमादन्वयव्यति-
रेकौ ताभ्यां चागमस्तयोरनादित्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये
तत्सम्प्रदायविच्छेदात् । न च प्रलयसत्त्वे प्रमाणाभावः । महदहङ्कारा-
दिरूपपरिणामेन प्रधानेनापि कदाचित्सदृशपरिणामेनापि भाव्यम् ।
सदृशपरिणाम एव साम्यावस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदव-
द्वेदराशिरपि परमेश्वरनिर्मितः प्रमाणभूत एव । सृष्टिप्रलयौ चागमानुमा-
नाभ्यां सिद्धयतः । सर्वज्ञपूर्वकत्वे सति सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेद-
प्रामाण्यवद्वेदप्रामाण्यम् ।
परमेश्वरीय नित्यज्ञानमूलत्वेन प्रवाहरूपेण नित्यान्येव वेदवाक्यानि ।
यदि न नित्यानि कथं प्रमाणानि ? पुरुषनिर्मितत्वे तु पुरुषाणां
चित्राभिसन्धित्वेन भ्रमशङ्का न शक्याऽपाकर्तुम् । तस्माद-
पौरुषेयत्वमेव पुरुषाश्रयान्दोषानपाकुर्वद्वेदे तत्प्रामाण्यव्यवस्थापकम् ।
तदेतत्पातञ्जलमतमपि मीमांसकैः प्रतिक्षिप्यते । परमेश्वरमूलकत्वेन
शास्त्रप्रामाण्यं शास्त्रप्रामाण्येन चेश्वरसिद्धिरित्यन्योन्याश्रयान्न तदुभय-
सिद्धिः । न चानादित्वेन तच्छक्यसमर्थनम् । बीजाङ्कुरादिवत्तस्य


वेदप्रामाण्य-विमर्शः ३५१
प्रमाणान्तरासिद्धत्वात् । न चानुमानेन तत्सिद्धिनैयायिकानुमाननिरा-
करणयुक्तिभिरेवान्यानुमानानामपि निराकृतत्वात् ।
यदुच्यते सातिशयानां काष्ठाप्राप्तिः परिमाणानामुपलब्धा । यथा
कुवलामलकबिल्वेषु महत्त्वस्य सातिशयस्याकाशे काष्ठाप्राप्तिः । साति-
शयञ्चेदं विज्ञानमुपलभ्यते तत्तदेकदिग्बहुविषयादित्थं व्याप्त्या । तदिदमपि
क्वचित्काष्ठाप्राप्तं युक्तं, सर्वज्ञतैव काष्ठाप्राप्तिः । तदपि न; विकल्पासह-
त्वात् । तथाहि—यदि यतः परं नास्ति सा काष्ठा भवतु तत्प्राप्तिर्न तावत्
सार्वज्ञ्यप्राप्तिः । भूयिष्ठविषयत्वेन तु न सार्वज्ञ्यम् । पार्थिवस्य गोलकस्य
पार्थिवान्तरापेक्षं बहुतराकाशावकाशाव्यापित्वेपि न सर्वव्यापिता । अथ
यतः परं न सम्भाव्यते सा काष्ठेति तन्न; कार्यद्रव्यैर्व्यभिचारात् । नहि
सातिशया अपि घटादयः परा संभावनीयातिशायिनः, अन्यानवकाश-
प्रसङ्गात् । एकेन सर्वव्याप्तेः । न च गुणत्वेनेति विशेषणान्न व्यभिचार
इति वाच्यम्, तद्गतानां गरिमादीनां तदवस्थाऽसम्भवात् सर्वगुरुत्व-
वद्भिरेककार्यारम्भाभावान् ।
ऐश्वर्यफलस्य धर्मस्य न सा काष्ठा तदपेक्षयैश्वर्यादिजननाद्धर्मस्यापि ।
ईश्वरैश्वर्यस्य धर्मफलत्वाभावात् । क्लेशकर्मविपाकाशयापरामर्शादने-
कैश्वर्यप्रसङ्गादैश्वर्यव्याघातात् ।
ननु चेश्वरं विना कर्मणां फलदातृत्वञ्जगत्कर्तृत्वं वा नोपपद्यत
इति तदर्थमीश्वरकल्पनमावश्यकमिति चेन्न, मीमांसकैः कर्मभिरेव
तत्साधितत्वात् ।
तथाहि-उपदेशो विधिः, नाज्ञादिः, उपदेशश्च नियोज्यप्रयोजने
कर्मणि लोकशास्त्रयोः प्रसिद्धः । यथाऽऽरोग्यकामो जीर्णे भुञ्जीत, एष
सुपन्था गच्छत्वनेन भवान्, आज्ञादिस्तु नियोक्तृप्रयोजनस्तत्राभिप्रायस्य
प्रवर्तकत्वात्, अपौरुषेये वेदे च तदसम्भवात् । तदेवमुपदेशस्य नियो-
ज्यानुष्ठात्रपेक्षितप्रयोजनानुकूलव्यापारगोचरत्वमेव । तथा च—“स्वर्ग-
कामो यजेत” इत्यादी यागादयो नियोज्यापेक्षितस्वर्गादिसाधनतया
गम्यन्ते ।
“स्वर्गकामो यजेत" इत्यादिश्रुतिभिः कर्मफलसम्बन्धः श्रूयते, न च

Page 189Permalink

३५२ वेदस्वरूप-विमर्शः
किमप्यपूर्वमनुत्पाद्य कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोतीति
तदन्यथानुपपत्त्या कर्मणः काचिदुत्तरावस्था फलस्य पूर्वावस्था वा
कल्पनीया । तथा च कर्मणो यत्फलं प्रति साधनत्वं श्रुतिषु श्रुतं
तदुपपादनाय कर्मणोऽवान्तरव्यापाररूपमपूर्वमभ्युपेयते । न च व्यापार-
वतः कर्मणोऽनुक्षणविनाशिनोऽसत्त्वे कुतो व्यापारावस्थितिरिति वाच्यम्,
व्यापारवति सत्येव व्यापारो । नास्तीति नियमाभावात् ।
अतएवाग्नेयादिषु प्रध्वंसिष्वसत्स्वपि तदुत्पन्नपूर्वाणां परमापूर्वे
जनयितव्ये तदवान्तरव्यापारत्वाभ्युपगमः । असत्यपि धृतपानादिकर्मणि
तेन पुष्टौ कर्तव्यायां तत्परिणामभेदानां तदवान्तरव्यापारत्वाभ्युपगमश्च ।
तदेतज्जैमिनिमतं “धर्मं जैमिनिरत एव” इति सूत्रेगोत्तरमीमांसा-
[

Page 190Permalink

:
क्रियात्वसामान्यस्य (word ends)
क
र
ण
मा
त्रा
धी
न
व्या
प्त
त्वे
ऽ
पि
Let's check letter 3 and 4 again:
Wait, letter 3: ण.
Letter 4: wait, is that a 'म' or 'भा'?
Wait, let's compare letter 4 with 'म' in 'सामान्यस्य' right before it!
In 'सामान्यस्य':
स - ा - म - ा - न - य - स - य
The 'म' in 'सामान्यस्य' has a flat top, left vertical down, loop, horizontal to the right vertical stem, and an aa-matra after it!
Now look at letter 4 in this word:
It has:
a left vertical with a loop, horizontal to the right vertical stem, and an aa-matra!
Wait, BUT DOES IT HAVE a 'ण' before it, or 'ण' with something?
Wait, look at letter 3:
Is it 'ण'?
Look at 'ण' in 'पक्षधर्मताबशेन' (line 27):
'शेन' - no, 'पक्षधर्मताबशेन' has no ण.
Look at 'ण' in 'कारण' (line 5):
क - ा - र - ण. The ण has a U-shaped loop and a vertical bar.
In line 28, letter 3 has a U-shaped loop and a vertical

Page 191Permalink

३५६ वेदस्वरूप-विमर्श
पक्षधर्मतावशाच्चेन्द्रियकरणविशेषसिद्धिर्भवति' अत एव न दृष्टसलक्षण-
स्यैव साध्यस्य सिद्धिरुक्तेन्द्रियानुमाने दृष्टविलक्षणसाध्यसिद्धेरिष्टत्वात् ।
यत्तु रूपादिपरिच्छित्यन्यथानुपपत्त्यातत्सिद्धिरिति तदप्य-
किञ्चित्करम् । सर्वज्ञत्वसिद्धावपि तथैव वक्तुं शक्यत्वात् ।
यदप्युक्तमहद्वत्क्षेत्रज्ञपरमाणुसंयोगाद्भूतभौतिकायुत्पत्त्युपपत्त्या न
तदनुपपत्त्या सर्वज्ञसिद्धिरिति तदतोव मन्दम्, चेतनानाधिष्ठितस्यापूर्वस्य
तदुपपादकत्वासम्भवात् । न च क्षेत्रज्ञाधिष्ठानेन तदुपपत्तिस्तस्याल्पज्ञ-
स्याधिष्ठातृत्वानुपपत्तेः ।
यच्चोक्तं परमेश्वरस्य प्राप्तखिलप्रापणीयस्य प्राप्तव्याभावादत
एव क्रीडासाध्यस्यापि सुखस्याप्राप्तत्वान्न क्रीडार्थमपि तत्प्रवृत्तिर्नापि
कारुण्येन परार्थं प्रवृत्तिः सुखमयस्यैव लोकस्य सृष्टिप्रसङ्गादित्यादि,
तदप्यसङ्गतम् । धर्माधर्मसापेक्षस्य परमेश्वरस्य विचित्रप्रपञ्चनिर्माणे
बाधानुपपत्तेः। न च दुःखहेतोरधर्मस्य कारुण्येनाधिष्ठानं नोपपद्यत
इति वाच्यम्, तस्यापि पापक्षयवैराग्यादिजननाद्युपायतया कारुण्येन
तदधिष्ठानोपपत्तेः । न च दुःखोत्पादस्येश्वराधीनत्वेन तस्य तत्र
वैमुख्येन तदनुत्पादे तदत्यन्तविमोक्षरूपस्यापवर्गस्यानायासेन सिद्धत्वा-
त्कृतं कारुण्येन परार्थप्रवृत्त्येति वाच्यम्; सृष्टिमन्तरा तदनुपपत्तेः ।
तथाहि— "ऋते ज्ञानान्न मुक्तिः” 'तमेव विदित्वातिमृत्युमेति नान्यः
पन्था विद्यतेऽयनाय" इत्यादिश्रुतिप्रामाण्यात् तत्त्वसाक्षात्कार-
मन्तराऽनाद्यविद्याकामकर्मलक्षणबन्धनिवृत्तिपूर्वकरमानन्दावाप्तिलक्षणो
मोक्षो न सिद्धयेव । तत्त्वसाक्षात्कारश्च वेदान्तश्रवणादिसाधनमन्तरा
नोपपद्यते, श्रवणादिकञ्च देहेन्द्रियादिसृष्टिमन्तरा नोपपद्यत इति—कुतः
सृष्टिमन्तरा तद्वैमुख्यमात्रेण मोक्षसिद्धिः ?
यच्चोक्तं नासर्वज्ञः सर्वज्ञं ज्ञातुं शक्नोति, तज्ज्ञानाय सर्वज्ञान्तराभ्युप-
गमेऽनवस्थाप्रसङ्ग इति; तदपि धूलिप्रक्षेपमात्रम्, पूर्वोक्तैरनुमानैः श्रुति-
स्मृतीतिहास-पुराणादिभिः परमेश्वरस्य सार्वज्ञ्यमस्मदादिभिरपि ज्ञातुं
शक्यत्वात् । अपि चैवमेव शास्त्रज्ञज्ञानेऽपि विकल्पः सम्भवति ।


वेदप्रामाण्य-विमर्शः ३५७
शास्त्रज्ञं ज्ञात्वा शास्त्राध्ययनाय छात्राः प्रवर्तन्ते । यत्रापि नाशास्त्रज्ञः
शास्त्रज्ञं ज्ञातुं शक्नोति, तज्ज्ञानमन्तरा कथमध्ययनाय प्रवर्त्येत ?
शास्त्रज्ञक्षेत्रांतरौ प्रवर्तिष्येते ?
वस्तुतस्तु पूर्वमीमांसकानामपि नेश्वरस्य तत्सर्वज्ञतायाश्च खण्डने
तात्पर्यम् । किन्तु तत्रानुमानस्वातन्त्र्यखण्डन एव । उत्तरमीमांसकंस्तु
“तन्त्वौपनिषदं पुरुषं पृच्छामि” "नावेदविन्मनुते तं बृहन्तम्" "शास्त्रयो-
नित्वात्” इत्यादिश्रुतिसूत्रादिभिर्धर्मस्येव ब्रह्मणोऽपि वेदैकसमधि-
गम्यत्वमुपेयते । वेदार्थस्योपपत्तये बुद्ध्यारोहाय च "मन्तव्य” इति
श्रुत्यनुरोधेनैव श्रुत्यविरुद्धानुमानानि युक्तिरूपेणोपादीयन्ते “मन्तव्यश्चो-
पपत्तिभिरे'त्याद्योक्तेः ।
नैयायिकादिभिस्त्वीश्वरोक्तत्वेन वेदस्य प्रामाण्यमुपेयते, तस्य च
वेदोक्तत्वेन सिद्धावन्योन्याश्रयापत्त्या तत्र स्वातन्त्र्येणानुमानप्रामाण्य-
मुच्यते । तत्रानुमानेनेश्वरसामान्यसिद्धावपि न तस्य वेदकारत्वं साधयितुं
शक्यते । तथाह्येज्यैरपि वेदविरोधिभिर्बौद्धजैनख्रिष्टीयमौहम्मदमतानु-
यायिभिः स्वस्वसम्प्रदायानुकूलग्रन्थकारस्यापि परमेश्वरत्वसर्वज्ञत्वादिकञ्च
साधयितुं शक्यत एवेति तैरविशेषोपत्तिरेव वेदस्य भविष्यति । तथात्वे
सापेक्षत्वेनैव वेदस्य प्रामाण्यस्वतस्त्वं भज्येत ।
वैदिकैस्तु चतुर्मुखस्य ब्रह्मणो निर्मात्रापीश्वरेण वेदा न निर्मीयन्ते
किन्तु प्रवाहरूपेण नित्यसिद्धा एव वेदा ब्रह्मणो हृदि प्रकाश्यन्ते । “यो
वै ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इत्यादिश्रुतेः ।
वेदान्तमतरीत्या वेदानां ब्रह्मोपादानकत्वे तत्र ब्रह्मणः स्वातन्त्र्या-
भावेनापौरुषेयत्वमेव । तावतैवापास्तसमस्तपुंदोषशङ्काकलङ्कत्वेन धर्म
इव ब्रह्मण्यपि स्वत एव प्रामाण्यम् । नैवात्र मीमांसकानां विरोधाले-
शोऽपि । न च सृष्टिप्रलयाऽङ्गीकारेण सम्प्रदायविच्छेद इति वाच्यम् ,
परमेश्वरे सम्प्रदायाविच्छेदस्य वर्तमानत्वात् । न च बहुषु सम्प्रदाया-
विच्छेदे यथाश्वासो न तथैकस्मिन्नीश्वरेऽपीति वाच्यम्, बहूनामप्यपेक्ष-
याऽऽप्ततम एकस्मिन्नपि तत् सम्भवात् । बहुष्वनाप्तेषु तदसम्भवाच्च ।
अपि च सुप्तप्रतिबुद्धन्यायेन हिरण्यगर्भादिषु बहुषु प्रजापत्यादिषु

Page 192Permalink

सर्वस्वरूप-विमर्श तथा वेदप्रामाण्य-विमर्शः से संबंधित प्रस्तुत पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण नीचे दिया गया है:


[पृष्ठ ३५८]

३५८ वेदस्वरूप-विमर्श
विशिष्टतपःसमासादितसिद्धिषु सम्प्रदायपारम्पर्याविच्छेदः सृष्टिप्रलया-
ङ्गीकारेऽपि शक्यसमर्थन एवेति न काचिदनुपपत्तिः । ननु वेदस्य
ब्रह्मोपादानकत्वे कथमपौरुषेयत्वमिति चेन्न; प्रामाणान्तरेणार्थमुपलभ्य
विरचितत्वस्यैव पौरुषेयत्वेन वेदे तदभावेनापौरुषेयत्वस्यानपायात् ।
नहि पुरुषोच्चरितत्वं पौरुषेयत्वं तथात्वे मीमांसकम्मन्यस्यापि मते पौरुषे-
यत्वापातात् । वर्णानित्यत्ववादिनोऽपि विभूनां नित्यानां वर्णानां देशतः
कालतश्च पौर्वापर्य रूपमानुपूर्व्यं नोपपद्यते । न चानुपूर्व्यमन्तरा वर्णानां
पदत्वं पदानां च वाक्यत्वं वा सम्भवति । तस्मात्क

Page 193Permalink

३६० वेदस्वरूप विमर्श
वाचस्पतिमिश्रास्तु—यद्यपि ब्रह्मणः स्वरूपचैतन्येनैव स्वसंसृष्टसर्वाव-
भासकत्वं तस्य च स्वरूपेणाकार्यत्वेऽपि दृश्यावच्छिन्नरूपेण ब्रह्मकार्यत्वेन
ज्ञानकर्तृ त्वश्रुतेरपि न विरोध इत्याहुः ।
“जीवाश्रया ब्रह्मपदा अविद्या तत्त्वविन्मता” इति हि प्रसिद्धम् ।
वाचस्पतिमते जीवाश्रयाया ब्रह्मविषयाया अविद्याया विषयीकृतं ब्रह्म
स्वत एव जाड्याश्रयप्रपञ्चाकारेण विवर्तमानतयोपादानम्, माया तु
सहकारिमात्त्रम्, ब्रह्मणोऽविद्याविषयत्वे सर्वज्ञेऽपि सर्वज्ञस्य तस्याविद्या-
श्रयत्वायोगात् । “मूढोऽहं त्वां कथं जाने मोहितस्तव मायये” त्यादौ
मोहविषयत्वे न दुर्ज्ञेयमाहात्म्यातिशयत्वं भगवत उच्यते । मोहाश्रयत्वेन
मूढत्वापत्तिर्भगवति प्रसज्येतेति वाचस्पतिमत्तमेव भक्तिश्रद्धानुकूलम् ।
यद्यपि संक्षेप

Page 194Permalink

३६२ वेदस्वरूप-विमर्श
वापौरुषेयत्वमिति जैमिनीया अपि रोचयन्ते। नचैकस्य प्रतिभाने-
ऽनश्वास इति युक्तम् । नहि बहूनामप्यज्ञानां विज्ञानां वाऽऽशय-
दोषवतां प्रतिभाने युक्त आश्वासः। तत्त्वज्ञानतश्चापास्तसमस्तदोषस्यै-
कस्यापि प्रतिभाने युक्त एवाश्वासः। सर्गादिभुवां प्रजापतिदेवर्षीणां धर्म-
ज्ञानं वैराग्यैश्वर्यसम्पन्नानामुपपद्यते तत्स्वरूपावधारणम् । तत्प्रत्ययेन
चार्वाचीनानामपि तत्र सम्प्रत्ययः।
यथाग्निहोत्रादिचोदनावाक्यैरग्निहोत्रादीनां स्वर्गादिभिः कार्यकार-
णभावोऽवगम्यते, तथैव वेदान्तवाक्यैः सर्वज्ञस्य सर्वशक्तिमतः पर-
मेश्वरस्य जगत्कारणत्वं शास्त्रयोनित्वञ्च विज्ञायते।
यदपि पूर्वकालो, न वेदशून्यः, कालत्वाद्, वर्तमानकालवत् इत्यादि-
रीत्या वर्णपदवाक्यरूपस्य वेदस्य नित्यत्वमपौरुषेयत्वञ्चोपपद्यते, तथापि
तन्नोपपद्यते, सावयवेन जगतः कार्यत्वसिद्ध्या कार्यत्वेन चानित्यत्व-
सिद्ध्या आंशिकप्रलयस्य प्रत्यक्षसिद्धत्वेन समग्रप्रलयस्याप्यनुमातुं शक्य-
त्वात्। वेदान्तेषुच स्पष्टं सृष्ट्यादिकं श्रूयते। प्रतिज्ञादृष्टान्तोपरोधाद्यापस्त्या
वेदान्तिभिर्ब्रह्मातिरिक्तस्य सर्वस्यैव कार्यत्वाभ्युपगमेन वेदस्य कार्यत्वेऽपि
प्रमाणान्तरेणार्थमुपलभ्य विरचितत्वरूपप्रयोजकोगलक्षणस्य पौरुषेयत्व-
स्याभावादपौरुषेयत्वमेव, न वेदनित्यताभ्युपगमादिकमास्तिक्यप्रयोजकम्,
किन्तु तत्प्रामाण्याभ्युपगमस्यैव तद्धेतुत्वम्। “अत्र वेदा अवेदाभवन्ति”
“वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद, त्यादिश्रुतिभिरेव वेदानां
ब्रह्मानतिरिक्तत्वं बोध्यते। तदनुरोधेनैव वाचो विरूपनित्यया इत्यादिनित्य-
त्वप्रतिपादकवचनानां प्रवाह्नित्यत्वबोधनपरत्वमेवाभ्युपगन्तव्यमित्युक्त-
मेव। वेदार्थस्य धर्मस्य ब्रह्मणो वा प्रत्यक्षविषयत्वेन तत्राज्ञातज्ञापकत्या-
पौरुषेयत्वेनापास्तसमस्तभ्रमप्रमादादि-पुंदोषशङ्काकलङ्कस्य वेदादिलक्षण-
शास्त्रस्यैव प्रामाण्यम्, तत्र यथा चक्षुषैव रूपमुपलभ्यते नान्येन श्रोत्रा-
दिनेत्यन्ययोगव्यवच्छेदोऽभिप्रेतस्तथैवालोकादिसहकृतेन निर्दोषमनः
संयुक्तेन विमलेन चक्षुषा रूपमुपलभ्यत एव, न चोपलभ्यत इत्ययोगव्यव-
च्छेदोऽप्यभिप्रेतः। एवमेव चोदनैव लक्षणं धर्मस्य नान्यत् प्रत्यक्षादि-
कम्, चोदना च लक्षणं (बोधक) मेव धर्मस्येति रीत्याऽयोगान्ययो-
वेदप्रामाण्य-विमर्शः ३६३
गत्यावृत्त्यैव चोदनाया धर्मे प्रामाण्यम्। एवं शास्त्रमेव योनिः स्वरूप-
सिद्धौ प्रमाणं यस्य, शास्त्रञ्च योनिरव तत्स्वरूपसिद्धावित्यादावपि
बोध्यम्, यथाऽऽलोकादि सहकार्याभावे चक्षुषा रूपानुपलब्धावपि
नायोगस्तथैव साधनसम्पत्त्युपक्रमोपसंहरादिभिर्विचाराभावे शास्त्रस्य
तल्लक्षकत्वेऽपि नायोगः शक्यशङ्कः। नैतावदेव प्रपञ्चस्य मिथ्यात्व-
सत्यत्वग्राहिणोः श्रुतिप्रत्यक्षयोर्विरोधेऽपि दोषाशङ्काकलङ्कित्वेन प्रथम-
प्रवृत्तस्यापि प्रत्यक्षस्य दौर्बल्यम्, निर्दोषत्वेनापच्छेदन्यायेन परत्वाच्च
श्रुतेरेव प्राबल्यम्, तत एव पृथिव्यादिषु सङ्कीर्णतया प्रतीयमानानां
गन्धादीनां -
'उपलब्ध्याप्सु चेद् गन्धं केचिद् ब्रूयुरनैपुणाः।
पृथ्व्यामेव तं विद्यादपो वायुञ्च संश्रितम्॥”
व्यवस्थायो वक्तव्यत्वेन प्रत्यक्षादागमप्राबल्यं निर्विशङ्कमेव।
पृथिव्यादीनां परस्परव्यतिषक्ततयाऽन्योन्यधर्माणांमन्योन्यस्मिन्नवभासः
सम्भवत्येवेति प्रत्यक्षस्य शङ्कितदोषत्वेन निर्दोषागमस्यैव प्राबल्यं
स्पष्टम्।
न चैवमागमस्य प्रत्यक्षात्प्राबल्ये "यजमानः प्रस्तरः" "आदित्यो
यूपः" इत्यादौ प्रत्यक्षाविरोघाय यजमानादित्यादिशब्दानां प्रस्तरयूपादिषु
गौणीवृत्तिरनाश्रयणीया स्यात्। सोमेन यजेदित्यत्र च वैयधिकरण्ये-
नान्वये यागसोमयोरेकयागसाधनत्वबोधने वाक्यभेदप्रसक्त्या सामा-
नाधिकरण्येनान्वये प्रत्यक्षाविरोधाय सोमवता यागेनेति मत्वर्थलक्षणा
च न कल्पनीया। सत्यपि प्रत्यक्षविरोधे प्रबलेनागमेन प्रस्तरे यजमाना-
भेदस्य यागे सोमाभेदस्य च सिद्धिसम्भवादिति चेदत्र भामती-
कारः-तात्पर्यवती श्रुतिरेव प्रत्यक्षाद् बलीयसी न श्रुतिमात्रं मन्त्रार्थवादानां
तु स्तुतिद्वारम्। तेऽवान्तरार्थे वाक्यार्थद्वारभूते पदार्थ इव न तात्पर्यम्।
न च द्वारभूतेऽवान्तरवाक्यार्थे तात्पर्याभावे मानान्तराविरुद्धदेवता-
विग्रहादिरन्यपरेभ्यो मन्त्रार्थवादेभ्यो न सेत्स्यति। तात्पर्यवत्येव शब्दस्य
प्रामाण्यनियम इति वाच्यम्, एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम
कृत्वा पशुकामो ह्येतेन यजेतेति विशिष्टविधेस्तात्पर्यगोचरेऽपि

Page 195Permalink

३६४ वेदस्वरूप-विमर्श
विशेषणांशरूपे प्रामाण्यादर्शनेनोक्तनियमासिद्धेः । अत्र हि रेवती ऋग्धारं
वारवन्तीयं सामविशेषणं, न च सोमादिविशेषणवदेतत्प्रसिद्धं, येन
वाक्यस्य तद्विशिष्टयागविधिमात्रे प्रामाण्यं स्यात्, न वा विशिष्टविधिना
विशेषणाक्षेपः, आक्षेपाद्विशेषणप्रतिपत्तौ विशिष्टगोचरो विधिर्विशिष्टविधौ
च तेन विशेषणाक्षेप इति परस्पराश्रयतापत्तेः । अतो विशिष्टविधिपरस्यैव
वाक्यस्य विशेषणांशरूपेऽपि प्रामाण्यमभ्युपगन्तव्यं, न च तत्रापि
तात्पर्यम् उभयत्र तात्पर्ये वाक्यभेदप्रसङ्गात् । एवं मन्त्रार्थवादानामपि
विधेयस्तुतिकमस्मरणपर्यवसितानां तद्द्वारभूतेऽर्थे न तात्पर्यमित्य-
तत्परेभ्यस्तेभ्यः प्रत्यक्षस्यैव प्राबल्येन तद्विरोधाय वृत्त्यन्तरकल्पनम् ।
सोमेन यजेतेत्यत्र विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नयागरूपं
विशिष्टं विधेयमित्यभ्युपगमे तस्य विधेयस्य दध्ना जुहोतीत्यादौ
विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विधिपराद्वाक्यादेव
रेवत्याधारवारवन्तीयाविशेषणस्यैव विना तात्पर्यसिद्धिरेष्टव्या,
नहि तात्पर्यबिरहितादागमात् । यागसोमलताभेदग्राहिप्रत्यक्ष-
विरुद्धाथः सिद्ध्यतीति तत्रापि तदविरोघाय मत्वर्थलक्षणाश्रयणं
सिद्धान्तलेशे । अद्वैतश्रुतिस्तूपक्रमोपसंहारैकरूप्यादिषड्विधलि-
ङ्गवगताद्वैततात्पर्या प्रत्याक्षाद्वलवतीति ततः प्रत्यक्षस्यैव बाधो न तद्-
विरोघाय श्रुतेरन्यथानयनम् ।
यत्तुक्तं न तात्पर्यवत्त्वेन प्रत्यक्षाच्छ्रुतेः प्राबल्यम् ! कृष्णलान् श्रपयेदिति
विधेः श्रपणस्य कृष्णलार्थप्रतिपादने तात्पर्यॆऽपि कृष्णले रूपरसपरावृत्ति-
प्रादुर्भावपर्यन्तमुख्यश्रपणसम्बन्धः प्रत्यक्षविरुद्ध इति तद्विरोधाय
श्रपणशब्दस्योष्णीकरणमात्रे लक्षणाभ्युपगमादिति तन्न; शास्त्रस्यान-
धिगतगन्तृत्वेनाकृतकर्तृत्वभावात् । नहि शास्त्रस्य बलवत्त्वेन
श्रपणानर्हस्य श्रपणविधानं सम्भवत्यशक्यस्योपदेशायोगात् । अद्वैत-
श्रुतिविरोधेन प्रत्यक्षस्य व्यावहारिकविषयत्वेनाप्युपपत्तिर्भवति । कृष्णले
श्रपणस्याशक्यत्वादुष्णीकरणे लक्षणा न प्रत्यक्षविरोधात्तदुक्तमेव सिद्धान्त-
लेशसंग्रहे "अथवा कृष्णलं श्रपये' दित्यादौ न प्रत्यक्षानुरोधेन लक्षणा
किन्तु अनुष्ठानाशक्त्या ।
वेदप्रमाण्य-विमर्शः ३६५
सर्वभूतहितैषिणां परमकारुणिकानामपि लौकिकवैदिकसामर्थ्या-
नुरोधेनाधिकारानधिकारव्यवस्था सम्मता । तत एव शास्त्रीयसामर्थ्य-
विधुराणां लौकिकसामर्थ्यवतामपि शूद्रादीनां वेदाध्ययनतदर्थानुष्ठानादि-
नानुमतमिति सूत्रभाष्यभामत्यादिषु स्पष्टम् ।
यथा विधिविहितमध्ययनादि निःश्रेयसकरं तथैव निषिद्धं विधि-
विरुद्धञ्च तदनिष्टकरमपि भवत्येव ।
'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।।'
इति याज्ञवल्क्यस्मृतौ मिताक्षराकारैरेतानि त्रैवर्णिकैरध्येतव्यानीत्युक्त्वा
तत्र प्रमाणरूपेण-
“निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ।।"
इति मनुवचनमुद्धृतम् ।
"वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥"
इति विष्णुसहस्रनामपाठात्फलबोधके वाक्ये स्वभाष्ये श्रीशङ्कराचा-
र्येण शूद्रः श्रवणात्सुखमवाप्नुयान् इति रीत्या शूद्रस्य विष्णुसहस्रनामपाठं
निषिद्ध्य तच्छ्रवणमेव व्याख्यातम् । बृहदारण्यकोपनिद्भाष्ये च 'य
इच्छेद् दुहिता मे पण्डिता स्यादि'त्यत्र दुहितुः पाण्डित्यं गृह्तन्त्रविषयं
वेदेऽनधिकारात् इति व्याख्यातम् । तस्माद् यावदुक्तमित्यादि जैमिनिसूत्रे
शबरस्वामिनापि :अतुल्या हि स्त्री पुंसा । अतुल्यता च द्वेधा स्त्रीत्वाद-
विद्यात्वाच्चेत्युक्तम् ।
'नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ।' (कूर्मपुराणे)
अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च ।
श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन ।।
श्रौतं स्मार्तञ्च वै धर्मं प्रोक्तमस्मिन्नृपोत्तम ।
तस्माच्छूद्रैर्विना विप्रं न श्रोतव्यं कदाचन ।।' (भविष्यपुराणे)

Page 196Permalink

पृष्ठ ३६६

३६६ वेदस्वरूप-विमर्श
अथ शूद्राणां विहितनिषिद्धधर्मा इत्युपक्रम्य शूद्रकमलाकरे १९ पृष्ठे
स्कन्दमहापुराणीयप्रभासखण्डवचनान्युद्धृतानि । तानि यथा —
'न दर्भानुद्धरेत्प्राज्ञः' इत्यादीनि—
'नोच्चरेत्प्रणवं मन्त्रं पुरोडाशं न भक्षयेत्' इत्यादीनि च ।
शूद्राचारशिरोमणावपि ३७ पृष्ठे स्कान्दे प्रभासखण्डीयवचनानि
'न दर्भानीत्यादीनि उद्धृतानि ।
मन्त्रचन्द्रिकायां-'न वैदिकं जपेच्छूद्रः कियञ्चैव कदाचन ।
नमोन्तं शिवमन्त्रं वा वैष्णवमभिधयते बुधैः ॥' इति
देवीयामलेऽपि-'स्वाहा प्रणवसंयुक्तं मन्त्रं शूद्रे वदद्विजः ।
शूद्रो निरयगामी स्यात् विप्रः शूद्रत्वमाप्नुयात् ॥'
षडङ्गन्यासे स्वाहापदस्थाने नमः पदोच्चारणं शूद्रैः कार्यम् ।
श्रीमद्देवीभागवते-'वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् ।
त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने ॥'
स्कान्दे ११ अध्यायः १२ श्लोकः २८ ।
श्रीमद्भागवते 'स्त्री शूद्रद्विजवन्धूनां त्रयो न श्रुतिगोचरा ।'
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ॥ १।४।२५
श्रीमद्वाल्मीकीयरामायणे-सुन्दरकाण्डे
'भावं नचास्याहमनुप्रदातुं मलं द्विजो मन्त्रमिवाद्बिजाय ।।'
नृसिंहतापनीयोपनिषदि ।' 'सावित्रीं प्रणवं यजुलँक्ष्मी स्त्री शूद्राय
नेच्छन्ति; सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः समृतो-
ऽधोगच्छति ।
स्कान्दे प्रभासखण्डे शूद्रविषये-
नोच्चरेत्प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् ।
न शिखां नोपवीतञ्च नोच्चरेत्संस्कृतां गिरम् ॥
पुराण्यान्यधिकृत्य कूर्मपुराणे-
'अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।
नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ।
योऽधीते चैव मोहात्सा सं याति नरकान् बहून् ॥


पृष्ठ ३६७

वेदप्रामाण्य-विमर्शः ३६७
भविष्ये
यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा ।
पठन्ति स्यात्स चाल्पायू राजा राष्ट्रेण सान्वयः ।
बृहद्धर्मपुराणे-उत्तराखण्डे चतुर्थेऽध्याये ५०७ पृष्ठे –
शूद्रस्तु ब्राह्मणादीनां पूजां कुर्यादतन्द्रितः ।
आज्ञां न लङ्घयेच्चापि न च तानवधीरयेत् ॥
न तेषामाचरेद् धर्मं वैदिकं लौकिकं तथा ।
पुराणपठनं वेदपठनं नापि चाचरेन् ॥
शास्त्रार्थकथनञ्चैव न शूद्रः क्वचिदाचरेत् ।
विप्रं क्षत्रं विशं वापि पाठयेन्न कदाचन ।
वर्णान् व्याकरणदीन् वा श्लोकं श्लोकार्थमेव च ।
ब्राह्मणोऽपि पठञ्शूद्रादात्मानमेवन् पातयेत् ।
स्वाहाप्रणवसंयुक्तं शूद्रो मन्त्रं विवर्जयेत् ॥
दद्यान्न देवनेवेद्यं शूद्राय ब्राह्मणः क्वचित् ।
पादोदकं ब्राह्मणस्य पिबेच्छूद्रः प्रयत्नतः ॥
ब्राह्मणे भक्तिमासाद्य शूद्रस्तरति दुर्गतिम् ।
नोपदेशेन मन्त्रैश्च न स्तवैः क्वचैरपि ।।'
गरुडपुराणे प्रेतखण्डे चतुर्थेऽध्याये--
वेदाक्षरं पठेच्छूद्रः कापिलं वा पयः पिबेत् ।
धारयेद् ब्रह्मसूत्रञ्च भवेद् वा ब्राह्मणीपतिः ॥२२॥
राजभार्याभिलाषी च परदारापहारकः ।
कन्यायां कामुकश्चैव सतीनां दूषकश्च यः । ॥२३॥
एते चान्ये च बहवो निषिद्धाचरणोत्सुकाः ।
विहितत्यागिनो मूढ़ा वैतरण्यां पतन्ति ते ॥२४॥
हरिवंशेऽपि 'सुगतिमियाच्छ्रवणाच्च शूद्रयोनिः ।'
व्यासस्मृतौ-प्रथमेऽध्याये-
शूद्रो वर्णचतुर्थोऽस्ति वर्णत्वाद् धर्ममर्हति ।
वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ॥
महाभारते-आनुशासनिके पर्वणि १० अध्याये-

Page 197Permalink

पृष्ठ ३६८

'उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् ।
उपदेशे महान् दोष, उपाध्यायस्य भाष्यते ॥५४॥
पूर्वदेहे यथावृत्तं तन्निबोध द्विजोत्तम ।
जातिं स्मराम्यहं ब्रह्मन् अवधानेन मे शृणु ॥५४॥
शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः ।
ऋषिपुत्रतपास्त्वञ्च तदाऽभूर्द्विजसत्तम ॥५५॥
प्रीयताहि तदा ब्रह्मन्ममानुग्रहबुद्धिना ।
पितृत्वया पूर्वकार्येषूपदेशः कृतोऽनघ ॥५६॥
एवं प्राप्तो महत्कष्टमृषिःसन्नृपसत्तम ।
ब्राह्मणेन न वक्तव्यं तस्माद् वर्णावरे जने ॥६६॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।
एतेषु कथयन् राज्ञो ब्राह्मणो न प्रदुष्यति ॥६८॥
स्कन्दपुराणे ब्रह्मखण्डे दशमेऽध्याये—
'उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ।
उपदेशे महान् दोष उपाध्यायस्य विद्यते ॥३९॥
नाध्यापयेद् बुधः शूद्रं तथा नैव च याजयेत् ।
न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥४०॥
काव्यं वा नाटकं वापि तथाऽलङ्कारमेव च ।
पुराणमितिहासञ्च शूद्रं नैव तु पाठयेत् ॥४१॥
यदि चोपद्दिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् ।
त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद् ब्रह्मसङ्कूलात् ॥४२॥
शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत् ।
शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥४३॥
बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना ।
स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥५७॥
अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ।
हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ॥५८॥
एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ।


पृष्ठ ३६९

कारयामास तस्यायं पितृकार्यादिकं तथा ॥६१॥
त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमद्विजः ।
वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥६२॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
भुक्त्वा क्रमेण नरकांस्तदन्ते स्थावरोऽभवत् ॥६४॥
गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ।
जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥६५॥
अथ चण्डालतां प्राप शूद्रयोनिमगात्ततः ।
गतवान् वैश्यतां पश्चात् क्षत्रियस्तदनन्तरम् ॥६६॥
प्रवर्त्तवर्द्धमानोऽसौ ब्राह्मणो वै तदाऽभवत् ।
उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥६७॥
वर्त्तमानः पितुर्गृहे स्वाचाराभ्यासतत्परः ।
गच्छन् कदाचिद् गहने गृहीतो ब्रह्मरक्षसा ॥६८॥
रुदन् भ्रमन् स्खलन् मूढः प्रहसन् विलपन्नसौ ।
शश्वद् हाहेति वदन् वैदिकं कर्म सोऽत्यजत् ॥६९॥
तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान् क्रमात् ।
अनेकेषु जनित्वा च कुत्सितेष्वपि योनिषु ॥९४॥
गृध्रजन्माऽभवत्पश्चात् गन्धमादनपर्वते ॥
ननु महाभारते अनुशासनिके पर्वणि दशमेऽध्याये—
'शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः ।
ऋषिपुत्रतपास्त्वञ्च तदाऽभूर्द्विजसत्तम ॥५३॥
प्रीयता हि तदा ब्रह्मन् ममानुग्रहबुद्धिना ।
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥५६॥
युस्यां धर्मेषु हव्ये च कव्ये च मुनिसत्तम ।
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥५७'
अहञ्च राजा विप्रेन्द्र पश्चात् कालस्य पर्ययम

वे० वि०—२४

Page 198Permalink

३७० वेदस्वरूप-विमर्श
इत्यादिवचनैः उपदेष्टुरुग्रतपसोऽपि महर्पेरधोगतित्वं विज्ञायते, उप-
देशनीयस्य शूद्रस्य चाभ्युदयो राजत्वमिति स्कन्दपुराणीयवचनैश्च उपदेश-
नीयस्य चोभयोरधोगतिरिति परस्परं महान् विरोध आपततीति चेन्न;
'हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ।।५८।।
पितृकार्यविधानार्थं देवकार्यार्थमेव च ।
मन्त्रानुपदिशत्वं मे महालयविधिं तथा ।।५९।।
अष्टकाश्राद्धकृत्यञ्च वैदिकं यच्च किञ्चन ।
सर्वमेतद्रहस्यं मे ब्रूहि त्वं हि गुरुर्यतः ।। ६० ।।
एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ।
कारयामास तस्यायं पितृकार्यादिकं तथा ।। ६१ ।।
पितृकार्ये कृते तेन विसृष्टः स द्विजो गतः ।
अथ दीर्घाण कालेन पोषितः शूद्रयोनिना ।। ६२ ।।

Page 199Permalink

: wait, the top is a dot, bottom is a comma: ';'.

Line 10:
"सिद्धान्तिनैयायिका, मीमांसका वेदान्तिनश्च ।"

Line 12:
"तदर्थमुद्भावयन्ति अंशानाक्षेपांर्हान् तथापि"
Wait, look at "अंशानाक्षेपांर्हान्":
Is that an anusvara on 'पा'?
Wait, the repha is on 'हा': 'र्हा'. Before 'र्हा', there is a small dot above 'पा': 'पांर्हान्' or is it just the repha's tail?
The repha starts above 'हा' and curves left. Sometimes that curve looks like a dot. But let's look: "अंशानाक्षेपार्हान्" (अंशान् + आक्षेपार्हान् -> अंशाननाक्षेपार्हान्? No, "अंशानाक्षेपार्हान्").

Line 16:
"सिद्धान्तित्वे उपक्षतं कोटिप्रकोटयः सम्यग् विस्तरेण"
Wait, is it "उपक्षतं" or "उपेक्ष्य"?
Let's read: 'उ' 'प' 'क' '्' 'ष' 'त' 'ं' -> "उपक्षतं" or "उपक्षिताः"?
Wait: "सिद्धान्तित्वे उपक्षतं कोटिप्रकोटयः" or "उपक्षिप्तं"?
Wait

Page 200Permalink

[पृष्ठ १]

वेदपौरुषेयत्वविमर्शः ।
'वेदापौरुषेयत्वपरीक्षणप्रसङ्गे' कश्चिज्जल्पति—
"सन्ति हि विश्वस्य पुस्तकालयेषु विविधानि पुस्तकानि ।
तान्यखिलान्यपि पौरुषेयाणि पुरुषरचितानि मन्यन्ते । परं वेदादिधर्म-
ग्रन्थानां विषयेऽन्यदेव मतमुपलभ्यते । ख्रिष्टीयानां मते यथा 'बाइवि-
ल'स्य, यवनानां मते यथा 'कुरान'स्य, पारसीकानाञ्च मते यथा
'जेन्दावस्था'यास्तथैव हिन्दूनां मते वेदाना मपौरुषेयत्वमीश्वरीयज्ञानत्व-
ञ्चाभ्युपगम्यते । वेदादिग्रन्थानामपौरुषेयत्वप्रश्नोऽतीव महत्त्वपूर्णः ।
यतो हि तेषामपौरुषेयत्वपक्ष एव स्वतः प्रामाण्यं सम्भवति । यदि
नाम ते पौरुषेयाः स्युस्तर्हि तेषां प्रामाण्यमपि परत एवाभ्युपगतं
स्यान्नतु स्वतस्तेषां पुरुषदोषाशङ्काशून्यत्वाभावात् । तत्र विचारणीयोऽयं
विषयो यद् वेदादिग्रन्थानामपौरुषेयत्वं सम्भवति न वा ? अपौरुषेयत्व-
पक्षेऽपि अपौरुषेयत्वेन किं नाम विवक्षितं स्यात् ? वेदानाम्पौरुषेयत्व-
परीक्षा मुखेनावान्येषामपि परीक्षा सुकरेति स्थालीपुलाकन्यायेन
वेदानाम्पौरुषेयत्वपरीक्षा ऽत्र प्रस्तूयत' इति ।
तन्न; यतः अर्थातथात्वं प्रमाणानामप्रामाण्यम् । अर्थतथात्वं तु प्रामा-
ण्यम् । तच्च अन्यानपेक्षत्वात् स्वत इति । तेन पौरुषेयाणामपि प्रामाण्य-
स्वतस्त्वमेव । पुरुषाश्रितभ्रमादिदोषाशङ्कया तु अप्रामाण्यं शंक्यते
तत्सिद्धौ अप्रामाण्यम्, तदसिद्धौ तु अनपोहितं प्रामाण्यस्वतस्त्वं
तिष्ठत्येव । तेन अपौरुषेयत्वमूलकं प्रामाण्यस्वतस्त्वमिति परास्तम् ।
अत एव प्रत्यक्षानुमानादीनामपि प्रामाण्यस्वतस्त्वमेव ।
यदुक्तं 'वेदा अपौरुषेया न तु पौरुषेया इति भारतीयविदुषां
प्राचीनपरम्पराप्राप्तं मतम् । यजुर्वेदस्य पुरुषसूक्ते परमेश्वरादेव
वेदानामुत्पत्तिः श्रूयते—
'तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'


[पृष्ठ २]

वेदपौरुषेयत्व-विमर्शः १७५
इति (यजुर्वेदे ३१।७) । परमेश्वरोऽपि यद्यप्यस्मिन्सूक्ते पुरुषशब्दे-
नैव व्यपदिष्टः, परं तस्य कर्मफलोपभोगोपनतशरीरसम्बन्धाभावान्न
शरीरधारि जीववत पुरुषशब्दाभिधेयत्वं सम्भवति । पौरुषेय शब्देन
चात्र जीवरचितत्वमेवाभिप्रेतम् । अतो वेदाः परमेश्वररचिता अपि
अपौरुषेया एवेति अपौरुषेयवादिनां विचारसरणिः ।"
तन्न; वस्तुतस्तु ईश्वररचितस्यापि पौरुषेयत्वमेव । अत एव सर्वेषां
भारतीयविदुषां वेदा अपौरुषेया इति न मतम् । नैयायिकवैशेषिकादिभिः
वेदानां पौरुषेयत्वस्यैवाभ्युपगमान् । अत एव तन्मतरीत्या वेदानां
प्रामाण्यस्वतस्त्वमपि नास्त्येव, ईश्वरस्य आप्तत्वेन कारणगुणसापेक्षतयैव
वेदानां प्रामाण्याभ्युपगमात् । अत एव पौरुषेय शब्देन जीवरचितत्वमेव
इत्यपि न सङ्गतम्, ईश्वररचितत्वस्यापि पौरुषेयत्वानपायात्, अपौरुषे-
यत्ववादिनां रीत्या तु 'तस्मान् यज्ञात् सर्वहुतः' इत्यादिश्रुत्या
परमेश्वरात् वेदानां सम्प्रदायप्रवर्तनरूप एव उत्सर्गः नित्यानां अन्या-
दृशस्य उत्सर्गस्य असम्भवदुक्तिकत्वात् ।
यदुक्तं परत्र विचारणीयमस्माभिर्यद् वेदानाम्पौरुषेयत्वेन किं
विवक्षितम् ? कथं नाम च तेषामपौरुषेयत्वं सामञ्जस्यमुपेयात्, वेदः
कथमीश्वरविरचिताः स्युः ? किं शब्दरूपाणां वेदानाम्पि विरचनमीश्व-
रेणैव कृतम ? वेदवाक्यान्यपि लौकिकवाक्यवत् पदसमूहरूपाण्येव
पदानि पुनरक्षरसमूहरूपाणि । कथं तर्हि वाक्यरूपाणां मन्त्राणामीश्वर-
रचितत्वं सूपपाद्यम् ? किमीश्वरेण वेदानां लेखनं कृतम् ? किंवा तेन
तेषां श्रावणं कृतम् ? तत्र न तावत् प्रथमः पक्षस्तकेसहः, ईश्वरस्य
पत्रमस्यादिरहितत्वेन हस्तपादादिशून्यत्वेन च लेखनासम्भवात् । न
द्वितीयः, तस्याशरीरित्वेन वर्णोच्चारणोपयोगिकण्ठताल्र्वाादिरहितत्वात् ।
तत् कथं परमेश्वरे वेदानां रचना कृतेति नो जानोमहे वयम्, इति ।
तन्न; पूर्वमीमांसकरीत्या वेदानां नित्यत्वेन रचनानपेक्षत्वात् ।
तन्मतरीत्या वेदानां वर्णाः पदानि वाक्यानि च नित्यान्येव । उत्तरमी-
मांसकानां रीत्या वर्णाः प्रलयपर्यन्तावस्थायित्वेन नित्याः । पौर्वापर्य-
भाञ्जि पदानि वाक्यानि च तथाविधान्येव । सृष्ट्यारम्भे तु

Page 201Permalink

३७६ वेदस्वरूप विमर्श
परमेश्वरेण तानि पूर्वपूर्वसर्गानुपूर्वीसापेक्षतया आविर्भाव्यन्ते ।
नैयायिकादितीत्या तु वर्णादीनामनित्यत्वेऽपि पूर्वपूर्वकल्पीयानुपूर्वी-
सव्यपेक्षतयैव ईश्वरेण तानि निर्मियन्ते ।
न चेश्वरस्य कण्ठतालवाद्यभावेन वर्णवाक्याद्युच्चारणमसम्भवदु-
क्तिकामिति वाच्यम् ; लीलया परमेश्वरस्य विग्रहवत्त्वोपपत्त्या तदुपपत्तेः।
यथा वा श्रोत्रपादादिरहितस्य श्रवणगमनादिकं तत्तच्छक्तिमत्वेन
ईश्वरस्योपपद्यते, तथैवोच्चारणमपि नासम्भावि । 'अपाणिपादो जवनो
गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः' इत्यादि श्रुतेः । अन्यथा निविग्रहस्य
शरीरादिविचित्रप्रपञ्चनिर्मातृत्वमपि शङ्कनीयं स्यात् ।
यत्तूक्तं निपुणोऽपि पुरुषः स्वस्कन्धारोहणेऽसमर्थः, तथैव वेदाना-
मीश्वररचितत्वे वेदः स्वयं प्रमाणं भवितुं नार्हति' इति ।
तत्तच्छम् ; स्वपरप्रकाशकानां सूर्यादिभावानां बहुलमुपलब्धेः ।
यत्तु “वेदानाम्पौरुषेयत्वं सिषाधयिषता सायणाचार्येण स्वरचिता-
याम् 'ऋग्वेदभाष्यभूमिकायां, तेषां पौरुषेयत्वखण्डने स्वीया समस्ता
प्रतिभा प्रदर्शिता । परं नासौ वेदानां पौरुषेयत्वं प्रत्याख्यातुं सम-
र्थोऽभूत् । पूर्वपक्षोत्थापितस्य 'अनित्यदर्शनाच्च' (जै० १।१।२८)
इत्यस्य तर्कस्य सायणाचार्येण कृतं खण्डनं सर्वथैव असन्तोषास्पदम् ।
वेदेष्वनित्यानां पदार्थानां दर्शनान्न तेषां नित्यत्वमभ्युपगन्तुं शक्यते
इति पूर्वपक्षाभिप्रायः । अस्य खण्डनं चिकीर्षता सायणाचार्येण प्रतिपादितं
यद् वेदेष्वनित्यानां पदार्थानां वर्णनं न क्वचिदप्युपलभ्यते । यत्र चानित्य-
द्रव्याणां वर्णनं प्रतिभाति, तत्रान्य एव कश्चन गूढार्थोऽनुसन्धेयः ।
तथथा-'बबरः प्रवाहे ष्कारामयत्' इत्यत्र प्रवहणपुत्रस्य बबर नामकस्य
पुरुषस्य वर्णनं प्रतीयते परं विचारप्रहितचेतसा विज्ञायतेऽस्माभिर्यदत्र
बबरध्वनियुक्तस्य प्रकर्षेण वहनशीलस्य वायोरेव वर्णनम् न तु कस्यचित्
पुरुषस्येति ।
किन्तु सायणाचार्यप्रदर्शितयं व्याख्याप्रणाली न विदुषां सन्तोषकारिणी ।
स्वयं सायणाचार्येणाप्येषा प्रणाली मन्त्राणां व्याख्यानावसरेऽनेकशो गत्य-
भावादुपेक्षिता । तथथा-ऋग्वेदस्य प्रथममण्डले 'सोमानं स्वरणं कृणुहि


वेदपौरुषेयत्व-विमर्शः ३७७
ब्रह्मणस्पते । कक्षोवन्तं य औशिजः' (ऋ० सं० १ अ० ५ सूक्तम् १८)
अस्य मन्त्रस्य व्याख्यानावसरे उशिक्-पुत्रस्य कक्षीवन्नामकस्य
ऋषेर्वर्णनं स्वीकृतं सायणाचार्येण । किञ्च ऋग्वेदस्य तृतीयमण्डले
कीकटनाम्नो जनपदस्य, प्रमगन्दनाम्नो राज्ञः, नैचाशाखनाम्नो नगरस्य
च वर्णनमभ्युपगतम् । अत्र प्रमगन्दस्य, कीकटस्य, नैचाशाखस्य च
किं तात्पर्यं ग्रहीतव्यमिति तु न प्रदर्शितं तेन विद्वद्वरेण ।
एवमुच्चावचैरभिप्रायैर्मन्त्रदृष्टयो भवन्ति' (नि० ७।३) 'हर्षशोक-
निन्दाप्रशंसादिना मन्त्राणां द्रष्टारोभ वन्ति' ( इति तत्रैव व्याख्याने
दुर्गाचार्यः) । तास्त्रिविधाः परोक्षकृताः, प्रत्यक्षकृताः, आध्यात्मिक्य-
श्चेति । परोक्षकृता ऋचः सर्वाभिर्नामविभक्तिभिः प्रयुज्यन्ते, प्रथम-
पुरुषैश्चाख्यातस्य । यथा-'इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रमिद्गा-
धिनो' इति ।
त्वमिति चैतेन सर्वनाम्ना 'त्वमिन्द्र वलादधि विन इन्द्र मृधौ जहि,
कुसिकाश्चेतयध्वम्' । शपथाभिशापयोरुदाहरणम्-'अद्यामुरोय यदि यातु
धानो अस्मि (ऋ० सं० ७।१०४।१५) राक्षस इत्यभियुक्तः। सोऽनया
ऋचा शपं प्रतिपेदे । परश्चाभिशापात् । अथापि परिदेवना-'सुदेवो
अद्य प्रपतेदमावृत् परावतं परमां गन्तवा उ । अधाशयीत निर्ऋते
रुपस्थेऽधैनं वृका रभसासो अद्युः ॥” (ऋ० सं० १०।९५।१४)
पुरूरवस आर्षम् ।
निन्दा-'मोघमन्नं विन्दते' (ऋ० सं० १०।११७।६)
प्रशंसा-'भोजाद्याश्वं सम्मृजन्त्याशु' भोजायास्ते कन्या शुम्भ-
माना । भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देव माने व चित्रम् ।।
(ऋ० सं० १०।१०७।१०) द्यूतनिन्दा कृषिशंसा-'अक्षैर्मादीव्यः
कृषिमित्कृषस्व वित्ते रमस्व बहुमन्यमानः । तत्र गावः कितव तत्र जाया
तन्मे विचष्टे सविताय मर्यः ॥' (ऋ० सं० १०।३४।१३)
अत्र सर्वत्रेतिहासस्य वक्तृविशेषस्य च प्रतीयमानेत्वेऽपि सुखाव-
बोधार्थारख्यायिका रूपत्वेन नेतिहासत्वं न वा पुरुषविशेषवक्तृत्वम्
किन्तु तत्तद्रूपधारिण्याः श्रुतेरेव वक्तृत्वम् ।