Skip to content
SarvaKosh
Back to the archive

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

Report a copyright issue

DevanagariHindipublished237 pages

About this granth

Vedasvarupa Vimarsha (वेदस्वरूप-विमर्शः), "an inquiry into the nature of the Veda", is by Swami Hariharananda Sarasvati, known as Swami Karpatri (1907–1982), a leading traditionalist monk and debater of twentieth-century India who wrote extensively in defence of Vedic authority.

The book was edited by Pt. Ramagovinda Shukla and published by the Bhakti-Sudha Sahitya Parishad, Calcutta. The editor's Sanskrit preface explains its aim: to refute, by reasoning and scripture, those who hold the Veda to be partly the work of God or of the seers, those who deny Vedic status to the Brahmanas, and those who read the Veda as coded modern science.

Its sections treat the authorless (apaurusheya) nature of the Veda and the eternity of the word, the standing of both Mantra and Brahmana as Veda, the traditional method of interpretation, and replies to modern objections. It is an important source for the Mimamsa side of twentieth-century debates on Vedic authority.

प्रारंभिक पृष्ठ एवं वेद-प्रतिष्ठा भूमिका

Page 1Permalink

॥ श्रीहरिः ॥
वेदस्वरूप-विमर्शः
★
परमहंसपरिव्राजकाचार्यवर्य्यानन्तश्रीविभूषित-
स्वामिश्रीहरिहरानन्दसरस्वती (श्रीकरपात्र) महाराजैः
प्रणीतः ।
★
सम्पादकः
पण्डितश्रीरामगोविन्दशुक्लः
न्याय-व्याकरण-साहित्याचार्यः ।
★
प्रकाशिका
भक्ति-सुधा साहित्य परिषद
कलकत्ता

Page 2Permalink

( ङ )
किञ्चिन्निवेदनम् ।
वेदाः सर्वस्य लोकस्य कारणानि इत्यामनन्त्याम्नायविदः । वेदादेव
स्थावरजङ्गमात्मकस्य लोकस्य प्रादुर्भावः । तस्यैव सर्वकारणकारणस्य वेदस्य
वास्तविकं स्वरूपं को नाम वक्तुमीष्टे विना तपःप्रभावप्रकाशितत्रिकालेन
पुरुषेण । अत्र पुराणानि, सेतिहासानि दर्शनानि, वेदाङ्गानि च बहुवदन्ति
येनाल्पधियां व्यामोहो नास्वाभाविकः । अतएव परमकारुणिकैः, वेदप्रतिपा-
दितधर्मप्रतिष्ठापनाचार्यैः, अशेषशास्त्राध्ययनबोधाचरणप्रचारणपरैः, युगे
ऽस्मिन् वैदिकधर्मवितानस्याधारस्तम्भैः अनन्तश्रीस्वामिहरिहरानन्दसरस्वती
( श्रीकरपात्री जी ) महाराजैः सर्वोपादेयतामाकलय्य वैदिकमार्गविप्लावन-
पराणां वेदविज्ञानवादिनां, अन्येषां च ईश्वरप्रणीतत्वं ऋषिप्रणीतत्वं चांशतः
वदतां, ब्राह्मणानां च वेदत्वमस्वीकुर्वतां मतानि युक्तिप्रमाणाभ्यां निराकृत्य
वैदिकधर्मस्य मर्माधिजिगांसूनां कृते अयं ‘वेदस्वरूपविमर्शो’ नाम रुचिरो
ग्रन्थः निरमीयत ।
पूज्यचरणाः श्रीस्वामिपादाः १६०५ ईस्वीयवत्सरे उत्पन्नाः ज्योष्पीठाधी-
श्वरशङ्कराचार्यनन्तश्रीस्वामिब्रह्मानन्दसरस्वतीमहाराजसविधे गृहीतसंन्या-
सव्रताः, स्वात्मनोऽलौकिकया प्रतिभया व्याकरणं दर्शनानि चाधीत्य गङ्गातटे
भ्रमन्तः देशस्य प्रतिकोणं गोवधं, धर्मत्यागं, वैदिकधर्मस्य विशृङ्खलतां-
चावलोक्य खिन्न-मानसाः धर्मसंघस्थापनेन यागादिना अपूर्वमुत्पाद्य
वैधानिकेनान्दोलनेन खिन्नमनसामपि हृदये पुनः स्वाज्यप्राप्तेः उत्साहं,
परराष्ट्रे तद्राष्ट्रस्य दुर्भाग्यसूचकं समाजवादशासनं च प्रकटय्य देशस्य
महान् कार्यभारः देशस्य जनतायाः हस्तगतमकार्षुः । अधुना च वेदमागं-
प्रतिष्ठापनाय, गोवधनिरोधाय, देशे विशृ'खलस्य शासनस्य सुस्थिरता सम्पा-
दनाय विविधैरुपायैः प्रयत्नं कुर्वन्तः विराजन्ते ।
एभिः भक्तिमार्गे, ज्ञानमार्गे, राजनीतौ, धर्मनीतौ, वेदमार्गे च वास्तविक-

Page 3Permalink

पृष्ठम् ( ii )

( ii )
कल्याणप्राप्तये हिन्दीभाषायां संस्कृते च अनेके ग्रन्था निबद्धाः । तेषु प्रकाश-
मानास्तु इमे—
१-भगवत्तत्त्व ( हिन्दी ) | १-भक्तिरसार्णवः ( संस्कृतम् )
२-संकीर्तन और वर्णाश्रममर्यादा ,, | २-समन्वयसाम्राज्यसंरक्षणम् ,,
३-रामराज्य और मार्क्सवाद ,, | ३-वेदप्रामाण्यमीमांसा ,,
४-भक्तिसुधा १-३ भाग ,, | ४-वेदस्वरूपविमर्शः ,,
५-वेदकास्वरूप और प्रामाण्य१-२ भाग | ५-महात्रिपुरसुन्दरीवरिवस्या ,,
६-राहुल की भ्रान्ति ,, | ६-विधिनिर्णयः
७-अहमर्थ और परमार्थसार ,,
८-समाधान ,,
९-संघर्ष और शान्ति ,,
१०-जाति राष्ट्र और संस्कृति ,,

अयमस्ति प्रस्तुतः ग्रन्थः वेदस्वरूपविमर्शो नाम । अत्र चत्वारः भागाः
सन्ति । ते यथा—
१-वेदस्वरूपविमर्शः ३-वेदापौरुषेयत्वविमर्शः,
२-वेदप्रामाण्यविमर्शः ४-ब्राह्मणानां वेदत्वविमर्शः ।

अत्र ग्रन्थे वेदविज्ञानसम्बन्धिग्रन्थानां, निबन्धानां, दयानन्दमतानुसारि-
निबन्धानां वेदसम्बन्धिनां तथा युक्तिभिस्तर्कैः प्रमाणैश्चाप्रामाण्यं प्रतिपाद्य
सिद्धान्तपक्षः महताटोपेन विपुलो वर्तते ।

यद्यपि अयं ग्रन्थः श्रीचरणैः पूर्वमेव लिखित आसीत् तथा श्रीस्वामि-
चरणैः रचितग्रन्थसम्पादनपराणां श्रीगोविन्दवैजापुरकरमहोदयानां
सम्पादकत्वे नियुक्तश्चासीत् । तथापि प्रकाशनकर्मणि शीघ्रतामाकलय्य
सबहुमानं कृपया मह्यम् अदायि येनास्य सम्पादनभारः श्रीचरणानामाशी-
र्भिर्मया निव्यूढः ।

सन्मार्गमुद्रणालयव्यवस्थापकाः पं०श्रीनारायणस्वरूपद्विवेदब्रह्मचारिणोऽपि
धन्यवादाहर्हाः । येषां सहयोगेन अयं ग्रन्थः नव्यैः भव्यैश्च शीघ्राक्षरैः मुद्रितः
सहृदयानां पाठकानां मनांसि आवर्जयति ।


पृष्ठम् ( iii )

( iii )
वाराणसेय संस्कृतविश्वविद्यालयसाहित्यविभागाध्यक्षाः साहित्यमीमां-
साचार्याः श्रीमन्तः पट्टाभिरामशास्त्रिमहाभागाः सविशेषं धन्यवादाहर्हाः ।
येन विषयप्रवेशकारिण्या भूमिकया गौरवमानीतोऽयं ग्रन्थः ।

यतिकुलकमलदिवाकराणां सर्वप्रकारेण मयि वत्सलां दृष्टिमादधतां
अनन्तश्रीस्वामिकरपात्रमहाराजानां चरणकमलयोः सप्रणिपातं प्रणम्य
केवलं तदीयोऽहमित्युक्त्यैवात्मानं बहु मन्ये ।

अस्य ग्रन्थस्य मुद्रणालयप्राप्तेः पूर्वं यदपि सम्पादकस्य कृतेऽनिवार्यतया-
वश्यकं भवति तत्सर्वं विद्वद्वराणां श्रीमार्कण्डेयब्रह्मचारिमहोदयानां
सहयोगेन दुर्लभं नाभवत् अतस्तेऽस्मिन् विधौ सगौरवं स्मरणीयाः । अत्र
अवसरे वेदान्तिश्रीसन्तशरणमहोदयाः धन्यवादाहर्हाः येषां प्रकाशनकर्मणि
आवश्यकः सहयोगः उत्साहयति । श्रीमन्तः वासुदेवब्रह्मचारिणोपि धन्यवा-
दाहर्हाः येषामविश्रान्तं प्रवर्तमाना लेखनी सुवाच्यतामनयत् ।

सर्वमप्येतत् कार्यं प्रकाशनायत्तम् विना प्रकाशकेन पाठकानां करसरसी-
रुहेषु समर्पणं दुःशकं स्यात् । अत्र कर्मणि दिल्लीस्थसर्ववेदशाखासम्मेलन-
दत्तार्थसाहाय्येन कलिकातास्थ भक्तिसुधा साहित्य परिषत् सदस्यैः
प्रकाशनस्य भारो गृहीतः । तेपि मुख्यतया धन्यवादभाजो भवन्ति ।
तत्र श्रेष्ठिप्रवरं श्रीहनुमानप्रसादधानुकामहोदयं शुभाभिराशीर्भिः युञ्जन्-
श्रीविश्वेश्वरचरणकमलयोः पुष्परूपेण ग्रन्थमिमं समर्पयामि ।

रामगोविन्दशुक्लः
अनन्तचतुर्दशी
२०२६ विक्रमे ।

Page 4Permalink

प्रस्तावना
अयेदानीं वेदस्वरूपविमर्शाभिधो ग्रन्थः अनन्तश्रीकरपात्रस्वा-
मिभिस्तपोमूर्तिभिर्विरचितः प्रकाशपथमानीयते । बौद्धमतावलम्बिनां
वैज्ञानिकदृष्टिमावहतामाधुनिकानाम् आर्यसमाजान्तर्गतानां विवेच-
कानाञ्च या विचारधारा वेदस्वरूपविषये, साऽत्र स्वामिचरणैः
परिशीलिता वर्तते । स्वामिपादैः परिशीलितविशेषतायाः
प्रतिपादनात्पूर्वं विषयप्रवेशाय किञ्चिद्वक्तुमिच्छामि
आस्तिकनास्तिकभेदेन विभक्तेषु दर्शनप्रस्थानेषु आस्तिकदर्शन-
प्रस्थानानि वेदस्वरूपविषये मतभेदमावहन्त्यपि तत्प्रामाण्यविषये न
तेषां काचन विप्रतिपत्तिः । शब्दस्य पृथक्प्रामाण्यत्वमनङ्गीकुर्वन्तो
वैशेषिका अपि वेदप्रामाण्यं निर्विचिकित्समभ्युपयन्ति । आस्तिक-
दर्शनेष्वेकैकस्य तत्तत्सूत्रकारानुमता स्वस्वदर्शनानुकूला पद्धतिः
मर्यादा च काचन नियता । नियताया अस्याः पद्धतेः मर्यादायाश्च
निर्वाहाय तत्तत्सूत्रकारानन्तरकालीनाः सर्वेऽपि दार्शनिकास्सम्पवृत्ताः।
अमीषां पदार्थेषु तदुपपादकप्रकारेसु तत्प्रामाण्याधायकेषु च प्रमाणेषु
सत्यपि मतभेदे, वेदप्रामाण्यप्रतिक्षेपाय प्रवृत्तानां वेदबाह्यानां मतनि-
रासाय 'अन्यैस्सह विरोधे तु वयं पञ्चोत्तरं शतम्' इति न्यायमवलम्ब-
माना दार्शनिका एकीभवन्ति ।
तत्र मीमांसादर्शनं विहायान्येषां दर्शनानां वेदस्वरूपतत्प्रामाण्य-
प्रसाधनं न मुख्यं प्रमेयम्, किन्त्वानुषङ्गिकम्। यावदेकं सर्वप्रमाणमूर्धन्यं
किञ्चित्प्रसाधितं न भवति तावद्विचर्यमानानां प्रमेयाणां यथार्थं
स्वरूपं न प्रसिध्येदिति हेतोः वेदप्रामाण्याभ्युपगमो दार्शनिकानाम् ।
मीमांसकानान्तु मुख्यं प्रमेयं वेदस्वरूपतत्प्रामाण्यतद्वाक्यार्थप्रसाधनमेव ।
अन्यानि प्रमेयाणि प्रमाणानि चानुषङ्गिकतया मीमांसकैर्विविच्यन्ते ।
अतएव भगवान् महर्षिर्जैमिनिः स्मृत्यधिकरणे स्मृतिग्रन्थानां

Page 5Permalink

प्रातिशाख्यप्रभृतीनां विरचनात्पूर्वमपि पूर्वोक्तस्तन्तु रवि-
Wait, is it "पूर्वोक्तस्तन्तुरवि-" or "पूर्वोक्तस्तन्तुर्वि-"?
Look at line 5: "पूर्वोक्तस्तन्तुरवि-"
च्छिन्न एवासीदित्यत्र न कश्चन संशयः । प्रत्नं किमपि न निर्मितमेभिः ।
Wait, "प्रत्नं किमपि न निर्मितमेभिः" or "नूतनं किमपि"?
Look at the word:
प् - र - त् - नं = प्रत्नं! (Pratnam = ancient/old? Wait, "किमपि न निर्मितमेभिः" - did they create anything ancient? Or "न प्रत्नं किमपि निर्मितमेभिः"?)
Wait! "नूतनं किमपि न निर्मितमेभिः"?
Let's look at the letters:
Is the first letter 'प्र'? No!
Look at 'न':
Does it have a circular loop on the left?
Wait, look at 'प्र' in 'प्रणीताः' (L4), 'प्रभृतीनां' (L5).
Now look at the word in L6:
It starts with 'न' with 'ऊ'-matra? 'नू'?
Wait! Look at the letter:
It has a loop on the left, a horizontal stroke... wait, no, it looks like 'प्र' or 'नू'?
Wait

Page 6Permalink

( ४ )

प्राचीनावीतिनो वा समाचरन्तोऽभवन्निति स्यात् । अतएवमादीनां
ग्रन्थानामाविर्भावात्पूर्वमपि सुदृढः कश्चन सम्प्रदाय आसीदित्यनुमानं
नासङ्गतम् । न च विनिगमनाविरहः, बीजाङ्कुरन्यायेन सम्प्रदायस्य
साधयितुं शक्यत्वात् ।
किञ्च वेदाध्ययनकर्तॄणां भारतीयानां वेदग्रन्थपठितॄणामाधुनिका-
नाञ्च भूयानस्ति प्रभेदः । अध्ययन पठनञ्च नैकरूपे भवतः । गुरुमुखो-
च्चारणानूच्चारणव्यापारेऽध्ययनपदप्रयोगं न्यायविदो मन्यन्ते, पठन-
पदन्तु वर्णवाचनरूपे साधारणव्यापारे । असाधारणाध्ययनव्यापार-
विद्भिरेव चिरन्तनी सा परम्परा ज्ञायेत, न तु केवलं पठितृभिः । निय-
तस्वरवर्णक्रमविशिष्टाया आनुपूर्व्या अधिगमोऽध्ययनव्यापारः, तद्रहिताया
आनुपूर्व्याः शब्दतोऽर्थतो वाधिगमने पठनव्यापारः स्वरवैदिकप्रकरणप्रा-
तिशाख्यलक्षणग्रन्था असाधारणाध्ययनव्यापार एवोपयुज्यन्ते । अथवा ते
ग्रन्था एवाध्ययनस्यासाधारण्यं प्रतिपादयितुं प्रवृत्ताः । 'त्रिनृत्या-
दिर्नित्यम्' इति सूत्रोक्तो नियमोऽध्ययनव्यापार एव समन्वितो भवति,
न केवलं पठनव्यापारे । नियमानां ज्ञानमन्यत्, तेषां परिपालनञ्चान्यत् ।
परिपालयितृभिरेव सा परम्परा संरक्ष्यते न केवलं ज्ञानवद्भिः ।
भूयाननयोर्दृष्टोभेदः ।
एवं सिद्धेऽध्ययनव्यापारस्यासाधारये वेदवाक्यार्थनिर्णयेऽप्यसा-
धारणी सामग्री पूर्वजैः प्रवर्तिता विलसति । 'अज एकपाद् देवः' इति
मन्त्रस्य-'एकपादयुक्तोऽजो मृगः' ( one footed goat ) इत्यर्थं
पाश्चात्यपण्डितो 'ग्रिफिथ' महोदयो निश्शङ्कं ब्रूयात् । कामं वेदानां
सन्निकृष्टकालत्वं कृत्रिमत्वञ्च प्रतिपादयेदजं दृष्ट्वा केनचन मन्त्रोऽयं
विरचित इति ।
'रमयत मरुतः श्येनमायिनं मनोजवसं वृषणं॒ सु॒वृ॒क्तिम् ।
येन शर्ध उग्रमवसुष्टभेति तदश्विना परिधत्तं॒ स्वस्ति' ।।
इति कश्चन मन्त्रः ( तै० सं० २-१०७ )
हे मरुतः यूयमतिवेगेन समायान्तं पुरोवातं तथा क्रीडयत यथा
पश्चाद्दिवातस्य निरोधस्स्यात् येन मेघेभ्यस्तीव्रधारारूपेण पतञ्जलं


( ५ )

ग्रीष्मेणातिसन्तप्तामिमां पृथिवीं प्राप्नुयात् । तदिदं जलं हे अश्विनौ
पृथिव्याः क्षेमकरं यथा स्यात्तथा परितो धारयतम् इति तस्यार्थः ।
इममर्थमवगत्य पाश्चात्यः पण्डितः तदन्तवासिनश्च भारतीयाः
कतिपय एव ब्रूयुः-यत् पश्चाद्वातो ग्रीष्मवर्धको वृष्टिप्रतिबन्धकश्च,
पुरोवातश्च ग्रीष्मशामको वृष्टिप्रदश्चेति प्रकृतिसिद्धां स्थितिमनुभूय कश्चन
कृषको मन्त्रमिमं व्यरचयदिति ।
'नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे ।
भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरति दीर्घमायुः'।।
[

Page 7Permalink

[पृष्ठ ६]

(( ६ ))

नुसारेण मन्त्रा एकीकृता इति सन्देहे-मन्त्रा एव प्रथमं रचिताः
अनन्तरं ब्राह्मणानीति द्वावब्रूयाद्वैदेशिको विमर्शकः । यस्य च मते
सृष्टेरादौ लब्धजन्मानो मानवाः पशुतुल्या आसन् । तृणानि पर्णानि
च खादन्तस्ताम्येव च वसानाः संस्कृत्या सभ्यतया वा विहीनाः
अभवन्, क्रमेण विकसिताश्चाभूवन्निति हि सिद्धान्तः । सृष्टिशब्दः
प्रलयशब्दो वा सापेक्ष इति न तस्य बुद्धौ समारोहति । प्रलयं
गतस्यैव सृष्टिः, सृष्टस्यैव प्रलय इति न स समालोचयति । यदि
समालोचयेन्न तर्हि संहिताब्राह्मणयोः पौर्वापर्यम् । प्रलयकाले येषां
प्रलयस्तेषामेव सृष्टिरिति कुतः पौर्वापर्यम् । सृष्टिश्च प्रलयश्चेति
द्वावपि नेष्येते यदि, न तर्हि साधयितुं शक्यमनयोरादिमत्त्वम् । मन्त्र-
ब्राह्मणपाठयोः प्राबल्यदौर्बल्यविचारावसरे मीमांसकाः मन्त्रपाठस्यान्त-
रङ्गत्वं ब्राह्मणपाठस्य च बहिरङ्गत्वं व्यवस्थापयन्ति । इमे चान्तरङ्गत्व-
बहिरङ्गत्वे पाठयोरेव न मन्त्रब्राह्मणयोः । मन्त्रैर्विना ब्राह्मणानां
ब्राह्मणैश्च विना मन्त्राणां स्वरूपलाभो दुष्करः । भागद्वयमपि
बध्नन्त्येकेन सूत्रेण श्रौतस्मार्तकर्माणि । तेषाञ्चानुष्ठानाय मानवाः ।
मानवानां कर्मणाञ्च यथाधिकारं नियतस्सम्बन्धः । तानि कर्माणि
भवन्तु शारीरिकाणि मानसानि वाचिकानि वा । सर्वविधैरपि तै-
र्मानवानां नियतस्सम्बन्धः । आत्मचिन्तनं क्रियताम् देवा वा
यागादिभिराराध्यन्ताम् जप्यन्तां वा मन्त्राः, सर्वत्र तेषां प्रयोगा-
वगमो ब्राह्मणाधीनः । प्रयोगश्च मानवाधीनो मन्त्रसाध्यश्चेत्ययं
याज्ञिकानां मीमांसकानाञ्च राजमार्गः । अनादी यथा सृष्टिप्रलयौ
तथैव मन्त्रब्राह्मणकर्ममानवानां मिथस्सम्बन्धोऽप्यनादिः । क्व-
चित्कदाचिन्मानवाः कर्मरहिता अभवन् । कर्माणि मन्त्रविहीनान्यासन्
मन्त्राश्च ब्राह्मणसम्बद्धा नाभूवन्निति साधनं दुःशकम् । विदेशीयास्तु
विमर्शका नेमां परम्परामङ्गीकुर्वन्ति, नाप्यत्र विश्वसन्ति, न चाप्ये-
तादृशेषु अलौकिकफलजनकेषु कर्मसु श्रद्दधते । तेषां मन्त्रेषु
ब्राह्मणेषु च पदपदार्थसम्बन्ध एव मनः प्रसरति । तद्बलेन ते
वेदस्यापौरुषेयत्ववचनं वैदिकानां श्रद्धाजाड्येन वा प्रामाण्याभिनिवेशेन


[पृष्ठ ७]

( ७ )

वा सर्वविश्रम्भस्वभाव्येन वेति निरर्गलं ब्रूयुः, किन्तु तेषां तस्य
पौरुषेयत्वकथनं विपरीताश्रद्धाजाड्येन वा अप्रमाण्याभिनिवेशेन, वा
सर्वाविश्रम्भस्वभावेन वेति पर्यनुयोगे किं समाधानं स्यात् । तत्र
नान्यतरपक्षपातो विना प्रमाणं विमर्शकानां युज्यते ।
तत्रापौरुषेयत्वे वेदानां कि प्रमाणम् ? पौरुषेयत्वे प्रमाणाभाव एव ।
न हि तत्र प्रत्यक्षं न वा शब्दः । अनुमानन्त्वप्रयोजकमिति स्वयं सूत्रकारः
प्रतिपादयति । यथेदानीं वयं तथैव प्रागपि सर्वे न जानन्ति स्म कदा
कुत्र को वेदभाग आत्मानमाविश्चकारति । अद्यत्वे च पश्याम
आचार्यमुखादधीत्य वेदमधिगच्छन्तीति । तथैव सर्वदाऽयं क्रमो
बभूव । अनित्यत्वं तस्य साधयितुमैदम्पर्य वहन्तोऽपि अन्ततो गत्वा
ईश्वरकर्तृकत्वमेव प्रतिपद्यन्ते । अयमेव हांशः प्रमाणीभवति सुबहोः-
कालात्पूर्वमपि वेदस्य न कश्चित्कर्तृत्वेन मनसापि ध्यात इत्यस्मिन्
विषये । कथं नाम शब्दसन्दर्भेण सता केनचिदकर्तृकेण भवितु
शक्यमिति वैदिकसम्प्रदायबाह्यानामाक्षेपः । शब्दश्च नित्यश्चेति
विषयोऽयं न तेषां बुद्धिमारोहति । तत्रालोच्यमाने
कारणमेतत्स्यादिति मन्तुमस्त्यवसरः । इह लोके परं यदावश्यकं
मनुष्योचितं साधारणधर्मजातं तत्रैव चिराद्विरचितश्रमाणां तेषां
मनुष्यजन्मनः पूर्वभूतं पश्चाद्वा भावितं विषयं प्रति मनो व्यापार-
यितुं नासीत्कश्चनावसरः, नासीत्कोऽपि प्रामाणिक सम्प्रदायः ।
मतविशेषमवलम्ब्यापि तत्प्रबन्धप्रतिपाद्येषु न तावन्तं विश्रम्भं
गौरवविशेषं वा ते बिभराम्बभूवुः, यदन्वहं ते प्रत्यक्षमैक्षन्त एकैकं
वस्तुद्भवति क्रमेण वर्धतेऽन्ततो नश्यतीति, तदेकवासनारूपितधियां
नैव तेषां प्रसक्तिः, कदाचिदाविरासीन्नित्यमपि किमपि स्यादिति
मनसि कलयितुम् । वेदापौरुषेयत्वतत्प्रामाण्यविषये पूज्यपादैः स्वामि-
चरणैः तत्तत्परिच्छेदे न केवलं शास्त्रसम्बन्धीनि प्रमाणानि प्रदर्शितानि;
किन्तु परेषां युक्तिराशयञ्च विज्ञाय तान्नानूद्य तन्निरासाय परस्सहस्रं
युक्तयस्सम्प्रदर्शिताः सुनिश्चितमिदमङ्गीकर्तव्यम्-यदविदितेदमप्रथम्-
ताकात्कस्मादपि कालादारभ्य अथवा आ च भगवतः प्रथमायास्सृष्टेरा

Page 8Permalink

श्शब्दा" -> look at: इ - त्य - द - य - श् - श - ब्दा = "इत्यदयश्शब्दा" (typo in original for इत्यादयः शब्दाः). Yes, 'इत्यदयश्शब्दा'!
Wait, "अध्ययनोध्यापनसौकर्याय" -> look at 'नो': 'अध्ययनोऽध्यापन...' or 'अध्ययनोध्यापन...'? It's 'अध्ययनोध्यापनसौकर्याय'.

Let's check line 31:
भवति । प्रथमं श्रुत्यकेगोचरा ये शब्दराशयोऽभवन् श्रुतिशब्दवाच्याः
Wait, "श्रुत्यकेगोचरा" -> look at: श्रु - त्य - के - गो - च - रा -> wait, is that 'श्रुत्येकगोचरा'?
Look at 'त्य': it has an e-matra? No, the e-matra is on 'क': 'के'? Wait, or is it 'श्रुत्येकगोचरा'?
Look at 'त्य': त्य. Then 'के'? No, 'त्ये' + 'क'! The e-matra is on 'त्य': 'त्ये' + 'क' = 'श्रुत्येकगोचरा'!
Wait, look at line 31:
श्रु - त्ये - क - गो - च - रा. The slant line is over 'त्य'! So it is `श्रुत्येकगोच

Page 9Permalink

[पृष्ठ १०]

रायां सत्यां पुस्तकयुगान्तर्गता अद्यजाता वद्याजाता विमर्शकाः
मण्डलेषु काण्डेषु च पुस्तकत्वभ्रान्त्या वदन्ति-यदॄग्वेदस्य प्रथमं
दशमञ्च पुस्तकमर्वाचीनम्, इतराणि च पुस्तकानि प्राचीनानीति ।
एतेषां कथनानुसारेण दशमं मण्डलमर्वाचीनमिति स्वीकारे
एकत्रैव ऋतौ द्वितीयतृतीयादिमण्डलगतसूक्तानां विनियोगो
यथा ब्राह्मणेन क्रियते, तथैव दशममण्डलगतसूक्तानामपि तस्मिन्नेव
ऋतौ ब्राह्मणेन विनियोगः कृतो दृश्यते । तत्र वक्तव्यं भवेत्-यद्दशम-
मण्डलविरचनानन्तरमेव ब्राह्मणाविर्भाव इति । तदत्र संहिता-
ब्राह्मणयोः पौर्वापर्यं न भवितुमर्हतीति पूर्वमवोचम् ।
किञ्च ब्राह्मणग्रन्थेषु मतान्तरखण्डनपराणि वाक्यानि बहुलमुपलभ्य
तत्र पौर्वापर्यं केचन कल्पयन्ति । शाखायन्थेष्विव ब्राह्मणग्रन्थेष्वपि
'तद्वैके' 'तदुचैकै' 'तदु तथा न कुर्यात्' 'तन्नादर्तव्यम्' इत्येवमाद-
यस्सर्वेषु ब्राह्मणग्रन्थेषूपलभामहे । तानिमान् सन्दर्भान् पश्यतस्सर्व-
स्यापि बुद्धिरियमुदियादेव-यदत्र पौर्वापर्यं सुनिश्चितमेवेति । कानि चन
स्थलान्यत्रोदाहृत्य विमृशामः । शतपथब्राह्मणे 'तद्वैके स्रुक्सम्मार्ज-
नान्यग्नावभ्यादधति .... तदु तथा न कुर्यात् ..... तस्मादु
परास्येदेवैतानि' (श. ब्रा. १।२।४।११) इति । दर्शपूर्णमासयोः
स्रुचां जुहूपभृद्ध्रुवाणां वेदाग्रैस्सम्मार्जनं विहितम्- 'स्रुचस्सम्माष्टि'
इति । वेदस्य दर्भमुष्टिविशेषस्याग्रभागाः सम्मार्जनानि । तैस्सु-
चस्सम्मूज्य तानि केचन शाखिनोऽग्नौ प्रक्षिपन्ति, तत्तथा न कर्तव्यम्,
किन्तु तानि निरस्येदेवेति ब्राह्मणस्यार्थः । एवम् 'अश्वशफमात्रं कुर्या-
दित्यु हैक आहुः । कस्तद्वेद यावानश्वशफः, यावन्तमेव स्वयं मनसा
न सत्रापृङ् मन्येतैवं कुर्यात्' (श. ब्रा. १।१।६।१०) दर्शपूर्णमासयोः
पुरोडाशपरिमाणं कियद्भवेदिति विचारे केचनाश्वशफमात्रं भवेदिति
वदन्ति, तदिदं दुर्ज्ञेयमश्वशफः कियान् भवेदिति । अतः प्रधानयाग-
साधनाय यत्परिमाणं पर्याप्तं भवेदिति मन्येत तावत्सम्पादनीयमिति
ब्राह्मणार्थः । एवमादीनि खण्डनानि संख्यातीतान्युपलभ्यन्ते शतपथ-
तैत्तिरीयैतरेयादिब्राह्मणग्रन्थेषु । सत्यमेवञ्जजातीयकानि स्थलानि


[पृष्ठ ११]

भ्रमसमुत्पादकानि । भ्रमन्निवृत्तये धीरैरत्र विमर्शः कर्तव्यः । अवि-
च्छिन्नपरम्परावगन्तार एवात्र समर्था भवितुमर्हन्ति, न तु पाश्चात्या-
स्तदनुयायिनो वा । तत्र शतपथब्राह्मणानि प्रायः तैत्तिरीयशाखां
विषयीकुर्वन्ति इति प्रतीयते । नैतावता शतपथब्राह्मणस्य तैत्तिरीय-
शाखापरिवर्तित्वं निर्णतुं शक्यम् । तैत्तिरीयशाखायामपि शतपथ-
ब्राह्मणविषयाणां खण्डनमुपलभ्यते । अत्र कथमस्माभिर्निर्णतुं
शक्यम् यच्छतपथब्राह्मणं परिवर्ति तैत्तिरीयब्राह्मणं वेति ।
तैत्तिरीयशाखायां-'स्रुक्सम्मार्जनान्यग्नो प्रहरति .... तान्येके वृथैवा-
पास्यन्ति, तत्तथा न कार्यम् .... तस्मादेतान्यग्नावेव प्रहरेद्' (तैं. ब्रा.
३।३।२) इति वाक्यं स्पष्टमेव शतपथविषयं खण्डयत् स्वमतं सम्मार्जनीना-
मग्नो प्रहरणमुपसंहरति ।
एवं पुरोडाशपरिमाणमश्वशफमात्रं स्वीकुर्वाणास्तैत्तिरीय-
शाखिनः 'यावन्तं वा मन्येत त न सत्रापृञ्च करोतीत्येके'
(आप. श्रौ २।२५।५।६ ) इति कल्पान्तरमपि निर्दिशन्ति । यद्यपीदं
श्रौतसूत्रं शतपथब्राह्मणपरवत्यैव, तथापि कृष्णयजुर्वेदीयशाखान्तरग-
तपरम्परामवलम्ब्यैव मतान्तरमापस्तम्बाचार्य उल्लिखतीत्यभ्युप-
गन्तव्यम् । प्रायः शुक्लयजुर्वेदशाखागतान् विषयान् 'इति वाज-
सनेयकम्' इति 'माध्यन्दिनम्' इत्येवापस्तम्बो निर्दिशति । अत-
एवमादयो विषया नूनं विमर्शयोग्याः ।
तदत्रैवमभ्यूहितुं शक्यते यदासीत्कञ्चन समयः, यत्र ब्रह्मवादिनो
महर्षयः मिथस्सम्भूय गोष्ठीं कुर्वन्त एवमादीन् विषयान् विचारया-
म्बभूवुः । विचार्य निर्णीतानां विषयाणामनुष्ठानेनाध्यापनेन च
तान् यथावत्परिपालयाम्बभूवुः । सततं तेषामिदमेवैक मुख्यं
कार्यमभवत् । विचारगोष्ठीषु सादरं सगौरवञ्च पूर्वजानां नामानि
वसिष्ठभरद्वाजविश्वामित्रादीनि निर्दिदिशुः । अनन्तासु वेदशाखासु
अध्ययनाध्यापनपरम्परायां सम्मिलितासु तदनुसारेण श्रौतस्मार्त
कर्मस्वनुष्ठानपथमवतीर्णेषु विचारसरणिरियं तेषां नासङ्गता
भवितुमर्हति । परम्परागत विचाराणामेवेदं रूपान्तरं यद्ब्राह्मणं
नाम । यथा ऋषीणां निरतिशयमननव्यापारफलं मन्त्राः तथैव

Page 10Permalink

( १२ )
तेषामनितरसधारणगोष्ठीस्मरणपरिणामो ब्राह्मणम् । लिपि-
निबद्धत्वं तु मन्त्राणां ब्राह्मणानाञ्च नासीदिति कश्चन काल एतादृश
एव । सर्वेऽपि विषयाः श्रवणेनैवावधार्यन्ते स्म । ब्रह्मचर्ये चिरकालस्थि-
तानां तेषां महीयसी खलु स्मरणशक्तिः अतएव श्रुतिरिरति नामान्तरं
संहिताब्राह्मणयोस्सङ्गच्छते । एतेन कल्पसूत्राधिकरणे पूर्वपक्षस्सहेतु-
कसिद्धो भवति । अनेन यथा विमृश्यमाने नून प्राचीनपरम्परासिद्ध
वस्तु निर्गलित स्यात् ।
किञ्च पूर्वोत्तरमीमांसे वेदवाक्यार्थनिर्णयायैव सम्प्रवृत्ते इति
जगत्प्रसिद्धमिदम् । महर्षिणा जैमिनिना व्यासाचार्येण वा यानि सूत्राणि
सन्दृब्धानि तानि वेदवाक्यगर्भीतानि इति तच्छास्त्रविदो जानन्ति ।
तत्र पूर्वमीमांसायां प्रायोऽधिकरणेषु विधिवाक्यान्यर्थवादवाक्यान्ये-
वोदाहृत्य विचारः प्रवर्त

Page 11Permalink

यथाप्रतिपादित पाठ प्रस्तुत है:

पृष्ठ १४

णवाक्ये पूर्वोक्तान्यतमव्यञ्जकत्वं दुरुपपादम् । अपां रजोधमंत्राभिः
वायोश्च तत्सङ्गमः वामस्य धनस्य समुत्पत्तिः, तस्य च देवसम्बन्धित्व-
मित्यस्मिन्नर्थे न तात्पर्यम्, किंतु 'वामदेव्यम्' इति शब्दनिवर्चनाये-
वायं निगमः प्रवृत्तः । निर्वचनेन सिद्धस्य शब्दस्य सामविशेषोऽर्थः ।
अत्राश्लीलस्य कावसरः ।
एवं संवादरूपेण प्रवृत्तेषु मन्त्रेषु वैषयिकानर्थानुपलभ्य तत्रानन्द-
रतां प्रकटयन्तः केचन ऋक्संहितायाः प्रथममण्डलस्यैकोनाशीत्युत्तर-
शततमं सूक्तं षडृचमुदाहरन्ति । अनुक्रमणिकाकारः कात्यायनः
ऋक्संहितागतानां समेषां मन्त्राणां सूक्तानाञ्च ऋषि छन्दः देवतां
विनियोगञ्च यथायथं प्रदर्शयतीति प्रसिद्धमिदम् । इमान्येव सूत्राण्य-
वलम्ब्य मन्

Page 12Permalink

( १६ )
तदयमत्र निष्कर्षः - भ्रमप्रमादविप्रलिप्सादिपुरुषदोषासंस्पृष्टा अपौ-
रुषेया वेदाः, प्रामाण्यञ्च तेषां स्वत एव, 'मन्त्रब्राह्मणात्मकत्वं वेदा-
नाम्', यथाऽऽनुपूर्व्या प्रथममेव सिद्धा मन्त्रास्तेषामेव निरति शय-
ननव्यापारेण दर्शनमृषीणामभवत्, ब्राह्मणभागा अपि अना-
दितः कालानपरम्पराप्राप्तविचाराणामवद्योतकाः, संहिताया ब्राह्म-
णस्य च नष्टाश्वदग्धरथन्यायेन मिथस्सम्बन्धः, ऋषयश्च लक्ष्यैक-
चक्षुषः, क्वचिदर्था अपि शब्दाननुधावन्ति, वेदवाक्यार्थावधारणाय
निगम Coach निरुक्तव्याकरणानुक्रमणिकामीमांसान्यायादिसव्यपेक्षता, एतद-
विरोधेन निर्णीत एव वाक्यार्थ उपादेय इति । तदिदं सर्वं
समवेक्ष्य स्वामिवरैर्ग्रन्थोऽयं प्रणीतः। तमिमं सर्वमवबोध्य प्राचीनं
सिद्धान्तमवधारयन्विति सर्वानभ्यर्थयते ।
विदुषामाश्रवः
भाद्रपद शुक्ल. १५ पट्टाभिरामशास्त्री
सं० २०२६
वाराणसी।
विषय-सूची
१-वेदस्वरूपविमर्शः १-२६४
बेदानामनादित्वम्, वेदशब्दार्थनिरुक्तिः, वेदानामानन्त्यम्,
इन्द्रियाणां प्राप्यकारित्वम्, वेदविज्ञानवादः
मन्त्रार्थविचारः, वाकत्रित्वम्, शरीरे क्रियाद्वैविध्यम्,
वैज्ञानिकाथंपरीक्षणम्, शब्दब्रह्मवादः, वेदे ऐतिहासिक-
घटनाक्रमः, जातिवादः, प्राकृतयज्ञवादः ।
२-वेदप्रामाण्यविमर्शः २६५-३७३
वेदस्येश्वरसत्त्वसमर्थनम्, प्रमाणानां स्वतःस्वपरतस्त्वे,
बुद्धस्य सर्वज्ञत्वनिरासः, तर्काप्रतिष्ठानम्, वेदस्य नित्य-
त्वसमर्थनम्, वेदाध्ययनाधिकारिनिरूपणम् ।
३ - वेदापौरुषेयत्वविमर्शः ३७४-४२०
अपौरुषेयत्वसमर्थनम्, ईश्वरस्य स्मर्तृ त्वकथनम्,
वाचक.ाकथनम्, नैयाकरणमतकथनम् ।
४ - ब्राह्मणानां वेदत्वविमर्शः ४२१-४४७
ब्राह्मणानां वेदत्वसमर्थनम्, कात्यायनपरिशिष्टस्य तत्कर्तृ कत्व-
समर्थनम्, व्याकरणमतम्, महाभाष्ये विरुद्धवाक्यानां समन्वयकरणम् ।

Page 13Permalink

इत्यादृत्यैव / इत्यादायैव / इत्याद्यादृत्यैव:
Letters:
इ (i)
त्या (tyaa)
द (da) with what?
Wait, after त्या, there is:
द (da) with ृ (ri) = दृ?
Wait, is it "इत्यादृत्यैव" or "इत्यादायैव"?
Look at:
इ (i)
त्या (tyaa)
दृ (dri)
त्यै (tyai)
व (va)
Wait, let's look at the letters between त्या and व:
There is:
दृ (dri)? No, there is दा (daa)?
Wait! Is it "इत्यादृत्यैव"?
Let's count characters:
इ, त्या, ?, ?, व
Wait!
इ (i)
त्या (tyaa)
द (da) with ृ (ri) -> दृ
त्य (tya) with ै (ai) -> त्यै
व (va) -> व
"इत्यादृत्यैव" = इति + आदृत्य + एव!
"आदृत्य" means "having respected / regarding / taking pride in / having honored"!
"अस्यस्माकं वेदराशिः इत्यादृत्यैव स्वीयं गौरवं जगति भारतीयाः समुद्घोषयितुं प्रभवन्ति ।"
"इत्यादृत्यैव" - इति + आदृत्य + एव!
Let's check if there is an extra 'दा':
No, it's

Page 14Permalink

२ वेदस्वरूप-विमर्शः
यते इति ज्ञानम्, ज्ञानसाधनम्, ज्ञानकर्म, ज्ञानाधिकरणम् ; सत्ता,
सत्तासाधनम्, सत्ताकर्म, सत्ताधिकरणम् ; स्थितिः, स्थितिसाधनम्,
स्थितिकर्म, स्थित्यधिकरणञ्चेत्यादि सर्वं वेदशब्दार्थतया व्याख्यातुं
शक्यते । तत्र ग्रन्थात्मकैषु वेदेषु शाब्दज्ञानसाधनत्वमेव समन्वयायन्ति
प्रायेण विद्वांसः । अन्वेषणप्रक्रियया परिशील्यमाने तु सर्वविधज्ञान-
साधनत्वम्, ज्ञानरूपत्वम्; सत्तासाधनत्वम्, सत्तारूपत्वम् ; स्थितिसाध-
नत्वम्, स्थितिरूपत्वम् चेत्याद्यपि वेदशब्दार्थे समन्वितं भवति ।
अत्रोच्यते - यद्यपि 'सर्वे सर्वार्थवाचकाः' इति कामदोग्धृत्वात्
शब्दानां व्याकरणकोषादिबलाच्चानेके विलक्षणाश्च वेदशब्दार्थाः संभ-
वन्ति; तथापि 'योगाद्रू ढिर्बलीयसी' इति नयेन योगरूढार्थ एव स्वाभा-
विकः । विनोदाय तु यथार्थं कामं गृह्णन्त्वन्वेष्वर्थाः । प्रसङ्गानुसार-
मन्यार्थोऽपि । एकश्च वेदशब्द आद्युदात्तः शब्दराशेर्बोधकः; अपरश्च
अन्तोदात्तः कुशमुष्ट्यादेर्बोधकः 'वेदं कृत्वा वेदिं करोति' इत्यत्र । अत
एव उब्छादिगणो ऋष्पादिंगणे च वेदशब्द उभयत्र पाणिनिना पठितः ।
अत एव मन्त्रब्राह्मणात्मकशब्दराशावेव मुख्यो वेदशब्दः । स एवार्यजातेः
सर्वस्वम् । तन्मूलिकैव भारतीया संस्कृतिः । तमेवाधारीकृत्य ज्ञानविज्ञा-
नादिकर्माणि साधयितुं महतां प्रयत्नः । शब्दराश्यात्मकं वेदमनाश्रित्य तु
पूर्वोक्तव्युत्पत्तिलभ्यमेकमप्यर्थं कश्चिन्न साधयितुं शक्नोतीति स एव
मुख्यशब्दार्थोऽभ्युपेतव्यः ।
अनन्ता वै वेदाः
यदपि - "भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास । तं ह जीर्णं
स्थविरं शयानमिन्द्र उपव्रज्योवाच - भरद्वाज यत्ते चतुर्थमायुर्दद्यां
किमेतेन कुर्या इति । ब्रह्मचर्यमेवैतेन चरेयमिति होवाच । तं
ह त्रीन् गिरिरूपान विज्ञातानिव दर्शयाञ्चकार । तेषां हेकैकस्मा-
न्मुष्टिमाददे । सहोवाच भरद्वाजेत्यामन्त्र्य-वेदा वा एते । अनन्ता वै
वेदाः । एतद्वा एतैस्त्रिभिरायुर्भिरन्ववोचथाः' इति ।
(तै० ब्रा० ३ । १० । ११ । ३-४ )


वेदस्वरूप-विमर्शः ३
नहि इदानीमुपलभ्यमाना वेदा अनन्ताः सन्ति । तस्माद्दिज्ञायते
"यत्किमपि तत्त्वान्तरमेव वेदपदव्यपदेश्यं यदनन्तं भवतीति" उच्यते ।
तन्न; 'भरद्वाजो ह' इत्यादिसमुद्धृतवचनविरोधात्, शब्दराश्यात्मक-
वेदाध्ययनार्थमेव ब्रह्मचर्यग्रहणविधिप्रसिद्धिभ्याम् । किञ्च 'अन्ववोचथा'
इत्यनुवचनस्य शब्दराशिग्रहण एवाञ्जस्यम् । नहि तत्त्वान्तरस्य तन्
सम्भवति । न चोपलभ्यमानस्य वेदस्यानन्त्यं नास्तीति वाच्यम् ; देव-
र्ष्यादिग्राह्यस्य वेदस्यानन्त्ये बाघाभावात् । अद्यत्वे तु मानवबुद्धिग्राह्याणा-
मपि सहस्राधिकशाखानां विपरिलोपो दृश्यते, महाभाष्यकारादिभि-
र्वेदस्य एकत्रिंशदुत्तरैकादशशतशाखानां चर्चितत्वात् । देवादिबुद्धि-
ग्राह्यास्तु वेदा अनन्ता एव । अत एव -
'इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः ।'
इति वचनं श्रूयते ।
अपि च-अनन्तप्रपञ्चस्रष्टेः ईश्वरज्ञानपूर्वकत्वेन तदनन्तज्ञानेष्वनु-
विद्धानां शब्दानामानन्त्यम्-
'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।'
इति अभियुक्तोक्तेः । अत एव ईश्वरीयनित्यानन्तज्ञानेषु अनुविद्धाः
शब्दरूपा वेदा अपि नित्या अनन्ताश्चेति सर्वमनवद्यम् । अत एव च
'वेदैरेव ब्रह्मा सृष्टि करोति' इति श्रुतिस्मृतिषु, पुराणेषु, च प्रसिद्धिराञ्ज-
स्येनोपपद्यते । नात्र वेदशब्दव्यपदेश्यं किमपि तत्त्वान्तरं निर्दिष्टम् ,
'वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे', 'शब्द इति चेन्नातः
प्रभवात् प्रत्यक्षानुमानाभ्याम्' इति 'शब्द'पदनिर्देशात् । अत एव
'भूरिति व्याहरत्, तस्माद्भूमिमसृजत' इत्यादिभिः शब्दव्याहरणपूर्विका
सृष्टिः श्रूयते । यथा लोके कुलालो घटशब्देन घटं स्मृत्वा दण्डचक्रादि-
व्यापारेण तं सृजति तथैव परमेश्वरोऽपि तैस्तैः शब्दैस्तांस्तानर्थान्
स्मृत्वा सृजति ।
ऋचोमयः सूर्यः
एवमेव "वेदैरशून्यैस्त्रिभिरेति सूर्यः" इत्यपि नानुपपन्नम् । त्रयीप्रोक्त-
कर्मफलात्मकत्वात् सूर्यस्त्रिभिरशून्यः स्यादिति युक्तमेव । सवनप्राधा-

Page 15Permalink

[पृष्ठ ४]

४ वेदस्वरूप-विमर्शः
स्यात् कर्मणां प्रातरादिभेदेन ऋगादिमत्त्वम्, तत्त्वान्तरैरपि कथमशून्य-
त्वव्यवस्था सूर्यस्य सेत्स्यति। अत एव च सूर्यस्य त्रयीमयत्वम्।
यदुक्तम्-
"ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्येऽह्नः।
सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः ॥"
(तै० ३।१२।९।१)
इति श्रुतिः आरम्भमध्यान्तिमानां भागानामृग्यजुःसामत्वमाम्नाती"ति।
तदपि न युक्तम्; दिवसस्य पूर्वाह्नादिभागेषु सूर्यस्य ऋगादियुक्तत्वो-
क्त्या भागत्रयस्य ऋगादित्वात्सिद्धेः। नहि 'मध्याह्ने छत्रधर' इत्युक्त्या
मध्याह्नस्य छत्ररूपत्वं वक्तुं शक्यम्।
सायणीयो मन्त्रार्थस्तु-'दिवि वर्तमान आदित्यो देवः पूर्वाह्णे
काल ऋग्देवताभिः सह

Page 16Permalink

६ वेदस्वरूप-विमर्शः

शरीरस्योपभोगसाधनतया शरीराद्बहिर्गतमपि चक्षुर्ज्ञानाख्यं
भोगं जनयतीति न बुद्धाववागच्छति। निर्गत्य दूरं गतस्य चक्षुस्तत्प्रदेश-
स्थान् लघूनन्यानपि पदार्थान् कुतो न गृह्णाति ? शक्तिस्स्वस्य तादृशी
यत्सूर्यमण्डलपर्यन्तमपि गत्वा सूर्यमण्डलमपि दर्शयति, परं तत्रस्था-
नन्यानर्थान्न दर्शयति। यथा दूरस्थं पर्वत पश्यामस्तथा तत्रैव स्थितानि
लघूनि तृणान्यपि कुतो न पश्यामः ? चाक्षुषो रश्मिरेव कश्चित् प्रयाति,
न सर्वं चक्षुरिति चेत्; समीपेऽपि वस्तुनि चाक्षुषो रश्मिरेव गच्छति,
तत्र कुतः सूच्यादीन्यपि पश्यति ? दूरस्थञ्च वस्तु बृहदतिलघु कुतः
पश्यामः ? चक्षुषोऽङ्गुल्यादिना पीडने यः पदार्थो यत्र स्थितस्तस्मात्
किञ्चिद् दूरे अथ उच्चैस्तिर्यग्वा दृश्यते, तत् कुतः ? चाक्षुषो रश्मिरेव
तत्र तिर्यग्भूत इति चेदास्तां तत्, परं यत्र रश्मिर्गतस्तत्र पदार्थ एव यदा
न विद्यते तदा कथं दृश्यते" इति। तन्न; शरीरावच्छिन्नस्यैव भोक्तृत्वे-
नादोषात् । तथा हि—चक्षुषो विषयसमर्पकतया बहिर्गमनेऽपि 'सूर्य-
मण्डलज्ञानवानहमिति ज्ञानवत्त्वं ज्ञानाधिकरणस्य शरीरावच्छिन्नस्य
आत्मन एव सम्भवति।
यदुक्तम्—"सूक्ष्मस्य मनसो हृदयस्थत्वेन तत्सहयोगाभावान्न
बहिर्गतेन चक्षुषा रूपग्रहणं संभवती"ति। तदप्यसङ्गतम्; चक्षुषो
मनोयोगाभ्युपगमेन दोषाभावात् ; दीर्घस्य नेत्ररश्मेर्विषयदेशगमनेऽपि
शरीरसम्बन्धाविच्छेदात् ।
अत एव यदुक्तम्—"मनसो बहिर्गमनमुपहासास्पदम्, मनसो
बहिर्गमने शरीरधारणासंभवादि"ति। तदपि न; 'तन्मनोऽसृजदि'ति
श्रुत्या मनसः कार्यत्वेन नाणुत्वम्, किन्तु मध्यमपरिमाणत्वमेवेति तस्य
तडागोदकस्येव इन्द्रियप्रणालिकया विषयदेशगमनेऽपि शरीरसम्बन्धा-
विच्छेदेन तस्य धारणसंभवात् ।
वेदान्तमतरीत्या चक्षुःप्रणालिकया सूर्यमण्डलपर्यन्तं निर्गतस्यान्तः-
करणस्य विषयस्य चैकदेशस्थत्वेन अन्तःकरणावच्छिन्नविषयावच्छिन्न-
चैतन्ययोरैक्येन प्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वाभावेन विषयज्ञानं

वेदस्वरूप-विमर्शः ७

प्रमातृनिष्ठं भवति, तस्य च देहे प्राकट्यं भवतीति कृत्वैव देहस्य
भोगायतनत्वमुच्यते ।
सांख्ययोग-मतरीत्या तु यथा ग्रामाध्यक्षो ग्रामीणेभ्यः करमादाय
विषयाधिपतये समर्पयति, विषयाध्यक्षो मन्त्रिणे, मन्त्री च सर्वाधि-
पतये तथैवेन्द्रियैर्विषयाश्चित्ताय समर्प्यन्ते, तेन बुद्धयै, सर्वार्थकारिण्या
बुद्ध्या च स्वप्रतिबिम्बिते पुरुषे, प्रतिबिम्बतादात्म्याभिमानेन पुरुषोऽपि
तद्वाराव स्वात्मनि विषयसम्बन्धं मनुते । जबाकुसुमसम्वन्धेन स्फटिक-
लौहित्यमिवेन्द्रियोपस्थापितैर्विषयैः बुद्धेर्विषयाकारता संपद्यते, चिच्छाया-
पन्नायां बुद्धौ विषयोपरागेण चिच्छायाऽप्युपरज्यते । छायायामुपरक्तायां
बिम्बरूपः पुरुषः स्वात्मनि विषयोपरागं मनुते, यथा मलिने दर्पणे
मलिनं प्रतिमुखं दृष्ट्वा मलिनं मे मुखमिति मत्वा शोचति, तद्वत् ।
अत एव यदुक्तम्—"चक्षुषा रूपं प्रकाश्यते, न रूपमानीयते,
तस्मिंस्तच्छक्तेरभावादि"ति । तदपि न; चितेर्निश्चेयप्रायेण वस्तु-
रूपभेदानेतुं शक्यते तदा पदार्थत्वादिनिन्द्रियैर्भोक्तुरर्थे रूपादि समर्पणे-
बाधाभावात् ।
इदमिह ज्ञातव्यम्—कैश्चित्तु गोलकमेव चक्षुरित्युच्यते । तथा हि—
"गोलके चिकित्साप्रयोगाद्विषयोपलब्धैर्गोलकगुणदोषानुवर्तितया कृष्णां
सारगोलकमेव चक्षुः, न तु तेजस्तस्यानुपलभ्यमानत्वात् । वेगवताऽपि
तेजसा योजनशतसहस्रव्यवहितचन्द्रसूर्यतारकादि कथमतिशीघ्रं ग्रहीतुं
शक्येत, कथञ्चाल्पकं नयनं तेजः मिहिरमहसा प्रतिहतं न भवेत् ,
कथञ्च स्फटिकाभ्रान्तरितपदार्थोपलब्धिस्तेन स्यात्।" परमेतन्न सङ्गतम् ;
कुठारादिकारकवदिन्द्रियाणामपि प्राप्यकारित्वेन कृष्णसारगोलके तद-
संभवेन तदनुपपत्तेः । अपि च—न गोलकानामिन्द्रियत्वं संभवति, कर्ण-
शष्कुलीरहितस्यापि सर्पस्य शब्दोपलम्भात् । एवमेव गोलकादिहीनानां
वृक्षाणामपि दर्शनश्रवणाद्युपलम्भाच्च तदनुपपत्तिः । 'तस्मात् पश्यन्ति
पादपाः" इत्यादिशास्त्राणि विज्ञानञ्चाधुनिकमेतमवमानयन्ति। अश्रुष्कस्य
वृक्षस्य छेदनप्रतिषेधेन प्राणित्वावगमाच्च ।

Page 17Permalink

[वाम पृष्ठ / Left page]

८ \hspace{70pt} वेदस्वरूप-विमर्शः
\hspace{20pt} यदुक्तम् — "चिकित्सादिप्रयोगान् कृष्णसारगोलकस्य चक्षुष्ट्वम्"
इति। तदप्यकिञ्चित्करम् ; तस्याधेयमात्रोपकारकत्वात् ।
\hspace{30pt} "चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्तते ।
\hspace{30pt} सोऽयमाधारसंस्कारः आधेयस्योपकारकः ॥" \hspace{20pt} इति ।
कृष्णसारगोलकस्य चक्षुष्ट्वे तस्य विषयैः संसर्गाभावान्न विषयप्रत्यक्षं
स्यात् । तस्मात्तैजसस्य चक्षुषोऽधिष्ठानमेव कृष्णसारगोलकः स्वोपघाता-
नुपघाताभ्यां चक्षुषोऽप्युपघातानुपघातौ जनयति ।
\hspace{20pt} इन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे सति निर्वहति नान्यथा ।
भौतिकानीन्द्रियाणि स्वस्वविषयमधिगन्तुमुत्सहन्ते । गोलकशक्तिरिन्द्रि-
याणीति पक्षो मीमांसकानाम् । ननु न प्राप्यकारित्वं सर्वेन्द्रियाणाम्,
रसनस्पर्शनयोरेव तद्दर्शनात् । चक्षुःश्रोत्रे तु दूरदेशस्थरूपशब्दग्राहके
कथं प्राप्यकारिणी स्याताम् ? घ्राणं तु त्रिपुटिकानिकटनिहितपदार्थ
गन्धमपि गृह्णाति, दूरतोऽपि प्रवहदनिलसमानतमालतोमल्लिका-
यूथिकादिसौरभमुपलभते, निकटनिहितद्रव्येणापि न सन्निकर्ष इत्यप्राप्य-
कारित्वमेव तस्य । तस्माच्छक्तिविशेषणमधिष्ठानमेवेन्द्रियम्, चन्द्रार्क-
ग्राहिणि चक्षुषि नतरां प्राप्यकारित्वमिति चेन्न । कारकत्वेन प्राप्यकारि-
त्वस्यैबौचित्यात् कारकञ्चाप्राप्यकारि चेति चित्रम् । अप्राप्यकारित्वे च
शक्तेर्विशेषात् कुड्यादिव्यवहितमपि वस्तु चक्षुर्गृह्णीयात् ।
\hspace{20pt} यदुक्तम्— "तत्र कार्यानुपलम्भात्र शक्तिः कल्प्यते" इति । तदपि न
क्षोदक्षमम् ; तेजसो द्रव्यत्वाद्व्यवधानानुगुणमेव कार्यकरत्वम्
अमूर्तायास्तु शक्तेर्नव्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयम्,
न शक्तिः शक्तिमदधिष्ठानं वा । श्रोत्रस्यापि प्राप्यकारिता वक्ष्यते ।
घ्राणस्यापि समीरणान्दोलितमल्लिकामानत्यादिपुष्पप्रसृतत्रसरेणुनिकरा-
धिकरणगन्धग्रहणात् प्राप्यकारितैव । न च त्रसरेणुविसर्पणाद् द्रव्यक्षयः,
पृथिव्यापूरकत्वेन त्रसरेणुभूयस्त्वेन च तददोषात् । अत एवाशुचिद्रव्या-
घ्राणेऽपि प्रायश्चित्तान्नानम् । चक्षुषस्तेजःप्रसरणात् प्राप्यकारित्वं, श्रोत्र-
स्यापि शब्दाभिव्यञ्जकध्वनेरुत्पत्तिदेशे गमनात् तादृशस्य ध्वनेः श्रोत्रदेशे


[दक्षिण पृष्ठ / Right page]

\hspace{70pt} वेदस्वरूप-विमर्शः \hspace{70pt} ६
आगमनाद्वा सन्निकर्षस्य सत्त्वान्न प्राप्यकारित्वभङ्गः । त्वग्-रसनयोस्तु
प्राप्यकारित्वे न विवादः । तस्मात् प्राप्यकारीणि इन्द्रियाणीति ।
\hspace{20pt} यदुक्तम् — "अयस्कान्ताञ्जनतिलकमन्त्रादिवदप्राप्तस्यैव ग्राहकं चक्षुः।
तथात्वेऽपि न सकलार्थभासकत्वप्रसङ्गः, योग्यदेशापेक्षणात् । यथा
अयस्कान्तोऽयसोऽप्राप्तस्याकर्षणे प्रवर्तमानोऽपि न सर्वस्यायसः तथा-
विधस्याकर्षणे समर्थः, अपि तु योग्यदेशस्थस्यैव, अञ्जनतिलकमन्त्रादि-
र्वा अप्राप्तस्य रुत्यादेराकर्षकः सन् न सर्वस्याकर्पको दृष्टः, नियतस्यैव
स्त्र्यादेस्तेनाकर्षणोपलम्भात्, तथैव चक्षूरश्मयो लोकान्तरं गत्वा किमिति
रूपं न प्रकाशयन्ति, चक्षुषा संयुक्तसमवायात् रूपमिव गन्धादिकमपि
किमिति न प्रकाशयति, तत्रापि तस्याविशेषात् इति चोद्ये योग्यतैव
शरणम्" इति ।
\hspace{20pt} तन्न ; तथात्वे योग्यताविशेषादेव एकेनेन्द्रियेणैव सर्वप्रकाशसिद्धौ
चक्षुराद्यभ्युपगमस्य वैयर्थ्यापातात् । त्वच एव योग्यताविशेषात् तत्त
एव तत्तदर्थोपलम्भसंभवात् । यदि तु योग्यताया अपि निर्धारणाथ
कार्यकारणभावनिर्धारणमावश्यकम्, तदा प्रकृतेऽपि स निर्धारणीयः ।
यथाऽयसो नियतदेशप्राप्तिर्वक्तव्या । यदि चक्षुःप्रदेशे पर्वतादिविषयस्य
गमनमनुपलब्धेतसा नाभ्युपेयते, तदा चक्षुष एव विषयप्रदेशगमन-
मभ्युपेयताम्, अयस्कान्ततिलकादीनां संयोगसम्बन्धानपेक्षत्वेऽपि देश-
विशेषप्राप्त्यपेक्षाया अनिवार्यत्वात् । अन्यथा दूरस्थवस्तुदर्शनाय
पुरुषस्य गमनं भवन्मतेऽपि नोपपद्यते । बिडालादिचक्षूरश्मिगमनस्य
प्रत्यक्षसिद्धत्वाच्च प्राप्यकारित्वम् ।
\hspace{20pt} किञ्च — इन्द्रियत्वाविशेषेऽपि त्वगादिरपि कुतो नायस्कान्तवत् प्राप्य-
कारी, योग्यतायाः सर्वत्राप्यनपायात् । तथाऽदर्शनान्न तत्र तथेति चेत्,
प्रकृतेऽपि तथाऽदर्शनस्य तुल्यत्वान, गोलकस्य विषयदेशाप्राप्तिदर्शनेऽपि
रश्मीनां तदप्राप्तिदर्शनस्य वर्णयितुमशक्यत्वात् । बिडालनेत्ररश्मीनां
प्राप्तिदर्शनाच्च ।
\hspace{20pt} किञ्च — नियतदेशप्राप्त्यपेक्षामे प्रभावशक्त्याद्यात्मना अयस्कान्तादीना-
मपि लोहसंसर्गो भवत्येव । सर्वथाऽसंसर्गेऽसंसृष्टत्वाविशेषात् दूरस्थाना-

Page 18Permalink

प - ल - भ्य - ते (8 syllables).
Count the syllables in that word in line 22:
रूपं (2)
दूरमपि (4)
1: प्र
2: स
3: दु (it has a loop like 'द' with u-matra 'ु'?)
4: र (it's a 'र'!)
5: प
6: ल
7: भ्य
8: ते
Wait! The typesetter swapped 'र' and 'द'! They put 'दु' then 'र' -> प्रसदुरपलभ्यते!
Wait, look at syllable 3 and 4:
Syllable 3: it has a rounded back like 'द' with 'ु' below it? Wait, or is it 'र' with 'ु' = 'रु'?
If it's 'रु', how is 'रु' written in this font? Look at 'गुरु' or 'रू'?
In line 22: look at syllable 3: it is 'द्'? No, wait, look at 'द' in 'दूरमपि' right before it: 'दू' has a circle on the right with a tail.
The letter after 'स' has: top bar, small vertical, round body like 'द', then a tail going down: that is 'द'!
And under it? There is a 'ु' or nothing?
Wait

Page 19Permalink

१२ वेदस्वरूप-विमर्शः
समीपस्थः' इति सान्तरप्रत्ययो न स्यात् । भवति च तथा प्रत्यय इति
चेन्न; यत उक्तप्रतीतिः शरीरापेक्षया सान्तरत्वं विषयीकरोति, न
त्विन्द्रियापेक्षया इन्द्रियस्यातीन्द्रियतया तदपेक्षया सान्तरत्वस्य चक्षुषो
वीक्षणाक्षमत्वात् ।
ननु यदि विषयदेशगतेन चक्षुषा विषयो वीक्ष्यते, तदा नेत्रापि-
धानेऽपि प्रत्यक्षं स्यात् , नेत्ररश्मेर्विद्यमानतया तत्सन्निकर्षस्य तदानी-
मपि सत्त्वात् । अतः कृष्णसारगोलकमेव कुतो न चक्षुः ? तत्त्वचे
निमीलनेन व्यवधानादमहस्यमुपपद्यते इति चेन्न । नयनगोलकादारभ्य
विषयपर्यन्तं बद्धरेखस्यैव मनःसंयुक्तस्य च चक्षुषो विषयग्राहकत्वाभ्यु-
पगमात् । निमीलने तु विषयसंयुक्कोऽपि नेत्ररश्मिर्मनसा वियुक्तो-
ऽबद्धरेखश्च कथं विषयं गृह्णीयात् ? वेदान्तपचेऽपि उन्मीलि

Page 20Permalink

प, रि, then what?
Wait, look at the top:
Above रि there is an 'ि' matra.
Above the next letter: is there an 'ि'?
Wait, the next letter is 'ग', then 'णि' (with 'ि' matra), then 'ता', then 'नि'!
Look:
प - ri - ga - ṇi - tā - ni -> परिगणितानि!
Wait, look at 'णि': it has ण and 'ि'!
Wait, look at 'लघून्य-':
Is it लघून्य- or लघुव्य-?
It is 'लघून्य-' (laghūnya- / laghunya-): 'लघूनि' in sandhi before 'अ' becomes 'लघून्य'!
लघूनि + अपरिमितानि or अपरिगणितानि = लघून्यपरिमितानि / लघून्यपरिगणितानि!
Wait, in line 22:
Is it "अपरिमितानि" or "अपरिगणितानि"?
Wait, look at line 22:
"लघून्यपरिमितानि" - wait, look at "परिमित" vs "परिगणित":
Let's look at line 39 on page 15: "शतशो मण्डलानि सन्ति" (hundreds of mandalas).
If mandalas are produced from the object to the eye, are they "countless" (अपरिमितानि)