Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 99 of 237

Read in context
Page 99

१७४ वेदस्वरूप-विमर्शः
'आत्मा ह्यग्निः तदेतमेते उभे रसो भूत्वाऽपीतः । ऋक् च साम
च तदुभे ऋक्सामे यजुरपीतः ( शत० १०.१.१.६) तत्राप्ययं दर्शितः ।
'ऋचोऽक्षरे परमे व्योमन्' इति मन्त्रोऽपि परमव्योमपदेन बोधितस्य
परब्रह्मण ऋगक्षरे प्रतिष्ठितत्वमाह । तस्य ज्ञानमेव मन्तरूपाणामृचां
मुख्यं प्रयोजनम् । तदित्थं ब्रह्मस्वरूपभूता मन्त्राणां वाच एव मुख्या
वेदा इति विवृतम् । एते रसवेदाः, पूर्वोक्तमण्डलक्रमेण चक्षुःपर्यन्त-
मागत्य तत्तद्वस्तुजनकाः । वस्तुवितननात् वितानपदेन व्यवहार्याः ।
यैर्वस्तुनो दूरे दूरे लघुत्वं व्याख्यातम्, ते तु छन्दोवेदा इति त्रिविधा
वैज्ञानिका वेदाः' इति ।
अत्रोच्यते—यस्याः श्रुतेर्बलादेतत्सर्वं कल्प्यते, तस्याः पूर्वाचार्यैः
[