वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
by धर्मसम्राट् स्वामी करपात्री जी महाराज
Page 83 of 237
Read in contextपृष्ठ १४२
कल्पया तेषामायुषः सङ्कोचमवेक्ष्य कालानुरूपां च ग्रहणशक्तिं विस्म-
र्पहणार्थेमं ग्रन्थं सुखेन स्पष्टमद्गृह्णाय निरुक्तं वेदं वेदाङ्गानि चोक्तवन्तः ।
वेदञ्चैकमेव सन्तमतियमहत्त्वाद् दुरध्येयमनेकशाखाभेदेन समाम्नासिषुः ।
तद्यथा-एकविंशतिधा बाह्वृच्यम्, एकशतमध्वर्यवम्, सहस्रधा सामवेदम्,
नवधा आथर्वणम्, व्याकरणमष्टधा, निरुक्तं चतुर्दशधा, भिन्नान्येतानि
शाखान्तराणि लघूनि सुखं गृह्णीह्येरते शक्तिहीना इत्येवमर्थमुक्तवन्तः ।
न च परावाग्रूपं शब्दब्रह्मभूतमेव, स्वयम्भु ब्रह्म, वैखरीवागात्मकं
प्रसिद्धवेदरूपन्तु बिम्बभूतमिति वाच्यम् ; बौद्धागमादीनामपि बिम्बभूत-
वेदत्वापत्तेः, 'वाचा विरूपनित्यये'ति वैखरीवाग्रूपवेदस्यापि नित्य-
त्वोक्तेश्च । न च तत्रापि शब्दब्रह्मरूपाया वाच एव नित्यत्वोक्तिरिति
वाच्यम्; 'तस्मै नूनमभिद्यवे, वाचा विरूपनित्यया । वृष्णे चोदस्व
सुष्टुतिम्' इति वैखरीवाग्रूपयैव वाचा सुष्टुतिसम्भवात् । किञ्च-यदि
तपसा सार्वज्ञ्यं तदा तेनैव सार्वज्ञ्यमस्तु, किं शब्दब्रह्मज्ञानेन ? कथञ्च
निर्विकल्पेन शब्दार्थक्रमा नवभासिना व्यवहारातीतेन तेन सार्वज्ञ्यम् ?
'ऋषिर्दर्शनात्' ( नि० २ । ११) इति वचनेन मन्त्रदर्शनाद्
ऋषित्वमुक्तम् । 'पश्यति ह्यसौ सूक्ष्मानप्यर्थान इति दुर्गाचार्यः ।
'स्तोमान् ददर्श' इत्यौपमन्यवः । तानसौ तारकेन ज्ञानेन पश्यतीति
औपमन्यव आचार्यो मन्यते । 'तद् यदेनांस्तपस्यमानान् ब्रह्मस्वयम्भव-
भ्यनार्षत्, ऋषयोऽभवंस्तदृषीणामृषित्वमिति विज्ञायते (तै० आ० २ । ६)
ब्राद्धेत्यस्य ऋग्यजुःसामाख्यं स्वयम्भू इत्यस्य अकृतकम्, अभ्यनार्षत्
अभ्यागच्छत् । अनधीतमेव तत्त्वतो दृष्टश्रुतपोधिशेषेण इत्यर्थो
दुर्गाचार्येणोक्तः । तेन नित्यसिद्धमन्त्राणां दर्शनादेव ऋषित्वं भवति ।
'ऋषीणां मन्त्रदृष्टयो भवन्ति' (नि० ७ । ३) विद्यमानानामेव
मन्त्राणामृषयो येन केनचिन्निनिमित्तेन निदानभूतेन हर्षशोकप्रशंसादिना
मन्त्राणां द्रष्टारो भवन्ति । अनादिमन्त्राणामृषयो द्रष्टारो नतु कर्तार
इति दुर्गाचार्यः ।
निर्विकल्पं ब्रह्म व्यवहारातीतं शब्दब्रह्म च यद्यप्यनाख्येयम् ;
पृष्ठ १४३
तथापि वैदिकैः शब्दैस्तद्व्यावृत्त्या तात्पर्यवृत्त्या लक्षणया च बोध्यत
एव । बिकल्पारोपेण तु जगतत्कारणत्वादिकं तस्योक्तम्,
'अध्यारोपापवादाभ्यां निष्प्रपञ्चः प्रपञ्च्यते ।'
इत्युक्तेः । अभिधावृत्त्या तदप्रकाशमियेतावत्तैव तस्यानाख्येयत्वम् ।
परं तदेव मुख्यं वेदतत्त्वम्, तस्यैव आरोपबलेनाख्यानम् वेदनिर्माण्या-
मित्यादिकन्तु निर्मूलमेव । पूर्वोक्तनीत्या मन्त्रब्राह्मणात्मकस्य शब्दराशेरेव
नित्यवेदत्वसिद्धेः ।
यदप्युक्तम्- "सौगतैरपि एवमङ्गीक्रियते । तथा हि-अविद्योप-
प्लववशात् प्राकृतैर्जनैः असांवृतं परमार्थतत्त्वं न ज्ञातुं शक्यते, तस्य
बुद्धेरगोचरत्वात् सर्वप्रपञ्चनिर्मुक्तत्वाच्च । शब्दा हि विकल्पप्रवृत्ते रूद्धवन्तो
विकल्पप्रतोतीनामगोचरे विषये न प्रवर्त्तन्त इति निर्विकल्पं स्वरूपं
न कश्चिद्वपि शब्दानां गोचरीभवति तदभिलाप्यं वा । अतः परमार्थ-
तत्त्वस्य प्रतिपादनं दुःशक्यमेव । परन्तु भाजनश्रोतृजनानुग्रहार्थं परि-
कल्पमुपादाय संवृत्यनिदर्शनेन किञ्चिदभिधीयते । तथा च-
'अनक्षरस्य धर्मस्य श्रुतिः का देशना च का।
श्रूयते दृश्यते चार्थः समारोपादनक्षरः ॥'
इति तैरुक्तम्' इति । तदपि न ; अर्थान्तरत्वोपपत्तेः । तथा हि--माध्य-
मिकबौद्धरीत्या शून्यस्य सदसदादिकोटिचतुष्टयविनिर्मुक्तस्य शब्दप्रवृत्ति-
निमित्ताभावेन शब्दाविषयत्वेन अवाच्यत्वेऽपि समाधिना सर्वविकल्पा-
पोहेन तत्त्वभानाभ्युपगमः । नात्र तद्द्बोधोपयोगि-विकल्पारोपेण
आगमाख्यानस्य वेदत्वमिष्यते तैः ।
यदपि--"वेद एव सर्वज्ञानप्रसूतिरित्यत्र नास्ति सन्देहलेशोऽपि ।
शास्त्रयोनित्वाद्यनुसारीणां यदतीतादिविषयकमाषं ज्ञानमिति शास्त्रेषु
प्रसिद्धं सर्ववस्तूनां भूतार्थं च तत्प्रतिभमिति प्रशस्तपादाचार्याः ।
तस्यातीपदेशिकत्वेऽपि आगमहेतुकत्वमव्याहतमेवेति भर्तृहरिपदाः ।
प्रत्ययमाश्रायेष्व शब्दानुविद्धत्वेन शब्दस्य वेदात्मकतया ज्ञानमात्रमेव
वेदमूलकम् । अनया दिशा प्रत्यक्षस्यापि परमार्थतो वेदमूलकत्वेन