Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 74 of 237

Read in context
Page 74

Here is the complete, line-by-line transcription of the two pages as printed:

१२४ वेदस्वरूप-विमर्शः
अविस्तरमसन्दिग्धं - मविलम्बित - मध्यथम् ।
उरस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम् ॥ ३१ ॥
संस्कारक्रमसम्पन्ना मद्भूतामविलम्बिताम् ।
उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम् ॥ ३२ ॥
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया ।
कस्य नाराध्यते चेत उद्यतासेररेरपि ॥ ३३ ॥
लेखकस्य वाचोभङ्ग्या ध्वन्यते यद् वैखरीवागात्मका वेदा न
वस्तुतो वेदाः, किन्तु परा-पश्यन्त्याद्यात्मका एव मुख्या वेदाः। एवं परा-
पश्यन्त्यादिस्वरूपविषयेऽपि आधुनिकवैदिकविद्वन्मानिनामन्यः
पन्थाः । सर्वमेतदत्र विमर्शणीयं भवति । तदत्र पूर्वं पर-पश्यन्त्यादिरूपं
नव्यमतानुगृहीतं समीक्ष्य कथं परा-पश्यन्त्याद्यात्मका एव न मुख्या
वेदा इति विवेचयिष्यते