Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 55 of 237

Read in context
Page 55

८४ वेदस्वरूप-विमर्शः
सर्वं वा इदं प्रजापतिः। यदिमे लोकाः यदिदं किञ्च सा।
यदैव लोको वाग्वदति तद्वाचमुज्जयति । तस्मात् तन्नाद्रियेत ।'
( शतपथ ३ । १ । ३ । ३ )
अयमभिप्रायः केचित् सप्तदश-प्राजापत्यपशूनामन्ते वाग्दैवत्यं पशु
मामनन्ति । तत्र चोपपत्तिं वदन्ति । तेषां पक्षं निरसितुमनुवदति - तद्धैके
वाच इति । 'वाच उत्तममेके' इति कात्यायन-श्रौतसूत्रमप्यत्र अनुकूलम् ।
एके शाखान्तरीया वाचे वाग्देवतायै उत्तममन्ते कर्तव्यत्वात् चरमं तम्
आलभन्ते । नहि प्रजापतेः परम् उत्कृष्टं पूर्व-भावि किञ्चिदप्यस्ति,
यदर्थं पशुरालभ्यते । यद्यस्ति, वागेव अस्ति, तस्या अव्यक्तशब्दब्रह्मत्वेन
पूर्वमवस्थानात् । ता उज्जयामः साधयामः इति बुद्ध्या वाग्दैवत्यः पशु-
रालम्भनीय