Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 51 of 237

Read in context
Page 51

७६ वेदस्वरूप-विमर्शः
यद्युक्तम्-
'रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।
प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥'
(ऋ० ३ । ३३ । ५)
अस्यार्थः-हे सुजला नद्यः मन्मधुरवचनैः शीघ्रगमनान् मुहूर्तार्थं
विश्राम्यताम् । कुशिकस्य पुत्रोऽहं स्वात्मरिरक्षिषया मनीषाऽनुसारेण
प्रार्थये इति । मन्त्रस्यास्य ऋषिर्नदीः स्तौति । निरुक्तकृता चाख्यान-
मिदमुक्तम् । विश्वामित्रो पैजवनः सुदासस्य राज्ञः पुरोहित आसीत् । स
राज्ञः सकाशात् बहूनि धनान्यादाय शतद्रु-विपाशवसङ्गममुपाययौ ।
तरणमार्गमनालक्ष्य नदीस्तुष्टाव । पूर्वं प्रत्याख्याय पश्चात् ताभिर्मार्गो
दत्तः । अत्रापि अस्मच्छब्दार्थैः कुशिकपुत्र एव, न सर्वे उच्चारयितारः ।
एवम्-
[L1