Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 43 of 237

Read in context
Page 43

पृष्ठ ६०

६० वेदस्वरूप-विमर्शः
कर्त्तुरेव तत्तन्निबन्धपन्यादिकर्तृंताया अभ्युपगन्तुं शक्यत्वात् । अन्यथा
रघुवंशादिकाव्यादीनामपि अपौरुषेयत्वापत्तिः स्यादिति चेन्न । रघुवंश-
काव्यादीनां प्रथमोच्चरितत्वेन पूर्वानुपूर्वीसापेक्षोच्चरितत्वाभावेन
पौरुषेयत्वेऽपि वेदे तदभावेनापौरुषेयत्वात् । वेदानुपूर्व्याः सङ्घटने
अद्यापि पुरुषप्रयत्नो भवत्येव । तावतापि न तदुच्चारयितॄणां कर्तृत्वम् ,
पूर्वानुपूर्वीसापेक्षोच्चारयितृत्वात् । अत एव ज्ञानसहभुवामेव शब्दाना-
मुपदेशो युक्तः, न स्वीयानां शब्दानां तत्र सन्निवेशः, मानाभावात् ।
यदुक्तम्- 'निरुक्तदैवतकाण्डेोकरीत्या शपथाभिशापपरिवेदनादि-
श्रवणात् विप्रप्रतीकाराशंसाश्रवणात् ब्राह्मणे परकृतिपुराकल्पश्रवणात्
अग्रे दर्शयिष्यमाणशब्दविवरणप