वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
by धर्मसम्राट् स्वामी करपात्री जी महाराज
Page 41 of 237
Read in contextपृष्ठ ५६
अस्मिन् पक्षेऽपि वाचकावच्छिन्नवाच्यप्रतिभासः स्वीकृत एव ।
'यदि च स्वानुरागेण वाचकाद्वाच्यवेदनम् ।
लिङ्गादपि भवेद् बुद्धिः स्वावच्छेदेन लिङ्गिनि ॥
अत्र धूमान्वितत्वेन न बह्निरवगम्यते ।
इहापि शब्दयोगेन गवादिर्नैव गम्यते ॥
न चास्ति वस्तुनो धर्मो वाच्यता नाम कश्चन ।
यदि स्यान्निर्विकल्पेऽपि प्रतिभासेत रूपवत् ॥
अर्थासंस्पर्शिनः शब्दान् कथयन् दुष्टसौगतः ।
प्रत्यक्षास्त्रेण भेत्तव्यः स कथं हन्यते त्वया ॥
प्रत्यक्षविषये वृत्तिः शब्दानां भवतः कुतः ।
तेषां यद्विषये वृत्तिस्तद्धि शब्दीकृतं त्वया ॥'
इत्यादिकल्पजालमपि स्वानुभूतिर्मथ्नाति। लोके तथाशब्दानुविद्धस्य
अर्थस्य सर्वानुभवसिद्धत्वात् ।
यदुक्तम्- "न लोकस्य व्यपदेशकशरणा वस्तुस्थितयो भवन्ति,
यथारुचि लोको व्यपदिशति । नानामूनिजनसाधारणमपि तीर्थं नन्दि-
कुण्डमिति व्यपदिशति लोकः" इति । तदपि न; तत्रापि नन्दिनो
विशिष्टसम्बन्धमपेक्ष्यैव तथाप्रयोगात् ।
अन्यैस्तु - गौरित्येवमादिबोधेषु वाचकावच्छिन्नवाच्यप्रतिभासे
प्रत्याख्याते प्रथमाक्षिसन्निपातसमयोत्पन्ननिर्विकल्पवैलक्षण्यं कथमेषाम् ?
न हि विषयातिशयमन्तरेण प्रतिभासातिशयो भवति । दण्डीति दण्ड-
विशिष्टः पुरुषः प्रतिभासते । अन्यथा केवलपुरुषप्रतीतेरेषा विशिष्यते ।
उभयप्रतिभासेऽपि न 'दण्डपुरुषानि'ति प्रतीतिः, विशेषणविशेष्यभावस्य
नियामकत्वात् ।
एवम् - 'पूर्वापर - चिरक्षिप्र-क्रमाद्यवगमेष्वपि ।
दिक्कालादिविशिष्टोऽर्थः स्फुरत्यतिशयमहात् ॥'
इति प्रतीत्यनुरोधेन कालादिविशिष्टोऽप्यर्थो गृह्यते । 'अयं घटः इति
प्रत्ययात् । 'इह तन्तुषु पटः' इति प्रत्यये वैशेष्यादेव समवायविशिष्टप्रतीते-
रपि सम्भवात् ।
पृष्ठ ५७
यदुक्तम्- "उपायभेदात् प्रतीतिभेदो भवति, दूराविदूरदेश-
व्यवस्थितस्थाण्वादिपदार्थप्रतीतिवत् संस्कृतासंस्कृत-करणविषयकबोध-
वद्वा" इति। तदपि न; उपायभेदेऽपि प्रतीतिभेदासिद्धेः । उपायेन बुद्धौ
अतिशयो भवति, न विषये । तदवगमसमये च न बुद्धिर्भाति । यत्रा-
तिशयः, सा न भासते । यश्च विषयो भाति, न तत्रातिशयः । दृश्यते
चातिशयसंवेदनम् ।
न च दूराविदूरविषये प्रतीतिरूपायभेदेन भिद्यते; तत्रापि विषय-
भेदस्यैव सत्त्वात् ।
'दूराद्धि वस्तु सामान्यं धर्ममात्रोपलक्षितम् ।
अदूरतस्तु विस्पष्टविशेषमवसीयते ॥'
'चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभावितारूतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥'
'क्रियान्तराणां वैचित्र्ये यद्वा तद्वाऽस्तु कारणम् ।
भेदो ज्ञानक्रियायास्तु कर्मभेदनिबन्धनः ॥' इति ।
अन्यैस्तु भवत्येव उपायभेदात्प्रतिभासभेदः । ज्ञानोत्पाद एव विषयस्य
प्रत्यक्षता, नादर्शनं न ज्ञानग्रहणम् । तत्र यथा पुरुष इति निरतिशयज्ञान-
मात्रोत्पादे तावन्मात्रविषयप्रत्यक्षता, न तत्र ज्ञानं प्रकाशते । अगृह्य-
माणेऽपि ज्ञाने विषय एव प्रतिभासते । एवं दण्डीति शुक्लवासा इति
विशेषणज्ञानाभ्युपायवशात् सातिशयप्रत्ययजनने तदग्रहणे स एव विषयो-
ऽवभासते । तथा च दण्डीति पुरुषप्रवणैव मतिः, को दण्डी, क पुरुषो
दण्डीति सामानाधिकरण्येन निःसन्धिबन्धस्य पुंस एव प्रतिभासात् ।
'दण्डिनं भोजय, दण्डिने देही'ति भोजनादिकार्ययोगित्वं न दण्डे
दृश्यते, अपि तु पुंस्येव ।
न च 'दण्डी पर्वतमारोहती'ति दण्डेऽपि कार्यान्वयो भवति ।
भेदेऽपि 'दण्डी प्रैषानन्वाहे'त्यत्र विवक्षितमेव विशेषणमिति वाच्यम् ;
तथात्वेऽपि प्रतीतेर्विशेष्यप्रावण्यविशेषात् । अन्यथा दण्डपुरुषाविति
स्यात्, न दण्डीति, विशेषत्वेनैव तदुपसर्जनत्वनिश्चयात् ।