वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
by धर्मसम्राट् स्वामी करपात्री जी महाराज
Page 31 of 237
Read in contextपृष्ठ ३६
'आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती ।
विद्या ह्येताश्चतस्रस्तु लोकसंस्थितिकेतवः ।।'
( कामन्दकीये )
'द्वे विद्ये वेदितव्ये परा चैवापरा च ।
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः ।' ( मुण्डके )
इत्यादौ सर्वत्र विद्याशब्दस्य ग्रन्थपरत्वं विज्ञायते ।
वेद-मन्त्रशब्दयोस्तथोक्तार्थाभ्युपगमो न युक्तः; तान्त्रिकेष्वपि
देवताविज्ञानेषु तदुपपादकेषु शब्देष्वपि वेदमन्त्रादिशब्दप्रयोगपत्तेः ।
न चेष्टापत्तिः ; व्यवहारविरोधात् ।
'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते ।
एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता ।।' इति ।
वेदशब्दस्यायमेव तु मुख्यार्थः ।
“अत एव यज्ञविद्या, देवविज्ञानम् , प्रजापतिविज्ञानम् , सूर्यविद्या-
नम् , सर्वविज्ञानं वा वेदः” इत्यादिकमपि न सङ्गतम् ; व्यभिचारादेव ।
'शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद् व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।।'
इत्येवमादिशक्तिग्राहकेषु व्यवहार एव मूर्धन्यः । तदभावे तु
यथायथमन्थेऽप्युपायाः । श्रुतिस्मृतिपुराणेतिहासेषु शिष्टानां व्यवहारेषु
विशिष्टशब्दराशौ वेदशब्दः प्रसिद्धः । तत्रैव च गद्य-पद्य-गीतिक्रमेण
ऋग्यजुःसामादिशब्दाः प्रसिद्धा इति तदपहाय अन्यत्र गौणोलक्षणादि-
वृत्तिभेदेनैव वेदादिशब्दप्रयोग इति मन्तव्यम् ।
वेदार्थावधारणसमयेऽपि व्यवहारानुरोधेनैव वेदार्थोऽधिगन्तव्यः ।
अत एव मीमांसकानां मर्यादा- "ये एव लौकिकाः शब्दास्त एव वैदिका
अपि।” वैदिकानां शब्दानां क्वचित् संस्कारभेदेऽपि प्रत्यभिज्ञानेनैक्यं
निश्चीयते। अत एव “य एव लौकिकाः शब्दार्थास्त एव वैदिका अपि
शब्दार्थाः” इत्युक्तिः सङ्गच्छते ।
यदुक्तम्- “ऋषीणां शब्दरचनाकर्तृत्वाभिप्रायेण मन्त्रकर्तृत्वम् ।
देवताविज्ञानसाक्षात्कारकर्तृत्वाभिप्रायेण तु मन्त्रद्रष्टृत्वम्”ति । तन्न ; 'वाचा
पृष्ठ ३७
विरूपनित्यया, अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा' इत्यादि-
वचनविरोधात् । अत एव "स्वर्गापूर्वदेवतादीन् प्रत्यक्षीकृत्य तद्वाचकाः
शब्दाः स्वयमृषिभिरुच्चारिताः । अत एव मन्त्राः” इत्यप्यपास्तम् ।
न च धर्मसाक्षात्कारत्वमृषीणां संभवति ; धर्मस्य चोदनैकसम-
धिगम्यत्वात् । यथा रूपस्य नेत्रैकसमधिगम्यत्वम् , शब्दस्य च श्रोत्रैक-
समधिगम्यत्वम्, तथैव धर्मब्रह्मणोर्वेदिकसमधिगम्यत्वावगमात् “नावेद-
विन्मनुते तं बृहन्तम् , 'तं त्वौपनिषदं पुरुषं पृच्छामि', 'चोदना-
लक्षणोऽर्थो धर्मः', 'शास्त्रयोनित्वात्' इत्यादि-श्रुति-सूत्रेभ्यः ।
यदुक्तम् - 'स्वर्गापूर्वदेवतानाम् ईश्वरप्रत्यक्षविषयत्वात् तत्प्रेरणयैव
ऋषिप्रत्यक्षविषयत्वेऽपि न हानिरिति । तन्न ; परमेश्वरस्य सर्वोपा
दानत्वेन सर्वस्य स्वाध्यस्तत्वेन ईश्वरचैतन्य-सत्तातिरिक्तसत्ताकत्वाभावेन
सर्वस्य परमेश्वरप्रत्यक्षविषयत्वे सत्यपि जीवस्य तथात्वाभावेन तदनु-
पपत्तेः । योग-न्यायशास्त्राद्रीत्या योगजशक्त्या सूक्ष्मव्यवहितविप्र-
कृष्टज्ञानमपि स्वार्थानतिवर्त्येव ज्ञातव्यम् ।
'यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।
दूरसूक्ष्मादिदृष्टौ तु न रूपे श्रोत्रवृत्तिता ।।'
इति शास्त्रतात्पर्यविदां वचनात् । 'प्रातिभाद्वा सर्वम्'त्यपि तथाभि-
प्रायकमेव द्रष्टव्यम् । योगादिमवरीत्याऽपि निरतिशयं सार्वज्ञ्यमीश्वर-
स्यैव, जीवानां तु सापेक्षमेव तत् ।
अपि च-यथा अनन्तस्य अनन्तत्वेन ज्ञानमेव अनन्तज्ञता, तथैव
परोक्षस्वभावस्य धर्मस्य परोक्षत्वेन ज्ञानमेव धर्मज्ञता ।
यदप्युक्तम् - 'धर्माधिगमनिपुणयोगिप्रत्यक्षसिद्धौ दर्शनातिशय
एव प्रमाणम् । अस्मदादिरपेक्षितारोक आलोकयति निकटस्थमर्थ-
जातम् । बिडालस्तु सान्द्रतमःपङ्कपटललिप्तदेशवर्त्तिमपि पश्यति ।