Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 175 of 237

Read in context
Page 175

३२४ वेदस्वरूप-विमर्शः
पौरुषेयवाक्यानां सामान्येन मूलज्ञानावधारणशक्तिर्भवति, अनाप्त-
वाक्यानां तदशक्तिश्च । तत एव केषाञ्चित्प्रामाण्यमप्रामाण्य-
ञ्चान्येषाम् ।
ननु तर्हि कथं वाचकत्वविरहिताद् वाक्यात् तज्ज्ञानमवगम्यत
इति चेन्न । ज्ञानाबधारणस्यानुमानिकत्वेन बाधाभावात् । पदपदार्थ-
रचनादीनाहि वाक्यार्थप्रत्ययाः। उक्त रचना च विवक्षाधीना । सा च
ज्ञानाधीनाऽन्वयव्यतिरेकाभ्यामेतदवगम्येत ।
यद्यपि पौरुषेयवाक्यादर्थनिश्चयो भवति, तथापि तत्प्रामाण्यं
वक्तृज्ञानमुखेनैव भवति । तत एवाप्रोक्तकारी पर्य्यनुयुक्तः सन्
आप्तमेव निर्दिशति । न चैवमर्थमनवबोधयतः शब्दस्य वाचकत्व-
मेव न स्यात् । न चानवगतबोधकत्वानां लोके वेदे वा बोधकत्वं
सम्भवति, ततो