Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 173 of 237

Read in context
Page 173

३२० वेदस्वरूप-विमर्शः
हिततयाऽनुमानमपि न प्रवर्तते । अतो नानुमानादिभिरपि सर्वज्ञ-
त्वसिद्धिः।
लौकायतिकैस्तु—सर्वज्ञत्वकल्पनावदेव अपौरुषेयत्वकल्पनाऽपि
निष्प्रमाणिकैवोच्यते । तेनैवोच्यते—
"सर्वशो दृश्यते तावन्नेदानीमस्मदादिभिः ।
निराकरणवच्छक्त्या न चासीदिति कल्पना ॥”
‘अतीतः कालः सर्वज्ञशून्यः, कालत्वादद्यत्ववत् ।'
न वाऽऽगमो बुद्धादिसर्वज्ञत्वसिद्धौ प्रमाणम् । सिद्धे सर्वज्ञे तदाग-
मस्य प्रामाण्यम्, तत्प्रामाण्ये च सर्वज्ञत्वसिद्धिरित्यन्योन्याश्रयात् ।
पुरुषान्तरप्रणीतस्य तु मूलान्तरासम्भवात् न सर्वज्ञसद्भावे प्रामाण्यम् ।
यत्तूक्तम्— “नित्यागमगम्यः सर्वज्ञः" इति तन्न; तदभावात् । न
च 'यः सर्वज्ञः स सर्ववित्' इति नित्यागमोऽस्त्येवेति