Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

Report a copyright issue

DevanagariHindipublished237 pages

Page 132 of 237

Read in context
Page 132

यहाँ प्रस्तुत पृष्ठों का पूर्ण एवं शुद्ध देवनागरी रूपान्तरण पंक्ति-दर-पंक्ति दिया जा रहा है:


[पृष्ठ २४०]

२४० वेदस्वरूप-विमर्शः
तत्र क्षेत्र क्षेत्रज्ञज्ञानेनैव मोक्षावाप्तिरुक्ता, क्षेत्रज्ञस्य परमात्मरूपत्व-
श्चोक्तम्- "क्षेत्रज्ञं चापि मां विद्धि।"
"क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा
भूतप्रकृतिमोक्षञ्च ये विदुर्यान्ति ते परम्।"
इत्यादिबचनेभ्यः । मनुवचनानांस्तूक्त एव ।
यदुक्तं 'महन् क्षेत्रज्ञौ भूतात्मसंपृक्तौ उच्चावचेषु भूतेषु स्थितमात्मानं
व्याप्य तिष्ठतः" इति। तदपि न; तत्र तमित्यस्य वेदादिप्रसिद्धतया तत्पुन-
र्निर्दिष्टस्य परमात्मन एव ग्रहणात् । तस्यैव शरीरात् स्वरूपान्जीवानां
प्रसरणोक्तिः संगता भविष्यति । तदेतत्सर्वं तमिति जीवात्मग्रहणे नोपप-
द्यते। तस्यैकस्य सर्वभूतेषु स्थितिरपि नोपपद्यते । क्षेत्रज्ञातिरिक्तश्च
जीवात्मा सर्वथा नोपपद्यते 'एतद्यो वेत्ति तम्प्राहुः क्षेत्रज्ञमिति तद्विदः'
इत्यादिभिर्वचनैः क्षेत्रज्ञस्यैव जीवत्वोक्तेः। प्रज्ञानात्मप्रायात्मनोभूतात्मन्य-
न्तर्भावः शान्तात्मनस्तु महत्यात्मनि निवेश इत्यादिकमन्यापि निःसारं
निष्प्रमाणञ्च । मनुवचनस्यान्यथा व्याख्यातत्वात् ।
यच्चोक्तम्- "वैश्वानरस्य शरीरावयवसंघटनरक्षणे कार्य्यम् । स
च चेतनाचेतनेषु सर्वत्र पार्थिवेषु, व्याप्तः तेनैव लोष्टपाषाणादिष्वपि
तत्सङ्घटनं दृश्यते । तैजसस्य वर्धनादिकार्य्यम् । प्राज्ञस्तु ज्ञानेच्छासुख-
दुःखादीनामाश्रयो भवति । अग्निवायुसूर्यांशभूतान्येतेषामायतनानि ।
प्राज्ञश्च पुनरपि कर्मात्मचिदाभास-चिदात्मभेदेन त्रिविधः । शुभाशुभेषु
कार्येषु शरीरात्मप्रवर्तकस्य चैतन्यांशस्य कर्मात्मत्वं कर्मजनितसंस्कारा-
श्रयत्वात् । स च कर्मात्मा भूतात्मन एव काचिदवस्था स्वच्छत्वात्तत्र
चैतन्यं प्रतिविम्बते, तेन कार्यक्षमता भवति । चैतन्याभासस्यैव चिदा-
भासत्वम् । स एव व्यावहारिको जीवः । शरीरादिषु चैतन्यसञ्चार एव
तत्कार्य्यम् चिदाभासस्योत्पादको बिम्बभूतश्चिदात्मा स चेश्वर्रांशः ।
स एव प्रत्यगात्मा । स एव स्वमायया यन्त्रारूढानि भूतानि भ्रमयति ।
स एवान्तर्यामी । सोऽपि विभूतिमच्छ्रीमदूर्जितोति त्रिधा व्यवस्थिता
भवति।" इति । इदमपि निःसारं निष्प्रमाणञ्च । प्रत्युपस्थापितप्रमाणानाम-
न्यार्थत्वात्, माण्डूक्य्यादिश्रुतिविरोधाच्च । माण्डूक्योपनिषदि 'जागरित-


[पृष्ठ २४१]

वेदस्वरूप-विमर्शः २४१
स्थानो बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः
सोपाधिक आत्मा उक्तः । स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्गः एकोनविंशति-
मुखः प्रविबिक्तभुक् तैजस उक्तः । यत्र सुप्तो न कञ्चन कामं कामयते न
कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थानः एकीभूतः प्रज्ञानघन एवा-
नन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ।
ब्रह्मण एवेमा उपाधिप्रयुक्ता अवस्थाः तस्यैव च समष्टिरूपेणेश्वरत्व-
सर्वज्ञत्व-सर्वान्तर्यामित्वादिकं व्यष्टिरूपेण जीवत्वम् । "एष सर्वेश्वरः
एष सर्वज्ञः एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूताना-
मिति" श्रुतेः । तस्यैव सर्वोपाधिरहितस्य नान्तःप्रज्ञं न बहिःप्रज्ञमित्यादि-
भिस्तुरीयत्वमुक्तम् । एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं
चतुर्थ मन्यन्ते" इति श्रुतेः । स्थावरजङ्गमादिषु जीवस्वरूपायैश्वेऽपि
उपाधिस्वच्छत्वतारतम्येनाभिव्यक्तितारतम्यन्विवद्यत एव । यदा न
कञ्चन कामं कामयते प्राज्ञस्तदा कथं तस्येच्छाद्याश्रयत्वं यदा स आनन्द-
भुगेव भाति तदा कथं दुःखश्रयत्वम् । छान्दोग्येऽपि प्रजापतिविद्याया-
मिन्द्रः विरोचनामुद्दिश्य तिसृणामवस्थानां संसर्गेण त्रयोप्येत आत्मानो
बोधिताः शुद्धात्मप्रतिपिपादयिषयैव । य आत्मा अपहतपाप्मा विजरो
विमृत्युर्विशोक इति शुद्धस्यैवोपक्रान्तत्वात् शुद्ध एव । "य एषोऽक्षिणि
पुरुषो दृश्यते एष आत्मा जाग्रदवस्थोपलक्षितत्वेनोपदिष्टः । ताभ्यान्व-
क्षिणि दृश्यत इत्यस्य तात्पर्य्यमनवबुद्धय शरीररूपभूतात्मैव प्रतिपन्नः ।
"एतदमृतमभयमेतद्ब्रह्मेति" प्रजापतिवाक्यैरादर्शोदशरावादिषु भूषणा-
लङ्कारपरिस्करणादिराहित्यासाहित्याभ्यां देहस्य विकारित्वमवगमय्य
अनात्मत्वे बोधितेऽपि विरोचनो देहमेवात्मानमवगतवान् । इन्दुस्तु
पुनः प्रत्यावृत्तः । "एतं त्वेव ते भूयोऽनुवक्ष्यामि वसापराणि द्वात्रिंशद्वर्षाणि
इति प्रजापतिवाक्येन ब्रह्मचर्यमुषित्वा "य एष स्वप्ने महीयमानश्चरत्येष
आत्मा" इति देहाद्विभिन्नं तैजसं वियेद ।
चतसृष्ववस्थासु एक एव आत्मा उपदिष्टः "स एतन्त्वेव ते
भूयोऽनुवक्ष्यामीति निर्देशांत् । चतुर्थे पर्याये तमेवात्मानमिन्द्रो विवेद ।
वे० वि०-१६