वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
by धर्मसम्राट् स्वामी करपात्री जी महाराज
DevanagariHindipublished237 pages
Page 127 of 237
Read in contextPage 127
२३० वेदस्वरूप-विमर्शः
असकृच्चाग्निनादग्धं जगत्तद्भस्मसात्कृतम् ।
अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ॥
यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिनत्ति भस्मना ।
अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते ॥
अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः ।
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ।
शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्त ते ॥
अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् ।
शिव शक्त्यमृतस्पर्शो लब्ध एव कुतो मृतिः ॥
यो वेद गहनं गुह्यं पावनञ्च तथोदितम् ।
अग्निषोमपुटं कृत्वा न स भूयोऽभिजायते ।
शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः ॥
प्लावयेद्योगमार्गे