Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 124 of 237

Read in context
Page 124

२२४ वेदस्वरूप-विमर्शः
काग्निरूपस्य आदित्यस्य प्रस्तावः । इदमेवाभिप्रेत्य 'ऋग्वेद एवाग्ने-
रजायत यजुर्वेदो वायोः सामवेद आदित्यात्' इति ब्राह्मणश्रुतौ अग्न्या-
दिभ्य ऋग्वेदादीनामुत्पत्तिराम्नाता, विषयस्य ज्ञानकारणतया निरुढ-
त्वात् । यद्यस्त्यग्निः ततः एव ऋग्वेदो जायते । न भवेच्चेन्न कं
वर्णयितुमृग्वेदः प्रवर्तेतेति तस्य कारणत्वमुपपादयति । अयमेवाभि-
प्रायो इति मनुनाऽपि शब्दान्तरैरुपदिष्टः । यथा—
'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' इति ।
परमशेषशेमुषीसम्पन्नैः विद्वत्प्रवरै रचितासु मनुस्मृतिटीकासु
नैकत्राप्यस्यार्थस्य स्पष्टीकरणमुपलभामहे । 'पूर्वोक्ता श्रुतिरपि
प्रायेण सर्वैः समुद्धृता । अग्न्यादिभ्यश्च कथं वेदानाम्