Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 121 of 237

Read in context
Page 121

२१८ वेदस्वरूप-विमर्शः
प्रदानेन विशेषेण वर्तमानमकरोत् । किं कुर्वन् ? दिवि अन्तरिक्षे मेघम्
ओपशम् उपेत्य शयानम्, चक्राणः कुर्वन् । यद्वा-आत्मनि समवेतो वीर्य-
विशेष ओपशः, तमन्तरिक्षे कुर्वन् । व्यवर्तयन् इत्यस्य विशेषेण वर्तमानाम्
(सस्यश्यामलाम्) अकरोत् इत्येवार्थः, न भ्रामणम्, विपूर्वस्य वर्तते-
स्त्वर्थाभावात् । तच्च वृष्ट्यादिप्रदानेन तदर्थमेवान्तरिक्षे ओपशं मेघं
वीर्यविशेषं वा चक्राणः कुर्वन् इत्येवार्थः । तेन ओपशपदं शृङ्गवाचकम् ।
किरणानां व्याघातेन वक्रीभावे शृङ्गं भवतीत्यादिकल्पनं निराधारमेव,
मन्त्रे तादृगर्थबोधकपदाभावात् ।
यदप्युक्तम्—"सौरः प्रकाशोऽनुभूयते । स सौररश्मिसम्पर्कात्
सर्वत्र व्याप्तस्य सोमस्याभिज्वलनात् निष्पन्न इति च