Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 119 of 237

Read in context
Page 119

पृष्ठ २१४

यदप्युक्तम्- "सर्वाणि रूपाणि सूर्य्यरश्मिभिरेव निर्मीयन्ते । शुक्लं कृष्ण-
ञ्चेति द्वे एव रूपे मुख्ये । तत्सन्धिगतं रक्तम् , मिश्रणजानि चान्यानीति
रूपविषये वैज्ञानिकानां दर्शनम् । तदपि 'इन्द्रो रूपाणि कनिक्रदच्चरन्'
'शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥'
(ऋक् सं० ६. ५८. १)
इत्यादिषु स्फुटमाम्नातम्" इति । तदपि न ; मन्त्रस्यान्यपरत्वात् । तथा
हि—हे पूषन् ते तव शुक्रं शुक्लवर्णम् अन्यन् एकम् अहर्भवति वासरा-
त्मकम् । तथा ते तव सम्बन्धि यजतम् । यजिरत्र सङ्गतिकरणे वर्तते ।
यजनीयं प्रकाशेन सङ्गमनीयं स्वतः कृष्णवर्णम् अन्यन् एकम् अहर्भवति
रात्र्याख्यम् । इत्थं विषुरूपे शुक्लकृष्णतया नानारूपे अहनी तव महिम्ना
निष्पद्येते ।
यद्वा—हे पूषन् त्वदीयमन्यदेकं रूपं शुक्रं निर्मलं दिवसस्योत्पादकम्,
त्वदीयमन्यदेवं रूपं यजतं केवलं यजनीयं न प्रकाशकं रात्रेरूत्पादकम् ।
अत एव विषुरूपे अहनी अहश्च रात्रिश्च भवतः । अहोरात्रयोर्निर्माणे
सूर्य एव कर्ता । कथमस्य प्रसक्तिरिति तत्राह—द्यौरिवासि । यथा द्यौः
आदित्यः प्रकाशयिता तथा त्वं प्रकाशकोऽसि । कुत इत्यत आह—हे
स्वधावः अन्नवन् पूषन् विश्वाः सर्वाः मायाः प्रजाः हि यस्मात्कारणात्
अवसि रक्षसि, अतः कारणात् त्वं सूर्य इव भवसीत्यर्थः । तादृशस्य ते
तव भद्रा कल्याणी रातिः दानम् इह अस्मासु अस्तु भवतु । यास्कस्तु
आह—'शुक्रं ते अन्यल्लोहितं ते अन्यद्यज्ञियं ते अन्यदिति वा विषम रूपे
अहनी कर्मणा द्यौरिव चासि । सर्वाणि च प्रज्ञानान्यवस्यन्नवन्'
(निरुक्ते ११.१७) इति ।
यदुक्तम्— 'विपरीते काले स्वार्थबुद्धौ प्राबल्यमागतायाम आभिचा-
रिककर्म सुप्रसारं गतेषु जगद्धितबुद्ध्या क्रियमाणानां यज्ञानां विरलता-
मापन्ने प्रचारे वैदिकं विज्ञानं क्रमेण शैथिल्यमभजत् । महाभारतयुद्धा-
नन्तरं तु चित्रपट इव परिवर्तते स्म। देशविप्लवात् खिन्नेषु लोकेषुका नाम


पृष्ठ २१५

विज्ञानोन्नतिकथा ? विरलतामापन्न उच्छिन्नो वैदिको गुरुसम्प्रदायः,
विद्याश्च विरलतामापन्नाः । अस्मिन् व्यतिकरे प्राक्तनाः सामयिका
वा वेदाङ्गप्रवक्तारो दर्शनसूत्रकाराणां चैकदेशमवलम्ब्य लोकदृष्टिमाक्रष्टुं
कृता अपि प्रयत्ना न साफल्यमभजन् । प्रत्युत अङ्गविस्तारो मतभेद-
विस्तारश्च वैदिक-विज्ञान-विरोधानायैव अकल्प्यत ।
ब्राह्मे क्षात्रे च युगपद्विलयं गते दैवादुपस्थितो बौद्धानां समयः ।
तदानीं न केवलं सम्प्रदाय एव उच्छिन्नः, अपि तु वेदरहस्यबोधका निदान-
रहस्यादिग्रन्था अपि प्रलयं गताः । उच्छिन्ना वेदशाखाः व्युलुप्यन्त
बहूनि ब्राह्मणानि । नाममात्राय अवशिष्यन्त विद्याः । ब्रह्मतेजःप्रभावेणैव
प्रशान्तः स झञ्झावातः । कर्मकाण्डमुपासना-काण्डं ज्ञानकाण्डञ्च
पुनरपि सम्प्रदायबद्धमभूत् । परं विज्ञानशैली तु विलुप्तैवाभवत् ।
सम्प्रदायस्य विच्छिन्नप्रायत्वात् ग्रन्थानां विलोपाच्च विज्ञानकथा-
भिरपि शून्ये ऐन्द्रजालिकमायाप्रधाने कालेऽधिकारिणां विरहान्न
तदुद्धाराय समय आसीत् । आचार्यैः आवश्यककर्मसम्प्रदाय-
रक्षा कृता । मन्त्र-ब्राह्मणात्मकस्य वेदस्य कर्मावबोधकः साम्प्रदायिकोऽर्थः
सुरक्षितोऽभूत् । उपपादकं तु विज्ञानम् अर्थवादशब्दवाच्यतामापाद्य
परित्यक्तमभूत् । विज्ञानविरहाच्च इयमार्थविद्या शब्दप्रधानतां गता ।
तर्क व्याकरण-साहित्यादयः शब्दाडम्बरमात्रसारा लोकेभ्योऽरोचन्त।
जल्पप्रक्रिया कवित्वप्रक्रिया च विनोदायालम्भूत् ।
वेदानां भाष्याणि व्यरच्यन्त, परं कर्मोपयोगिसम्प्रदायप्राप्तो-
ऽर्थस्तत्र विवृतः । वैज्ञानिकानां वैदिकानां सङ्केतानां सम्प्रदायविच्छेदाद्
विलोप एवाभूत् । तत एवाधुनिकेषु भाष्येषु न वैज्ञानिकी पद्धति-
रुपलभामहे । मनुष्योपयुक्ततया मन्त्रा व्याख्याताः । विज्ञान-
जीवातूभूता प्राकृतयज्ञपरता तु समुपेक्षितैव । प्राकृतेन यज्ञेनैव
जगदुत्पत्ति-स्थिती स्तः । तं प्राकृतं यज्ञमुपजीव्यैव अस्माकं प्रातिस्विकी
यज्ञप्रक्रिया प्रचलति । तयोः सम्बन्धोऽपि वेदेषु सङ्केतितः । परं स
न भाष्येषु स्पष्टीक्रियते । अध्यात्ममधिभूतमधिदैवतञ्च ये देवपित्राद्याः,
तेषां विवेकोऽपि भाष्येषु नोपलभ्यते । तत एवैकस्य धर्मा अपरसम्वन्धि-