Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 102 of 237

Read in context
Page 102

निर्विकल्पज्ञानस्य चेद्देदत्वं तर्हि पुराण-काव्यादिरूपत्वं कथं न भवेत्,
सर्वस्यैव निर्युक्तिकत्वात् । तत्तन्मन्त्रार्थविशिष्टस्य ज्ञानस्य वेदत्वरुचेत्
कुतस्तन्नित्यत्वम्, विशिष्टस्य सर्वस्यैव वेदान्तिनयेऽनित्यत्वाभ्युपगमात् ।
लौकिकालौकिकार्यविषयकविशिष्टज्ञानेषु वेदशब्दप्रयोगस्तु अनुपलम्भ-
पराकृत एव ।
यदप्युक्तम्—"तपोयोगादिनां परमेशप्रसादमवाप्य समाधौ तत्तत्-
स्वर्गापूर्वदेवतादिज्ञानं यज्ञ-स्वर्गादि कार्यकारणभावविज्ञानं च प्रत्यक्ष-
रूपमवाप्य महर्षिभिः मन्त्राः ब्राह्मणा ने च प्रकटीकृता.ने । तन्त्रेषु
मन्त्रेषु त एव ऋषिनाम्नापि स्मर्यन्ते । ब्राह्मणान्यपि तत्तदृषिनाम्ना
प्रसिद्ध्यन्ति । ते च मन्त्र-ब्राह्मणात्मका वेदाः शिष्य प्रशिष्यपरम्परायां
प्रकीर्गरूपेण प्रचरन्ति स्म कालेन । व्यासोपज्ञं तेषां संहित