Skip to content
SarvaKosh
Back to the archive

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

by महर्षि वसिष्ठ / डॉ. अलोइस फुहरर

DevanagariSanskritpublished106 pages
Page 52Permalink

३९
प्रसारितपादोपस्थकृतोपाश्रितस्य च ॥ २३ ॥
गुरुसमीपे ॥ २४ ॥
मैथुनव्यपेतायाम् ॥ २५ ॥
वाससा मैथुनव्यपेतेनानिर्णिंक्तेन ॥ २६ ॥
ग्रामान्ते ॥ २७ ॥
छर्दितस्य ॥ २८ ॥
मूत्रितस्योच्चारितस्य ॥ २९ ॥
ऋग्यजुषां च सामशब्दे वा ॥ ३० ॥
अजीर्णे ॥ ३१ ॥
निर्घाते ॥ ३२ ॥
भूमिचलने ॥ ३३ ॥
चन्द्रसूर्योपरागे ॥ ३४ ॥
दिङ्नादपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिकम् ॥ ३५ ॥
उल्काविद्युत्समासे त्रिरात्रम् ॥ ३६ ॥
उल्काविद्युत्सज्योतिषम् ॥ ३७ ॥
अपर्तावकालिकम् ॥ ३८ ॥
आचार्ये प्रेते त्रिरात्रम् ॥ ३९ ॥
आचार्यपुत्रशिष्यभार्यास्वहोरात्रम् ॥ ४० ॥
ऋत्विक्श्वशुरपितृव्यमातुलाननवश्वयसः प्रत्युत्थायाभिवदेत् ॥ ४१॥
ये चैव पादग्राह्यास्तेषां भार्या गुरोश्च ॥ ४२ ॥
34. ॰उपरागेषु H. 35. दिङ्नाद्॰ B. H. दिग्दाह॰ Ban. ed. 35. ॰पर्वता
नादार्वाकम्पप्र॰ B. Bh. E. H. 39. आचार्र्ये च B. F. H. 40. After this
Sūtra H. only reads : ऋत्विग्योनिसंबन्धेषु च गुरोः पादोपसंग्रहणं कार्यम् ।
41 ॰वन्देत् Bh. E. H.

Page 53Permalink

मातापितरौ च ॥ ४३ ॥
यो विद्यादभिवादितुमहंमयं भो इति यात् ॥ ४४ ॥
यश्च न विद्यात् ॥ ४५ ॥
प्रत्यभिवादमामन्त्रिते स्वरोन्त्यः प्लूयते सन्ध्यक्षरमप्रगृह्यमायाद्-
भावं चापद्यते यथा भो भाविति ॥ ४६ ॥
पतितः पिता परित्याज्यो माता तु पुत्रे न पतति ॥ ४७ ॥
अथाप्युदाहरन्ति ।
उपाध्यायाद्दशाचार्या आचार्याणां शतं पिता ।
पितुर्दशशतं माता गौरवेणातिरिच्यते ॥ ४८ ॥
भार्या पुत्राश्च शिष्याश्च संसृष्टाः पापकर्मभिः ।
परिभाष्य परित्याज्याः पतितो योन्यथा त्यजेत् ॥ ४९ ॥
ऋत्विगाचार्यावयाजकानध्यापकौ हेयावन्यत्र हानात्पतति ॥५०॥
पतितेनोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः ॥ ५१ ॥
सा हि परगामिनी ॥ ५२ ॥
तामरिक्थामुपेयात् ॥ ५३ ॥
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिरिष्यते ।
गुरुवद्गुरुपुत्रस्य वर्तितव्यमिति श्रुतिः ॥ ५४ ॥
शस्त्रं विषं सुरा चाप्रतिगृह्याणि ब्राह्मणस्य ॥ ५५ ॥
विद्यावित्तवयःसंबन्धाः कर्म च मान्यम् ॥ ५६ ॥
पूर्वः पूर्वो गरीयान् ॥ ५७ ॥
स्थविरबालातुरभारिकस्त्रीचक्रीवगतां पन्थाः समागमे परस्मै-
परस्मै देयः ॥ ५८ ॥
राजस्नातकयोः समागमे राज्ञा स्नातकाय देयः ॥ ५९ ॥
47. Compare Āpast. Dh. I, 28, 9 ; माता तु पुत्रं B. Bh. F.
वा. ध. ६.

Page 54Permalink

४०
सर्वैरैव वध्वा ऊह्यमानायै ॥ ६० ॥
तृणभूम्यग्न्युदकवाक्सूनृतानसूयाः सतां गृहे नोच्छिद्यन्ते कदा
च न कदा च नेति ॥ ६१ ॥
इति वासिष्ठधर्मशास्त्रे त्रयोदशोऽध्यायः ॥ १३ ॥
――――
अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥ १ ॥
चिकित्सकमृगयुपुंश्चलीदण्डिकस्तेनाभिशस्तषण्ढपतितानामन्नमभो-
ज्यम् ॥ २॥
कदर्यदीक्षितबद्धादुरसोमविक्रायितक्षरजकशौण्डिकसूचकवार्धुषिक-
चर्मावकृन्तानाम् ॥ ३ ॥
शूद्रस्य च ॥ ४ ॥
अस्त्रभृतश्च ॥ ५ ॥
उपपतेर्यश्चोपपतिं मन्यते ॥ ६ ॥
यश्च गृहान्दहेत् ॥ ७ ॥
यश्च वधार्हाञ्चोपहन्यात् ॥ ८ ॥
को भोक्ष्यत इति वाचाभिघुष्टम् ॥ ९ ॥
गणान्नं गणिकान्नं चेति ॥ १० ॥
अथाप्युदाहरन्ति ।
नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः ।
भार्याजितस्य नाश्नन्ति यस्य चोपपतिर्गृहे इति ॥ ११ ॥
――――
XIV. 2. शठ° instead of °षण्ढ° B. Ban. ed. °खण्ड° H. 3. °बद्धासु-
रसोम° H. °विक्रयितक्षक° Bh. E. H. विक्रयितस्कररजक° F. °सूचिक° B.
Ban. ed. E. F. H. 5. अस्त्रपूतस्य H. 6. °उपपत्तिं F. यश्चोपरि B. Ban. ed.

Page 55Permalink

[Page Header]
४१

एधोदकयवसकुशलाज(भ्युद्यतथानावसथशफरीप्रियङ्गुस्रग्गन्धम-
धुमांसानीत्येतेषां प्रतिगृह्णीयात् ॥ १२ ॥
अथाप्युदाहरन्ति ।
गुर्वर्थं दारमुज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं तत इति ॥ १३ ॥
न मृगयोरिषुचारिणः परिवर्ज्यमन्नम् ॥ १४ ॥
विज्ञायते हि । अगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चचार ।
तस्यांसंतरसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानाम् ॥ १५ ॥
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ।
उद्यतामाहृतां भिक्षां पुरस्तादप्रचोदिताम् ।
भोज्यां प्रजापतिर्मेने अपि दुष्कृतकारिणः ॥ १६ ॥
श्रद्दधानस्य भोक्तव्यं चोरस्यापि विशेषतः ।
न त्वेव बहुयाज्यस्य यश्चोपनयते बहून् ॥ १७ ॥
न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ १८ ॥
चिकित्सक्स्य मृगयोः शल्यहर्तुस्तु पापिनः ।
षण्ढस्य कुलटायाश्च उद्यतापि न गृह्यत इति ॥ १९ ॥
उच्छिष्टमगुरोर्भोज्यम् ॥ २० ॥
खमुच्छिष्टमुच्छिष्टोपहतं च ॥ २१ ॥
यद्श्वसनकेशकीटोपहतं च ॥ २२ ॥
कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्य भस्मनावकीर्य वाचा प्रशस्त-
मुपयुञ्जीत ॥ २३ ॥


  1. Ban. ed. F. H. connect विज्ञायते हि with the preceding Sūtra
  2. पाशिनः Bh. E. पाशिकः H. खण्डस्य E. H. 23. भोक्ष्य F. H.
Page 56Permalink

४२
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ।
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ २४ ॥
देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च ।
काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विसर्जयेत् ॥ २५ ॥
तस्मादन्नमपोद्धृत्य शेषं संस्कारमर्हति ।
द्रवाणां प्लावनेनैव घनानां प्रोक्षणेन तु ॥ २६ ॥
मार्जारमुखसंस्पृष्टं शुचि एव हि तद्भवेत् ॥ २७ ॥
अन्नं पर्युषितं भावदुष्टं सहल्लेखं पुनःसिद्धमाममांसं पक्वं च ॥ २८ ॥
कामं तु दध्ना घृतेन वाभिघारितमुपयुञ्जीत ॥ २९ ॥
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ।
घृतं वा यदि वा तैलं विप्रो नाद्यान्नखश्च्युतम् ।
यमस्तदशुचि प्राह तुल्यं गोमांसभक्षणैः ॥ ३० ॥
हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम् ॥ ३१ ॥
प्रदद्यान्न तु हस्तेन नायसेन कदा च नेति ॥ ३२ ॥
लशुनपलाण्डुक्याकुगृञ्जनश्लेष्मान्तकवृक्षनिर्यासलोहितव्रश्चनश्व—
काकावलीढशूद्रोच्छेपणभोजनेष्वतिकृच्छ्रः ॥ ३३ ॥
सन्धिनीक्षीरमवत्साक्षीरम् ॥ ३४ ॥
गोमहिष्यजानामनिर्दशाहानाम् ॥ ३५ ॥
27. जाङ्गलमुख° H. शुचिरेव thus all MSS. 28. सुरूल्लेखं Bh. E. 31
उपतिष्ठन्ते H. भुङ्क्ते च F. H. 33. केचुकः instead of क्यांकुः H. कपालं F
क्यान्हु E. After this Sūtra F. and H. only read अन्यत्र मधुमांसफल-
विहतैश्चाम्यश्वविप्रयोः कृच्छ्र इतरेषु ॥

Page 57Permalink

४३
अन्तर्नाव्युदकम् ॥ ३६ ॥
अपूपधानाकरम्भसक्तुवटकतैलपायसशाकानि शुक्तानि
वर्जयेत् ॥ ३७ ॥
अन्यांश्च क्षीरयवपिष्टविकारान् ॥ ३८ ॥
श्वाविच्छल्यकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः ॥ ३९ ॥
अनुष्ट्राः पशूनामन्यतोदन्ताश्च ॥ ४० ॥
मत्स्यानां वा चेटगवयशिशुमारनक्रकुलीराः ॥ ४१ ॥
विकृतरूपाः सर्पशीर्षाश्च ॥ ४२ ॥
गौरगवयशरभाश्च ॥ ४३ ॥
अनुद्दिष्टास्तथा ॥ ४४ ॥
धेन्वनडुहावपन्नदन्ताश्च ॥ ४५ ॥
भक्ष्यौ तु धेन्वनडुहौ मेध्यौ वाजसनेयके विज्ञायते ॥ ४६ ॥
खड्गे तु विवदन्त्यग्राम्यशूकरे च ॥ ४७ ॥
शकुनानां च विषुविष्किरजालपादकलविङ्कप्लवहंसचक्रवाकभासवाय-
सपारावतकुररसारङ्गाण्डकपोतक्रौञ्चक्रकरकङ्कगृध्रश्येनबकबलाक-
मद्गुटिट्टिभमान्धालनक्तञ्चरदार्वाघाटचटकैलातकाहारीतखञ्जरीट-
ग्राम्यकुकुटशुकशारिकोकिलक्रव्यादो ग्रामचारिणश्च ग्रामचारि-
णश्चेति ॥ ४८ ॥
इति वासिष्ठधर्मशास्त्रे चतुर्दशोऽध्यायः ॥ १४ ॥
37. नाशुक्तानि H. नाशुष्कानि F. नाशुल्कानि B. Ban. ed. 39. °शल्क°
F. H. 48. °कुक्कुट° B. E. F. °कुक्कुर° H. °माघार° B, Ban. ed. E.
माधां नक्तं° Bh. F. H. °टिट्टिभान्धनक्तं° J. O. 913. क्रव्यातः H.

Page 58Permalink

४४
शोणितशुक्रसंभवः पुरुषो भवति मातापितृनिमित्तकः ॥ १ ॥
तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः ॥ २ ॥
न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा ॥ ३ ॥
स हि सन्तानाय पूर्वेषाम् ॥ ४ ॥
न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुः ॥ ५ ॥
पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि च निवेद्य निवेशनस्य मध्ये
व्याहृतिभिर्हुत्वादूरबान्धवं बन्धुसन्निकृष्टमेव प्रतिगृह्णीयात् ॥ ६ ॥
सन्देहे चोत्पन्ने दूरेबान्धवं शूद्रमिव स्थापयेत् ॥ ७ ॥
विज्ञायते ह्येकेन बहूंस्त्रायत इति ॥ ८ ॥
तस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत चतुर्थभागभागी
स्याद्दत्तकः ॥ ९ ॥
यदि नाभ्युदयिकेषु युक्तः स्यात् ॥ १० ॥
वेदविप्लावकः शूद्रयाजक उत्तमवर्णवर्गपतितास्तेषां पात्रनि-
नयनम् ॥ ११ ॥
अपात्रसङ्करादकृत्स्नं पात्रमादाय दासोसवर्णपुत्रो वा बन्धुरसदृशो
वा गुणहीनः सव्येन पादेन प्रवृत्ताग्रान्दर्भाल्लोहितान्वोपस्तीर्य पूर्ण-
पात्रमस्मै निनयेत् ॥ १२ ॥
निनेतारं चास्य प्रकीर्णकेशा ज्ञातयोन्वालभेरन् ॥ १३ ॥
अपसव्यं कृत्वा गृहेषु स्वैरमापद्येरन् ॥ १४ ॥
अत ऊर्ध्वं न तं धर्मयेयुः ॥ १५ ॥
XV. 1. भवति wanted B. F. H. 3 त्वेवैकं B. न चैकं H. 5. न तु B.:
6. चावेद्य B. F. H. 10. उपयुक्तः Bh. 11. विप्लावाकिनः F. H. विष्ठावहीनः
13. नेतारं F.

Page 59Permalink

४५
तद्धर्माणस्तं धर्मयन्तः ॥ १६ ॥
पतितानां तु चरितव्रतानां प्रत्युद्धारः ॥ १७ ॥
अथाप्युदाहरन्ति ।
अग्रेभ्युद्धरतां गच्छेत्क्रीडन्निव हसन्निव ।
पश्चात्पातयतां गच्छेच्छोचन्निव रुदन्निवेति ॥ १८ ॥
आचार्यमातृपितृहन्तारस्तत्प्रसादादपयाप्याद्वा एषां तेषां प्रत्या-
पत्तिः ॥ १९ ॥
पुण्यह्रदात्प्रसृताद्वा काञ्चनं पात्रं माहेयं वा पूरयित्वापोहिष्ठाभि-
रैनमद्भिरभिषिञ्चन्ति ॥ २० ॥
सर्व एवाभिषिक्तस्य प्रत्युद्धारः पुत्रजन्मना व्याख्यातो व्याख्यात
इति ॥ २१ ॥
इति वासिष्ठधर्मशास्त्रे पञ्चदशोऽध्यायः ॥ १५ ॥
अथ व्यवहाराः ॥ १ ॥
राजा मन्त्री वा सद्यःकार्याणि कुर्यात् ॥ २ ॥
द्वयोर्विवदमानयोः पक्षान्तरं न गच्छेत् ॥ ३ ॥
यथासनमपराधोह्यन्तेनापराधः ॥ ४ ॥
समः सर्वेषु भूतेषु यथासनमपराधोह्याद्यवर्णयोर्विद्यान्ततः ॥ ५ ॥
संपन्नं च रक्षयेत् ॥ ६ ॥
राजबालधनानि ॥ ७ ॥
अप्राप्तव्यवहाराणाम् ॥ ८ ॥
16. ते न संघर्मयेयुः B. Bh. E. H. 19. एषां Bh. E. 20. पूर्णाद्वाद् thus
all MSS. except B. which reads पूर्णाद्वा दशाद्वब्दात्प्रवृत्ताद्वा.
XVI. 4. and 5. are evidently corrupt. 5. अद्यवर्णयोर्विधानतः J.O.
913. 6. सपत्नं च र° B. Ban. ed. संपन्नं च क्षरेत्तु H.

Page 60Permalink

४६
प्राप्तकाले तु तद्यत् ॥ ९ ॥
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
धनस्वीकरणं पूर्वं धनी धनमवाप्नुयादिति ॥ १० ॥
मार्गक्षेत्रेभ्यो विसर्गस्तथा परिवर्त्तनम् ॥ ११ ॥
तरुणगृहेष्वर्थान्तरेषु त्रिपादमात्रम् ॥ १२ ॥
गृहक्षेत्रविरोधे सामन्तप्रत्ययः ॥ १३ ॥
सामन्तविरोधे लेख्यप्रत्ययः ॥ १४ ॥
प्रत्यभिलेख्यविरोधे ग्रामनगरवृद्धश्रेणीप्रत्ययः ॥ १५ ॥
अथाप्युदाहरन्ति ।
पैतृकं क्रीतमाधेयमन्वाधेयं प्रतिग्रहम् ।
यज्ञादुपगमो वेणिस्तथा धूमशिखाष्टमीति ॥ १६ ॥
तत्र भुक्तानुभुक्तदशवर्षम् ॥ १७ ॥
अन्यथाप्युदाहरन्ति ।
आधिः सीमा बालधनो निक्षेपोपनिधिस्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं न संभोगेन हीयते ॥ १८ ॥
प्रहीणद्रव्याणि राजगामीनि भवन्ति ॥ १९ ॥
ततोन्यथा राजा मन्त्रिभिः सह नागरैश्च कार्याणि कुर्यात् ॥ २० ॥
वेधसो वा राजा श्रेयान्गृध्रपरिवारं स्यात् ॥ २१ ॥
गृध्रपरिवारं वा राजा श्रेयान् ॥ २२ ॥
गृध्रपरिवारं स्यान्न गृध्रो गृध्रपरिवारं स्यात् ॥ २३ ॥
परिवाराद्धि दोषाः प्रादुर्भवन्ति ॥ २४ ॥
11. मार्गे क्षेत्रे एज्यो बिसर्गे तथा Bh. E. H. मार्गेक्षेत्रयोर्विसर्गं तथा पारी-
वर्त्तने F. 12. त्रिपादपात्रं B. Ban. ed. 16. पन्त्रकं F. H. पैत्रकं B पत्रकां
E. Bh. प्रतिग्रहः K. 18. बालधनं निक्षेपोनिधी Manu Dh. 8, 149. तथा-
न्यथा B. Eh. 21-23. These three Sūtras are most probably
corrupt ;read वैतसः instead of वैधसः of all Mss.; अगृध्रपरिवारः K.
गृध्रपरिधारः K.

Page 61Permalink

४७
स्तेयहारविनाशनं च ॥ २५ ॥
तस्मात्पूर्वमेव परिवारं पृच्छेत् ॥ २६ ॥
अथ साक्षिणः ॥ २७ ॥
श्रोत्रियो रूपवाञ्शीलवान्पुण्यवान्सत्यवान्साक्षिणः ॥ २८ ॥
सर्वेषु सर्व एव वा ॥ २९ ॥
स्त्रीणां साक्षिणः स्त्रियः कुर्याद्द्विजानां सदृशा द्विजाः शूद्राणां सन्तः
शूद्राश्चान्त्यानामन्त्ययोनयः ॥ ३० ॥
अथाप्युदाहरन्ति ।
प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशिष्टं च न पुत्रो दातुमर्हति ॥ ३१ ॥
ब्रूहि साक्षिन्यथातत्त्वं लम्बन्ते पितरस्तव ।
तव वाक्यमुदीक्षाणा उत्पतन्ति पतन्ति च ॥ ३२ ॥
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ।
अन्धः शत्रुकुले गच्छेद्वः साक्ष्यमनृतं वदेत् ॥ ३३ ॥
पञ्च कन्यान्नृते हन्ति दश हन्तिगवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ३४ ॥
व्यवहारे मृते दारे प्रायश्चित्तं कुलस्त्रियाः ।
तेषां पूर्वपरिच्छेदाच्छिद्यन्तेत्रापवादिभिः ॥ ३५ ॥
उद्वाहकाले रतिसंप्रयोगे
प्राणात्यये सर्वधनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेयुः
पञ्चानृतान्याहुरपातकानि ॥ ३६ ॥
26. पश्चात्पूर्वं B. F. H. 27. साक्षिकः F. H. 28. गुणवान् E. H. 30. स्त्रीणां
तु F. H. 31. सैरिकं B. Ban. ed. 35. व्यवहेन्नृते पारे B. Ban. ed. द्वारे
Bh. E. चापवादिभिः B. H.
वासिष्ठ धर्म ७.
भारते ऽयमर्थो न यानुपूर्व्योक्तिः —
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन् विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥

Page 62Permalink

स्वजनस्वार्थे यदि वार्थहेतोः
पक्षाश्रयेणैव वदन्ति कार्यम् ।
ते शब्दवंशस्य कुलस्य पूर्वान्
स्वर्गस्थितांस्तानपि पातयन्ति ॥
अपि पातयन्तीति ॥ ३७ ॥
इति वासिष्ठधर्मशास्त्रे षोडशोऽध्यायः ॥ १६ ॥
ऋणमस्मिन्सन्नयत्यमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ १ ॥
अनन्ताः पुत्रिणां लोका नापुत्रस्य लोकोस्तीति श्रूयते ॥ २ ॥
अप्रजाः सन्तवत्रिण इत्यभिशापः ॥ ३ ॥
प्रजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो भवति ॥ ४ ॥
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपमिति ॥ ५ ॥
क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते ॥ ६ ॥
तत्रोभयथाप्युदाहरन्ति ॥ ७ ॥
यद्यन्यगोष्ठु वृषभो वत्सानां जनयेच्छतम् ।
गोमिनामेव ते वत्सा मोघं स्यन्दितमर्षभमिति ॥ ८ ॥ स्कन्दितमिति पाठः।
अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः। जनयितुः
पुत्रो भवति संपराये मोघं तेत्ता कुरुते तन्तुमेतमिति ॥ ९ ॥


पादटिप्पणी (Footnotes):

  1. पक्षाश्रयेणाभिवदन्ति कार्याः B. Ban. ed. H. द्वे शब्द° B. Ban. ed.
    H. कुलस्य दग्ध्वा स्वर्गं Ban. ed. दृष्ट्वा B. °स्थितानसपि B. Ban. ed.
    XVII. 8. यद्यन्यां गोषु B. Bh.. गोपानामेव E. 9. न जनयितुं B. Bh.
    E. H,, compare however Āpast Bh. II, 6. 13. 7. संपरायः B. Ban
    ed, H.
Page 63Permalink

४९
बहूनामेकजातानामेकश्चेत्पुत्रवान्नरः ।
सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ॥ १० ॥
वह्वीनामेकपत्नीनामेका पुत्रवती यदि ।
सर्वास्तास्तेन पुत्रेण पुत्रवन्त्य इति श्रुतिः ॥ ११ ॥
द्वादश इत्येव पुत्राः पुराणदृष्टाः ॥ १२ ॥
स्वयमुत्पादितः स्वक्षेत्रे संस्कृतायां प्रथमः ॥ १३ ॥
तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः ॥ १४ ॥
तृतीयः पुत्रिका ॥ १५ ॥
विज्ञायत अभ्रातृका पुंसः पितॄनभ्येति प्रतीचीनं गच्छति पुत्र-
त्वम् ॥ १६ ॥
तत्र श्लोकः ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥ १७ ॥
पौनर्भवश्चतुर्थः ॥ १८ ॥
या कौमारं भर्त्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव कुटुम्ब-
माश्रयति सा पुनर्भूर्भवति ॥ १९ ॥
या च क्लीबं पतितमुन्मत्तं वा भर्त्तारमुत्सृज्यान्यं पतिं विन्दते
मृते वा सा पुनर्भूर्भवति ॥ २० ॥
कानीनः पञ्चमः ॥ २१ ॥
यं पितृगृहेऽसंस्कृता कामादुत्पादयेन्मातामहस्य पुत्रो भवती-
त्याहुः ॥ २२ ॥
अथाप्युदाहरन्ति ।
अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
पुत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनमिति ॥ २३ ॥
19. पुनर्भूया B. F. H. 20. या वा B. F. H. 22. या E. H,

Page 64Permalink

५०

गृहे च गूढोत्पन्नः षष्ठः ॥ २४ ॥
इत्येते दायादा बान्धवास्त्रातारो महतो भयादित्याहुः ॥ २५ ॥
अथादायादबन्धूनां सहोढ एव प्रथमः ॥ २६ ॥
या गर्भिणी संस्क्रियते सहोढः पुत्रो भवति ॥ २७ ॥
दत्तको द्वितीयः ॥ २८ ॥
यं मातापितरौ दद्याताम् ॥ २९ ॥
क्रीतस्तृतीयः ॥ ३० ॥
तच्छुनःशेपेन व्याख्यातम् ॥ ३१ ॥
हरिश्चन्द्रो वै राजा सोजीगर्तस्य सौयवसेः पुत्रं चिक्राय ॥ ३२ ॥
स्वयमुपागतश्चतुर्थः ॥ ३३ ॥
तच्छुनःशेपेन व्याख्यातम् ॥ ३४ ॥
शुनःशेपो वै यूपे नियुक्तो देवतास्तुष्टाव । तस्येह देवताः
पाशं विमुमुचुस्तमृत्विज ऊचुः । ममैवायं पुत्रोस्त्विति तान्ह न
संपेदे । ते संपादयामासुः । एष एव यं कामयेत्तस्य पुत्रोस्त्विति ।
तस्य ह विश्वामित्रो होतासीत्तस्य पुत्रत्वमियाय ॥ ३५ ॥
अपविद्धः पञ्चमः ॥ ३६ ॥
यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात् ॥ ३७ ॥
शूद्रापुत्र एव षष्ठो भवतीत्याहुरित्येतेदायादबान्धवाः ॥ ३८ ॥
अथाप्युदाहरन्ति ।
यस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यादेते तस्य दायं
हरेरन्निति ॥ ३९ ॥
अथ भ्रातॄणां दायविभागः ॥ ४० ॥

  1. हरिश्चन्द्रोह वै F. H. विक्रीण्य B. विक्रीय Ban. ed. विक्रांय Bh.
    E. F. H. विक्राय्य स्वयं क्रीतवान् Calc. ed. J. O. 913. 34 °उपनयतः B.
    F. H. 35. यूपेन B. Bh. E. H. 39. सर्वेषां धर्माणं न E. पूर्वेषां वर्णानां न
    Bh. F. H.
Page 65Permalink

५१
याश्चानपत्यास्तासामा पुत्रलाभात् ॥ ४१ ॥
द्व्यंशं ज्येष्ठो हरेत् ॥ ४२ ॥
गवाश्वस्य चानुदशमम् ॥ ४३ ॥
अजावयो गृहं च कनिष्ठस्य ॥ ४४ ॥
कार्ष्णायसं गृहोपकरणानि च मध्यमस्य ॥ ४५ ॥
मातुः पारिणेयं स्त्रियो विभजेरन् ॥ ४६ ॥
यदि ब्राह्मणस्य ब्राह्मणीक्षत्रियावैश्यासु पुत्राः स्युः ॥ ४७ ॥
त्र्यंशं ब्राह्मण्याः पुत्रो हरेत् ॥ ४८ ॥
द्व्यंशं राजन्यायाः पुत्रः ॥ ४९ ॥
सममितरे विभजेरन् ॥ ५० ॥
येन चैषां स्वयमुत्पादितं स्याद् द्व्यंशमेव हरेत् ॥ ५१ ॥
अनंशास्त्वाश्रमन्तरगताः ॥ ५२ ॥
क्लीबोन्मत्तपतिताश्च ॥ ५३ ॥
भरणं क्लीबोन्मत्तानाम् ॥ ५४ ॥
प्रेतपत्नी षण्मासान्व्रतचारिण्यक्षारलवणं भुञ्जानाधः शयीत
॥ ५५ ॥
ऊर्ध्वं षड्भ्यो मासेभ्यः स्नात्वा श्राद्धं च पत्ये दत्त्वा विद्याकर्म-
गुरुयोनिसंबन्धान्संनिपात्य पिता भ्राता वा नियोगं कारयेत्
॥ ५६ ॥
न सोन्मादामवशां व्याधितां वा नियुञ्ज्यात् ॥ ५७ ॥
ज्यायसीमपि ॥ ५८ ॥
षोडश वर्षाणि ॥ ५९ ॥
न चेदामयावी स्यात् ॥ ६० ॥
47. यदि च E. H. 56. सन्नियोगं Ban. ed. H. 57. उन्मत्तां B, F. H.
perhaps वशां to be read instead of अवशां of all the Mss.

३. अध्याय १६-२१: राजधर्म, दण्ड, साक्ष्य व दायभाग

Page 66Permalink

५२
प्रजापत्ये मुहूर्ते पाणिग्राहवदुपचरेदन्यत्र संग्रहास्य वाक्पा-
रुष्यदण्डपारुष्याच्च ॥ ६१ ॥
ग्रासाच्छादनस्नानानुलेपनेषु प्राग्गामिनी स्यात् ॥ ६२ ॥
अनियुक्तायामुत्पन्न उत्पादचितुः पुत्रो भवतीत्याहुः ॥ ६३ ॥
स्याच्चेन्नियोगिनोः ॥ ६४ ॥
रिक्थलोभान्नास्ति नियोगः ॥ ६५ ॥
प्रायश्चित्तं वाप्युपदिश्य नियुञ्ज्यादित्येके ॥ ६६ ॥
कुमार्यृतुमती त्रीणि वर्षाण्युपासीत ॥ ६७ ॥
त्रिभ्यो वर्षेभ्यः पतिं विन्देत्तुल्यम् ॥ ६८ ॥
अथाप्युदाहरन्ति ।
पितुः प्रमादात्तु यदीह कन्या
वयःप्रमाणं समतीत्य दीयते ।
सा हन्ति दातारमुदीक्षमाणा
कालातिरिक्ता गुरुदक्षिणेव ॥ ६९ ॥
प्रयच्छेन्नग्निकां कन्यामृतुकालभयात्पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥ ७० ॥
यावन्तः कन्यामृतवः स्पृशन्ति
तुल्यैः सकामामभियाच्यमानाम् ।
भ्रूणानि तावन्ति हतानि ताभ्यां
मातापितृभ्यामिति धर्मवादः ॥ ७१ ॥
अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा ॥ ७२ ॥

  1. °नियोगिनो दृष्ट्वा Bh. E. F. H. 67. °उपसीतांध्ध्रं B. H. 71. यावन्ति
    F. H.
Page 67Permalink

बलाच्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ ७३ ॥
पाणिग्राहे मृते बाला केवलं मन्त्रसंस्कृता ।
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हतीति ॥ ७४ ॥
प्रोषितपत्नी पञ्च वर्षाण्युपासीत ॥ ७५ ॥
ऊर्ध्वं पञ्चभ्यो वर्षेभ्यो भर्तुस्सकाशं गच्छेत् ॥ ७६ ॥
यदि धर्मार्थाभ्यां प्रवासं प्रत्यनुकामा न स्याद्यथा प्रेत एवं वर्त्ति-
तव्यं स्यात् ॥ ७७ ॥
एवं ब्राह्मणी पञ्च प्रजाताप्रजाता चत्वारि राजन्या प्रजाता
पञ्चाप्रजाता त्रीणि वैश्या प्रजाता चत्वार्यप्रजाता द्वे शूद्रा प्रजाता
त्रीण्यप्रजातैकम् ॥ ७८ ॥
अत ऊर्ध्वं समानार्थजन्मपिण्डोदकगोत्राणां पूर्वः पूर्वो गरीयान्
॥ ७९ ॥
न तु खलु कुलीने विद्यमाने परगामिनी स्यात् ॥ ८० ॥
यस्य पूर्वेषां षण्णां न कश्चिद्वायादः स्यात्सपिण्डाः पुत्रस्थानीया
वा तस्य धनं विभजेरन् ॥ ८१ ॥
तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् ॥ ८२ ॥
तयोरलाभे राजा हरेत् ॥ ८३ ॥
न तु ब्राह्मणस्य राजा हरेत् ॥ ८४ ॥
ब्रह्मस्वं तु विषं घोरम् ॥ ८५ ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ॥ ८६ ॥


  1. पाणिग्राहसूते E. 78. यत्प्रजाता instead of अप्रजाता E. H. 86.
    °पौत्रिकं B. F. H.
Page 68Permalink

५४
त्रैविद्यसाधुभ्यः संप्रयच्छेद्संप्रयच्छेदिति ॥ ८७ ॥
इति वासिष्ठधर्मशास्त्रे सप्तदशोऽध्यायः ॥ १७ ॥

शूद्रेण ब्राह्मण्यामुत्पन्नश्चाण्डालो भवतीत्याहुः ॥ १ ॥
राजन्यायां वैणः ॥ २ ॥
वैश्यायामन्त्यावसायी ॥ ३ ॥
वैश्येन ब्राह्मण्यामुत्पन्नो रामक्रो भवतत्याहुः ॥ ४ ॥
राजन्यायां पुल्कसः ॥ ५ ॥
राजन्येन ब्राह्मण्यामुत्पन्नः सूतो भवतीत्याहुः ॥ ६ ॥
अथाप्युदाहरन्ति ।
छन्नोत्पन्नाश्च ये केचित्प्रातिलोम्यगुणाश्रिताः ।
गुणाचारपरिश्रंशात्कर्मभिस्तान्विजानीयुरिति ॥ ७ ॥
एकान्तराद्व्यन्तरात्त्र्यन्तरासु जाता ब्राह्मणक्षत्रियवैश्यैरम्बष्ठो-
ग्रनिषादा भवन्ति ॥ ८ ॥
शूद्राणां पारशवः ॥ ९ ॥
पारशवो नैव जीवन्नेव शवो भवतीत्याहुः ॥ १० ॥
एके वा एतच्छ्मशानं ये शूद्राः ॥ ११ ॥
तस्माच्छूद्रसमीपे नाध्येतव्यम् ॥ १२ ॥
अथापि यमगीताञ्श्लोकानुदाहरन्ति ।
श्मशानमेतत्प्रत्यक्षं ये शूद्राः पापचारिणः ।
तस्माच्छूद्रसमीपे तु नाध्येतव्यं कदा च न ॥ १३ ॥

XVIII. 4. रोमकः B. Ban. ed. F. उत्पन्नास्तु B. Ban. ed. °विभावयुं-
रिति B. H. 8. °अनुजता B. E. H. 10. पारशवं नैव K. शव इति मृताख्या
thus all MSS., but it is an interpolation.

Page 69Permalink

५५
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ १४ ॥
यश्चास्योपदिशेद्धर्मं यश्चास्य व्रतमादिशेत् ।
सोसंवृत्तं तमो घोरं सह तेन प्रपद्यत इति ॥ १५ ॥
व्रणद्वारे कृमिर्यस्य संभवेत् कदा च न ।
प्राजापत्येन शुध्येत हिरण्यं गौर्वासो दक्षिणा इति ॥ १६ ॥
नाग्निं चित्वा रामामुपेयात् ॥ १७ ॥
कृष्णवर्णा या रामा रमणायैव न धर्माय न धर्मायेति ॥ १८ ॥
इति वासिष्ठधर्मशास्त्रेष्टादशोध्यायः ॥१८ ॥
स्वधर्मो राज्ञः पालनं भूतानां तस्यानुष्ठानात्सिद्धिः ॥ १ ॥
भयकारुण्यहानं जरामर्यं वा एतत्सच्रमाहुर्विद्वांसः ॥ २ ॥
तस्माद्बार्हस्थ्यनैयमिकेषु पुरोहितं दध्यात् ॥ ३ ॥
विज्ञायते । ब्रह्मपुरोहितं राष्ट्रमृध्नोतीति ॥ ४ ॥
उभयस्य पालनात् ॥ ५ ॥
असामर्थ्याच्च ॥ ६ ॥
देशधर्मजातिकुलधर्मान्सर्वानेवैताननुप्रविश्य राजा चतुरो वर्णा-
न्स्वधर्मे स्थापयेत् ॥ ७ ॥
तेष्वपचरत्सु दण्डं धारयेत् ॥ ८ ॥
दण्डस्तु देशकालधर्मवयोविद्यास्थानविशेषैर्हिंसाक्रोशयोः कल्प्यः
॥ ९ ॥
आगमाद्दृष्टान्ताच्च ॥ १० ॥
15. सुखं वृतं E. F.
XIX. 2. This Sūtra seems to be faulty. 3. दद्यात्. F. H. 4.
ऋध्यतिः E. H. 9. कल्पः Ban. ed. कल्पाः Bh. E. H.
वासिष्ठ धर्म ८.

Page 70Permalink

५६
पुष्पफलोपगान्पादपान्न हिंस्यात् ॥ ११ ॥
कर्षणकारणार्थं चोपहन्यात् ॥ १२ ॥
गार्हस्थ्याङ्गानां च मानोन्माने रक्षिते स्याताम् ॥ १३ ॥
अधिष्ठानान्न नीहारः स्वार्थानाम् ॥ १४ ॥
मानमूल्यमात्रं नैहारिकं स्यात् ॥ १५ ॥
महामहयोः स्थानात्पथः स्यात् ॥ १६ ॥
संयाने दशवाहवाहिनी द्विगुणकारिणी स्यात् ॥ १७ ॥
प्रत्येकं प्रपाः स्युः ॥ १८ ॥
पुंसां शतावराध्ये चाहवयेत् ॥ १९ ॥
अन्वर्थाः स्त्रियः स्युः ॥ २० ॥
कराष्ठीला माषः शरमध्यापः पादः कार्षापणाः स्युः ॥ २१ ॥
निरुदकस्तरो मोष्यः ॥ २२ ॥
अकरः श्रोत्रियो राजपुमाननाथप्रव्रजितबालवृद्धतरुणप्रजाताः
॥ २३ ॥
प्राग्गामिकाः कुमार्यो मृतपत्न्यश्च ॥ २४ ॥
बाहुभ्यामुत्तरञ्छतगुणं दद्यात् ॥ २५ ॥
नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युः ॥ २६ ॥
तदुपजीविनो वा दद्युः ॥ २७ ॥
प्रतिमासमुद्वाहकंरं त्वागमयेत् ॥ २८ ॥
राजनि च प्रेते दद्यात्प्रासङ्गिकम् ॥ २९ ॥
एतेन मातृवृत्तिर्व्याख्याता ॥ ३० ॥
11. °उपगान्यदेयानि F. H. 16. स्थानमन्यथा Bh. पयः F. H. 20. अप्य-
प्याः B. F. 21. करोष्टीमो मीषः B. Ban. ed. करोष्टौ मामीपः E. करो-
ष्टोमा माषाः Bh. H. 23. प्रदाताः thus all MSS., प्रदातारः Ban. ed. see
XI., 7. 28. °उद्वाहकैरस्तु B. E. H.

Page 71Permalink

५७
राजमहिष्याः पितृव्यमातुलान्राजा बिभृयात् ॥ ३१ ॥
तद्बन्धूंश्चान्यांश्च ॥ ३२ ॥
राजपत्न्यो ग्रासाच्छादनं लभेरन् ॥ ३३ ॥
अनिच्छन्त्यो वा प्रव्रजेरन् ॥ ३४ ॥
क्लीवोन्मत्तान् राजा बिभृयात् ॥ ३५ ॥
तद्गामित्वादरिक्थस्य ॥ ३६ ॥
शुल्के चापि मानवं श्लोकमुदाहरन्ति ।
न भिन्नकार्षापणमस्ति शुल्के
न शिल्पवृत्तौ न शिशौ न दूते ।
न भैक्षलब्धे न हुतावशेषे
न श्रोत्रिये प्रव्रजिते न यज्ञ इति ॥ ३७ ॥
स्तेनो नुप्रवेशान्न दुष्यते ॥ ३८ ॥
शस्त्रधारी सहोढो व्रणसंपन्नो व्यपदिष्टस्त्वेकेषाम् ॥ ३९ ॥
दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् ॥ ४० ॥
त्रिरात्रं पुरोहितः ॥ ४१ ॥
कृच्छ्रमदण्ड्यदण्डने पुरोहितः ॥ ४२ ॥
त्रिरात्रं राजा ॥ ४३ ॥
अथाप्युदाहरन्ति ।
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ ४४ ॥ (मनौ ८।३१७॥)
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ४५ ॥ (मनौ ८।३१८)
कृतदण्डा इति च तत्र पाठः ।
39. °संपन्नस्य व्यपावदृस्तु thus all, MSS.