Skip to content
SarvaKosh
Back to the archive

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

by महर्षि वसिष्ठ / डॉ. अलोइस फुहरर

DevanagariSanskritpublished106 pages

३. अध्याय १६-२१: राजधर्म, दण्ड, साक्ष्य व दायभाग

Page 66Permalink

५२
प्रजापत्ये मुहूर्ते पाणिग्राहवदुपचरेदन्यत्र संग्रहास्य वाक्पा-
रुष्यदण्डपारुष्याच्च ॥ ६१ ॥
ग्रासाच्छादनस्नानानुलेपनेषु प्राग्गामिनी स्यात् ॥ ६२ ॥
अनियुक्तायामुत्पन्न उत्पादचितुः पुत्रो भवतीत्याहुः ॥ ६३ ॥
स्याच्चेन्नियोगिनोः ॥ ६४ ॥
रिक्थलोभान्नास्ति नियोगः ॥ ६५ ॥
प्रायश्चित्तं वाप्युपदिश्य नियुञ्ज्यादित्येके ॥ ६६ ॥
कुमार्यृतुमती त्रीणि वर्षाण्युपासीत ॥ ६७ ॥
त्रिभ्यो वर्षेभ्यः पतिं विन्देत्तुल्यम् ॥ ६८ ॥
अथाप्युदाहरन्ति ।
पितुः प्रमादात्तु यदीह कन्या
वयःप्रमाणं समतीत्य दीयते ।
सा हन्ति दातारमुदीक्षमाणा
कालातिरिक्ता गुरुदक्षिणेव ॥ ६९ ॥
प्रयच्छेन्नग्निकां कन्यामृतुकालभयात्पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥ ७० ॥
यावन्तः कन्यामृतवः स्पृशन्ति
तुल्यैः सकामामभियाच्यमानाम् ।
भ्रूणानि तावन्ति हतानि ताभ्यां
मातापितृभ्यामिति धर्मवादः ॥ ७१ ॥
अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा ॥ ७२ ॥

  1. °नियोगिनो दृष्ट्वा Bh. E. F. H. 67. °उपसीतांध्ध्रं B. H. 71. यावन्ति
    F. H.
Page 67Permalink

बलाच्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ ७३ ॥
पाणिग्राहे मृते बाला केवलं मन्त्रसंस्कृता ।
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हतीति ॥ ७४ ॥
प्रोषितपत्नी पञ्च वर्षाण्युपासीत ॥ ७५ ॥
ऊर्ध्वं पञ्चभ्यो वर्षेभ्यो भर्तुस्सकाशं गच्छेत् ॥ ७६ ॥
यदि धर्मार्थाभ्यां प्रवासं प्रत्यनुकामा न स्याद्यथा प्रेत एवं वर्त्ति-
तव्यं स्यात् ॥ ७७ ॥
एवं ब्राह्मणी पञ्च प्रजाताप्रजाता चत्वारि राजन्या प्रजाता
पञ्चाप्रजाता त्रीणि वैश्या प्रजाता चत्वार्यप्रजाता द्वे शूद्रा प्रजाता
त्रीण्यप्रजातैकम् ॥ ७८ ॥
अत ऊर्ध्वं समानार्थजन्मपिण्डोदकगोत्राणां पूर्वः पूर्वो गरीयान्
॥ ७९ ॥
न तु खलु कुलीने विद्यमाने परगामिनी स्यात् ॥ ८० ॥
यस्य पूर्वेषां षण्णां न कश्चिद्वायादः स्यात्सपिण्डाः पुत्रस्थानीया
वा तस्य धनं विभजेरन् ॥ ८१ ॥
तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् ॥ ८२ ॥
तयोरलाभे राजा हरेत् ॥ ८३ ॥
न तु ब्राह्मणस्य राजा हरेत् ॥ ८४ ॥
ब्रह्मस्वं तु विषं घोरम् ॥ ८५ ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ॥ ८६ ॥


  1. पाणिग्राहसूते E. 78. यत्प्रजाता instead of अप्रजाता E. H. 86.
    °पौत्रिकं B. F. H.
Page 68Permalink

५४
त्रैविद्यसाधुभ्यः संप्रयच्छेद्संप्रयच्छेदिति ॥ ८७ ॥
इति वासिष्ठधर्मशास्त्रे सप्तदशोऽध्यायः ॥ १७ ॥

शूद्रेण ब्राह्मण्यामुत्पन्नश्चाण्डालो भवतीत्याहुः ॥ १ ॥
राजन्यायां वैणः ॥ २ ॥
वैश्यायामन्त्यावसायी ॥ ३ ॥
वैश्येन ब्राह्मण्यामुत्पन्नो रामक्रो भवतत्याहुः ॥ ४ ॥
राजन्यायां पुल्कसः ॥ ५ ॥
राजन्येन ब्राह्मण्यामुत्पन्नः सूतो भवतीत्याहुः ॥ ६ ॥
अथाप्युदाहरन्ति ।
छन्नोत्पन्नाश्च ये केचित्प्रातिलोम्यगुणाश्रिताः ।
गुणाचारपरिश्रंशात्कर्मभिस्तान्विजानीयुरिति ॥ ७ ॥
एकान्तराद्व्यन्तरात्त्र्यन्तरासु जाता ब्राह्मणक्षत्रियवैश्यैरम्बष्ठो-
ग्रनिषादा भवन्ति ॥ ८ ॥
शूद्राणां पारशवः ॥ ९ ॥
पारशवो नैव जीवन्नेव शवो भवतीत्याहुः ॥ १० ॥
एके वा एतच्छ्मशानं ये शूद्राः ॥ ११ ॥
तस्माच्छूद्रसमीपे नाध्येतव्यम् ॥ १२ ॥
अथापि यमगीताञ्श्लोकानुदाहरन्ति ।
श्मशानमेतत्प्रत्यक्षं ये शूद्राः पापचारिणः ।
तस्माच्छूद्रसमीपे तु नाध्येतव्यं कदा च न ॥ १३ ॥

XVIII. 4. रोमकः B. Ban. ed. F. उत्पन्नास्तु B. Ban. ed. °विभावयुं-
रिति B. H. 8. °अनुजता B. E. H. 10. पारशवं नैव K. शव इति मृताख्या
thus all MSS., but it is an interpolation.

Page 69Permalink

५५
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ १४ ॥
यश्चास्योपदिशेद्धर्मं यश्चास्य व्रतमादिशेत् ।
सोसंवृत्तं तमो घोरं सह तेन प्रपद्यत इति ॥ १५ ॥
व्रणद्वारे कृमिर्यस्य संभवेत् कदा च न ।
प्राजापत्येन शुध्येत हिरण्यं गौर्वासो दक्षिणा इति ॥ १६ ॥
नाग्निं चित्वा रामामुपेयात् ॥ १७ ॥
कृष्णवर्णा या रामा रमणायैव न धर्माय न धर्मायेति ॥ १८ ॥
इति वासिष्ठधर्मशास्त्रेष्टादशोध्यायः ॥१८ ॥
स्वधर्मो राज्ञः पालनं भूतानां तस्यानुष्ठानात्सिद्धिः ॥ १ ॥
भयकारुण्यहानं जरामर्यं वा एतत्सच्रमाहुर्विद्वांसः ॥ २ ॥
तस्माद्बार्हस्थ्यनैयमिकेषु पुरोहितं दध्यात् ॥ ३ ॥
विज्ञायते । ब्रह्मपुरोहितं राष्ट्रमृध्नोतीति ॥ ४ ॥
उभयस्य पालनात् ॥ ५ ॥
असामर्थ्याच्च ॥ ६ ॥
देशधर्मजातिकुलधर्मान्सर्वानेवैताननुप्रविश्य राजा चतुरो वर्णा-
न्स्वधर्मे स्थापयेत् ॥ ७ ॥
तेष्वपचरत्सु दण्डं धारयेत् ॥ ८ ॥
दण्डस्तु देशकालधर्मवयोविद्यास्थानविशेषैर्हिंसाक्रोशयोः कल्प्यः
॥ ९ ॥
आगमाद्दृष्टान्ताच्च ॥ १० ॥
15. सुखं वृतं E. F.
XIX. 2. This Sūtra seems to be faulty. 3. दद्यात्. F. H. 4.
ऋध्यतिः E. H. 9. कल्पः Ban. ed. कल्पाः Bh. E. H.
वासिष्ठ धर्म ८.

Page 70Permalink

५६
पुष्पफलोपगान्पादपान्न हिंस्यात् ॥ ११ ॥
कर्षणकारणार्थं चोपहन्यात् ॥ १२ ॥
गार्हस्थ्याङ्गानां च मानोन्माने रक्षिते स्याताम् ॥ १३ ॥
अधिष्ठानान्न नीहारः स्वार्थानाम् ॥ १४ ॥
मानमूल्यमात्रं नैहारिकं स्यात् ॥ १५ ॥
महामहयोः स्थानात्पथः स्यात् ॥ १६ ॥
संयाने दशवाहवाहिनी द्विगुणकारिणी स्यात् ॥ १७ ॥
प्रत्येकं प्रपाः स्युः ॥ १८ ॥
पुंसां शतावराध्ये चाहवयेत् ॥ १९ ॥
अन्वर्थाः स्त्रियः स्युः ॥ २० ॥
कराष्ठीला माषः शरमध्यापः पादः कार्षापणाः स्युः ॥ २१ ॥
निरुदकस्तरो मोष्यः ॥ २२ ॥
अकरः श्रोत्रियो राजपुमाननाथप्रव्रजितबालवृद्धतरुणप्रजाताः
॥ २३ ॥
प्राग्गामिकाः कुमार्यो मृतपत्न्यश्च ॥ २४ ॥
बाहुभ्यामुत्तरञ्छतगुणं दद्यात् ॥ २५ ॥
नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युः ॥ २६ ॥
तदुपजीविनो वा दद्युः ॥ २७ ॥
प्रतिमासमुद्वाहकंरं त्वागमयेत् ॥ २८ ॥
राजनि च प्रेते दद्यात्प्रासङ्गिकम् ॥ २९ ॥
एतेन मातृवृत्तिर्व्याख्याता ॥ ३० ॥
11. °उपगान्यदेयानि F. H. 16. स्थानमन्यथा Bh. पयः F. H. 20. अप्य-
प्याः B. F. 21. करोष्टीमो मीषः B. Ban. ed. करोष्टौ मामीपः E. करो-
ष्टोमा माषाः Bh. H. 23. प्रदाताः thus all MSS., प्रदातारः Ban. ed. see
XI., 7. 28. °उद्वाहकैरस्तु B. E. H.

Page 71Permalink

५७
राजमहिष्याः पितृव्यमातुलान्राजा बिभृयात् ॥ ३१ ॥
तद्बन्धूंश्चान्यांश्च ॥ ३२ ॥
राजपत्न्यो ग्रासाच्छादनं लभेरन् ॥ ३३ ॥
अनिच्छन्त्यो वा प्रव्रजेरन् ॥ ३४ ॥
क्लीवोन्मत्तान् राजा बिभृयात् ॥ ३५ ॥
तद्गामित्वादरिक्थस्य ॥ ३६ ॥
शुल्के चापि मानवं श्लोकमुदाहरन्ति ।
न भिन्नकार्षापणमस्ति शुल्के
न शिल्पवृत्तौ न शिशौ न दूते ।
न भैक्षलब्धे न हुतावशेषे
न श्रोत्रिये प्रव्रजिते न यज्ञ इति ॥ ३७ ॥
स्तेनो नुप्रवेशान्न दुष्यते ॥ ३८ ॥
शस्त्रधारी सहोढो व्रणसंपन्नो व्यपदिष्टस्त्वेकेषाम् ॥ ३९ ॥
दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् ॥ ४० ॥
त्रिरात्रं पुरोहितः ॥ ४१ ॥
कृच्छ्रमदण्ड्यदण्डने पुरोहितः ॥ ४२ ॥
त्रिरात्रं राजा ॥ ४३ ॥
अथाप्युदाहरन्ति ।
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ ४४ ॥ (मनौ ८।३१७॥)
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ४५ ॥ (मनौ ८।३१८)
कृतदण्डा इति च तत्र पाठः ।
39. °संपन्नस्य व्यपावदृस्तु thus all, MSS.

Page 72Permalink

एनो राजानमृच्छति उत्सृजन्तं सकिल्विषम् ।
तं चेद्वा घातयेद्राजा हन्ति धर्मेण दुष्कृतमिति ॥ ४६ ॥
राज्ञामात्ययिके कार्ये सद्यः शौचं विधीयते ।
तथा नात्ययिके नित्यं काल एवात्र कारणमिति ॥ ४७ ॥
यमगीतं चात्र श्लोकमुदाहरन्ति ।
नाद्य दोषोस्ति राज्ञां वै व्रतिनां न च सत्रिणाम् ।
ऐन्द्रस्थानमुपासीना ब्रह्मभूता हि ते सदेति ॥
हि ते सदेति ॥ ४८ ॥
इति वासिष्ठधर्मशास्त्रे एकोनविंशोध्यायः ॥ १९ ॥
अनभिसंधिकृते प्रायश्चित्तमपराधे ॥ १ ॥
अभिसंधिकृतेप्येके ॥ २ ॥
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यम इति ॥ ३ ॥
तत्र च सूर्याभ्युदितः सन्नहस्तिष्ठेत्सावित्रीं च जपेत् ॥ ४ ॥
एवं सूर्याभिनिर्मुक्तो रात्रावासीत् ॥ ५ ॥
कुनखी श्यावदन्तस्तु कृच्छ्रं द्वादशरात्रं चरेत् ॥ ६ ॥
परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत्
॥ ७ ॥
अथ परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्नि-
विशेत तां चैवोपयच्छेत् ॥ ८ ॥
46. तं चेद्घातयेत राजा राजधर्मेण दुष्यति F. H. ज्ञान्त B. 48. नाद्य E.
H. मन्त्रिणं E. H.
XX. 4. °अभ्युद्यितः B. Bh. E. H.

Page 73Permalink

५९
अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविक्षेत तां चोप-
यच्छेत् ॥ ९ ॥
दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निंविशेत्
॥ १० ॥
वीरहणं परस्ताद्वक्ष्यामः ॥ ११ ॥
ब्रह्मोञ्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्यात्
॥ १२ ॥
गुरुतल्पगः सवृषणं शिश्नमुद्धृत्याञ्जलावाधाय दक्षिणामुखो गच्छे-
द्यत्रैव प्रतिहन्यात्तत्र तिष्ठेदाप्रलयम् ॥ १३ ॥
निष्कालको वा घृताभ्यक्तस्तप्तां सूर्मीं परिष्वजेन्मरणात्पूतो भव-
तीति विज्ञायते ॥ १४ ॥
आचार्यपुत्रशिष्यभार्यासु चैवम् ॥ १५ ॥
योनिषु गुर्वी सखीं गुरुसखीमपपात्रां पतितां च गत्वा कृच्छ्रा-
ब्दपादं चरेत् ॥ १६ ॥
एतदेव चाण्डालपतितान्नभोजनेषु ततः पुनरुपनयनं वपनादीनां
तु निवृत्तिः ॥ १७ ॥
मानवं चात्र श्लोकमुदाहरन्ति ।
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
एतानि तु निवर्तन्ते पुनःसंस्कारकर्मणीति ॥ १८ ॥ (११।१५१॥)
मत्या मद्यपाने त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतं
प्राश्य पुनःसंस्कारश्च ॥ १९ ॥
मूत्रशकृच्छुक्राभ्यवहारेषु चैवम् ॥ २० ॥
11. वोरणं B. Bh. E. 12. ब्रह्मघ्नः F. ब्रह्मोझः E. H. ब्रह्मोकः B. Bh.
14. निष्कलङ्को वा घृताक्तस्तप्तां F. E. 16. योनिषु च F. H.

(वाम पार्श्व टिप्पणी): निवर्तन्ते द्विजातीनामिति च तत्र पाठः।

Page 74Permalink

६०
मद्यभाण्डे स्थिता आपो यदि कश्चिद्विजः पिबेत्पद्मोडुम्बरबिल्व-
पलाशानमुदकं पीत्वा त्रिरात्रेणैव शुध्यति ॥ २१ ॥
अभ्यासे तु सुराया अग्निवर्णां तां द्विजः पिबेन्मरणात्पूतो भवतीति
॥ २२ ॥
भ्रूणहनं वक्ष्यामो ब्राह्मणं हत्वा भ्रूणहा भवत्यविज्ञातं च
गर्भम् ॥ २३ ॥
अविज्ञाता हि गर्भाः पुमांसो भवन्ति तत्मात्पुंस्कृत्या जुह्वतीति
॥ २४ ॥
भ्रूणहाग्निमुपसमाधाय जुहुयादेताः ॥ २५ ॥
लोमानि मृत्योर्जुहोमि लोमभिर्मृत्युं वासय इति प्रथमां ।
त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वासय इति द्वितीयां । लोहितं
मृत्योर्जुहोमि लोहितेन मृत्युं वासय इति तृतीयां । मांसं मृत्यो-
र्जुहोमि मांसेन मृत्युं वासय इति चतुर्थीं । स्नावानि मृत्यो-
र्जुहोमि स्नावभिर्मृत्युं वासय इति पञ्चमीं । मेदो मृत्योर्जुहोमि
मेदसा मृत्युं वासय इति षष्ठीं । अस्थीनि मृत्योर्जुहोम्यस्थि-
भिर्मृत्युं वासय इति सप्तमीं । मज्जानं मृत्योर्जुहोमि मज्जाभिर्मृत्युं
वासय इत्यष्टमीमिति ॥ २६ ॥
राजार्थे ब्राह्मणार्थे वा संग्रामेऽभिमुखमात्मानं घातयेत् ॥ २७ ॥
त्रिरजितो वापराद्धः पूतो भवतीति विज्ञायते हि ॥ २८ ॥
निरुक्तं ह्येनः कनीयो भवतीति ॥ २९ ॥
21. पिबेत्कुशमोडुम्बर °Ban. ed. 24. पुस्कृत B. H. पुरस्कृत्य Bh.
E. H. 25. एता: wanted F. H. 26. वाशय B. F. प्रथम। द्विताय and
so on F. H. 27. शवार्थे F. 28. त्रिरजितो वापराद्धं: Bh. E. विरजितो-
व्यापराद्धः H. व्यापराधः F. this Sūtra seems to be corrupt,
compare Āpast. Dh. I, 24, 21 and Gautama 22, 8.

Page 75Permalink

६१
तथाप्युदाहरन्ति ।
पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः ।
वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेदिति ॥ ३० ॥
एवं राजन्यं हत्वाष्टौ वर्षाणि चरेत् ॥ ३१ ॥
षड् वैश्यम् ॥ ३२ ॥
त्रीणि शूद्रम् ॥ ३३ ॥
ब्राह्मणीं चात्रेयीं हत्वा सवनगतौ च राजन्यवैश्यौ ॥ ३४ ॥
आत्रेयीं वक्ष्यामो रजस्वलामृतुस्नातामात्रेयीमाहुः ॥ ३५ ॥
अत्र ह्रोष्यदपत्यं भवतीति ॥ ३६ ॥
अनात्रेयीं राजन्यहिंसायाम् ॥ ३७ ॥
राजन्यां वैश्यहिंसायाम् ॥ ३८ ॥
वैश्यां शूद्रहिंसायाम् ॥ ३९ ॥
शूद्रां हत्वा संवत्सरम् ॥ ४० ॥
ब्राह्मणसुवर्णहरणे प्रकीर्य केशानराजानमभिधावेत्स्तेनोस्मि भोः
शास्तु मां भवानिति तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनात्मानं
प्रमापयेन्मरणात्पूतो भवतीति विज्ञायते ॥ ४१ ॥
निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमभिदा- शरीरम्
हयेन्मरणात्पूतो भवतीति विज्ञायते ॥ ४२ ॥ इत्यर्थः ।
अथाप्युदाहरन्ति ।
पुरा कालात्प्रमीतानां पापाद्द्विविधकर्मणाम् ।
पुनरापन्नदेहानामङ्गं भवति तच्छृणु ॥ ४३ ॥
स्तेनः कुनखी भवति श्वित्री भवति ब्रह्महा ।
सुरापः श्यावदन्तस्तु दुश्चर्मा गुरुतल्पग इति ॥ ४४ ॥
36. ह्रोष्वदम्पत्यं B. ह्रेपामपत्यं E. H. ह्रोष्यमपत्यं Bh. ह्रष्पदपलं F. 43.
यथाप्युदाहरन्ति Bh. E.

Page 76Permalink

६२
पतितसंप्रयोगे च ब्राह्मेण वा यौनेन वा यास्तेभ्यः सकाशा-
न्माता उपलब्धास्तासां परित्यागस्तैश्च न संवसेत् ॥ ४५ ॥
उदीचीं दिशं गत्वानश्नन्संहिताध्ययनमधीयानः पूतो भवतीति
विज्ञायते ॥ ४६ ॥
तथाप्युदाहरन्ति ।
शरीरपरितापेन तपसाध्ययनेन च ।
मुच्यते पापकृत्यापाद्दानाच्चापि प्रमुच्यते ॥
इति विज्ञायते विज्ञायत इति ॥ ४७ ॥
इति वासिष्ठधर्मशास्त्रे विंशोध्यायः ॥ २० ॥
शूद्रश्चेद्व्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येद्व्राह्मण्याः
शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां कृष्णख-
रमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ १ ॥
वैश्यश्चेद्व्राह्मणीमभिगच्छेल्लोहितदर्भैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येद्व्रा-
ह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां गौर-
खरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ २ ॥
राजन्यश्चेद्व्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्ये-
द्व्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां
श्वेतखरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते
॥ ३ ॥
एवं वैश्यो राजन्यायाम् ॥ ४ ॥
45. °संप्रयोगं च B. Bh. Ban. ed. XXI. 1. 2. 3. प्राश्येत् B. Ban.
ed. H. वापनं Bh. E. H. सर्पिषाभ्यज्य B. H.

Page 77Permalink

६३
शूद्रश्च राजन्यवैश्ययोः ॥ ५ ॥
मनसा भर्तुरतिचारे त्रिरात्रं यावकं क्षीरोदनं वा भुञ्जानाधः
शयीतोर्ध्वं त्रिरात्रादप्सु निमग्नायाः सावित्र्याष्टशतेन शिरोभि-
र्जुहुयात्पूता भवतीति विज्ञायते ॥ ६ ॥
वाक्संबन्ध एतदेव मासं चरित्वोर्ध्वं मासादप्सु निमग्नायाः
सावित्र्याश्चतसृभिरष्टशतैः शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते
॥ ७ ॥
व्यवाये तु संवत्सरं घृतपटं धारयेद्गोमयगर्ते कुशप्रस्तरे वा
शयीतोर्ध्वं संवत्सरादप्सु निमग्नायाः सावित्र्यष्टशतेन शिरो-
भिर्जुहुयात्पूता भवतीति विज्ञायते ॥ ८ ॥
व्यवाये तीर्थगमने धर्मेभ्यस्तु निवर्तते ॥ ९ ॥
चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥ १० ॥
या ब्राह्मणी च सुरापी न तां देवाः पतिलोकं नयन्तीहैव सा
चरति क्षीणपुण्याप्सु लुम्भवति शुक्तिका वा ॥ ११ ॥
ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ १२ ॥
प्रतिलोमं चरेयुस्ताः कृच्छ्रं चान्द्रायणोत्तरम् ॥ १३ ॥
पतिव्रतानां गृहमेधिनीनां
सत्यव्रतानां च शुचिव्रतानाम् ।
तासां तु लोकाः पतिभिः समाना
गोमायुलोका व्यभिचारिणीनाम् ॥ १४ ॥
9. व्यवायतीर्थगमनधर्मेभ्यः Colebrooke IV., Dig. LXXVI., 10. पतिघ्नि
तु B. F. H. 11. शूकरी वा Colebrooke IV., Dig. CXIII, 12. ते नराः
F. H.
वासिष्ठधर्म ९.

Page 78Permalink

६४
पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर्न विधीयते ॥ १५ ॥
ब्राह्मणश्चेदप्रेक्षापूर्वं ब्राह्मणदारानभिगच्छेदनिवृत्तधर्मकर्मणः
कृच्छ्रो निवृत्तधर्मकर्मणोऽतिकृच्छ्रः ॥ १६ ॥
एवं राजन्यवैश्ययोः ॥ १७ ॥
गां चेद्धन्यात्तस्याश्चर्मणार्द्रेण परिवेष्टितः षण्मासान्कृच्छ्रं तप्तकृच्छ्रं
वातिष्ठेत् ॥ १८ ॥
तयोर्विधिः ॥ १९ ॥
त्र्यहं दिवा भुङ्क्ते नक्तमश्नाति वै त्र्यहमपि ।
त्र्यहमयाचितव्रतस्त्र्यहं न भुङ्गिति कृच्छ्रः ॥ २० ॥
त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत् ।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥
इति तप्तकृच्छ्रः ॥ २१ ॥
ऋषभवेहतौ च दद्यात् ॥ २२ ॥
अथाप्युदाहरन्ति ।
त्रय एव पुरा रोगा ईर्ष्या अनशनं जरा ।
पृषद्वस्तवयं हत्वा अष्टानवतिमाहरेदिति ॥ २३ ॥
श्वमार्जारनकुलसर्पदर्दुरमूषकान्हत्वा कृच्छ्रं द्वादशरात्रं चरेत्किंचि-
दद्यात् ॥ २४ ॥
अनस्थिमतां तु सत्त्वानां गोमात्रं राशिं हत्वा कृच्छ्रं द्वादशरात्रं
चरेत्किंचिद्दद्यात् ॥ २५ ॥
अस्थिमतां त्वेकैकम् ॥ २६ ॥
16. ब्राह्मणश्चेत्प्रेक्षापूर्वं F. H. 23. वृषद्वस्तनयं Bh. Ban. ed.; वृषद्ध-
स्तनयं F. H. प्रबधस्तनयं F. 24. 25. चरेच्च किंचित् B. Ban. ed. H.

Page 79Permalink

६५
योग्नीनपविध्येत्कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधानं कारयेत्
॥ २७ ॥
गुरोश्चालीकनिर्वन्धे सचैलं स्नातो गुरुं प्रसादयेत्प्रसादात्पूतो
भवतीति विज्ञायते ॥ २८ ॥
नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन्नास्तिक्यात् ॥२९॥
नास्तिकवृत्तिस्त्वतिकृच्छ्रम् ॥ ३० ॥
एतेन सोमविक्रयी व्याख्यातः ॥ ३१ ॥
वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षे वर्धयेत्
॥ ३२ ॥
भिक्षुकैर्वानप्रस्थवत्सोमवृद्धिवर्धनं स्वशास्त्रसंस्कारश्च स्वशास्त्र-
संस्कारश्चेति ॥ ३३ ॥
इति वासिष्ठधर्मशास्त्रे एकविंशोध्यायः ॥ २१ ॥
अथ खल्वयं पुरुषो मिथ्या व्याकरोत्ययाज्यं वा याजयत्यप्र-
तिग्राह्यं वा प्रतिगृह्णात्यनन्नं वाश्नात्यनाचरणीयमेवाचरति ॥१॥
तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते ॥ २ ॥
न कुर्यादित्याहुः ॥ ३ ॥
न हि कर्म क्षीयत इति ॥ ४ ॥
कुर्यादित्येव तस्माच्छ्रुतिनिदर्शनात् ॥ ५ ॥
27. चरित्वा विरमेन्नास्तिक्यात्पुनराधानं न कारयेत् F. विरमेन्नास्ति पुनराधानं
Bh. E. H. न कारयेत् B. 28. गुरोश्चालीकं निवेद्य F. H. ॰निर्वन्धः B.
Bh. perhaps it has to be read : अलीकं निवेद्य. 30. नास्तिक्यवृ॰
B. F. H. 33. वानप्रस्थवल्लोभवृद्धिवर्जनं F. H.
XXII. 1. वाश्नात्यचरणीयेन वा चरति B. F. H. 5. दर्शनात् B. Bh.
F. The text appears here to be corrupt. After Sūtra 5 Baudhā-
yana III. 10, 6, and Gautama XIX. 7, read : पुनः स्तोमेन यजेत
[ स्तोमेनेष्ट्वा Gaut. ] पुनः सवनमायान्तीति विज्ञायते, which Sūtra has

Page 80Permalink

६६
तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योश्वमेधेन यजत इति ॥६॥
इति चाभिशस्तो गोसवेनाग्निष्टुता यजेत ॥ ७ ॥
तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥ ८ ॥
उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दःसंहिता मधून्यघमर्षण-
मथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनी कूष्माण्डानि
पावमान्यः सावित्री चेति पावनानि ॥ ९ ॥
अथाप्युदाहरन्ति ।
वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च ।
सकृदृतौ प्रयुञ्जानः पुनाति दशपूरुषमिति ॥ १० ॥
उपवासन्यायेन पयोव्रतता फलभक्षता प्रसृतयावको हिरण्य-
प्राशनं सोमपानमिति मेध्यानि ॥ ११ ॥
सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्यृषि-
निवासगोष्ठपरिस्कन्धा इति देशाः ॥ १२ ॥
संवत्सरो मासश्चतुर्विंशत्यहो द्वादशाहः षडहस्त्र्यहोहोरात्रा इति
कालाः ॥ १३ ॥
एतान्येवानादेशे विकल्पेन क्रियेरन् ॥ १४ ॥
एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ १५ ॥
been left out. This omission caused the insertion of the
words तस्माच्छ्रुतिनिदर्शनान् at the end of Sūtra 5. The proof that
the sixth Sūtra of Baudhāyana has been accidently omitted
is furnished by the fact that B.Bh.E.and H.read Sūtra 6 योश्वमे-
धेन यजत इति च. This च has no meaning, except if another Vedic
passage preceded Sūtra 6. See Buhler, Transl., pg. 116. 6.
भ्रूणहत्यां Bh. E. H. 8. निष्क्रमणानि Bh. E.H. 10. ऋतावृत्तौ H. सामावृत्तौ
Bh. सकृज्जतौ E. F. सप्तपूरुषं E. 11. उपासन्त्यायेन B. E. H. उपासन्न्यायेन
Bh. उपन्प्यायेन F. 12. पुण्या वरतास्तीर्थानि B. E. पुण्या नद्यस्तर्थानि F.
गोष्ठपरिकन्धाः B. गोष्ठपरिकंक्षाः Bh. F. H. ऋषिनिवासाः B.H. 14. एतान्ये
वानादेशविकल्पेन Bh. E. H.

Page 81Permalink

कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तिः ⸢सर्वप्रायश्चित्ति-
रिति ॥ १६ ॥
इति वासिष्ठधर्मशास्त्रे द्वाविंशोऽध्यायः ॥ २२ ॥
ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं
गर्दभं पशुमालभेत ॥ १ ॥
नैर्ऋतं वा चरुं निर्वपेत् ॥ २ ॥
तस्य जुहुयात्कामाय स्वाहा कामकामाय स्वाहा नैर्ऋत्यै स्वाहा
रक्षोदेवताभ्यः स्वाहेति ॥ ३ ॥
एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु वा समावर्त-
नात् ॥ ४ ॥
तिर्यग्योनिन्यवाये शुक्लमृषभं दद्यात् ॥ ५ ॥
गां गत्वा शूद्रावधेन दोषो व्याख्यातः ॥ ६ ॥
ब्रह्मचारिणः शवकर्मणो व्रतान्निवृत्तिः ॥ ७ ॥
अन्यत्र मातापित्रोः ॥ ८ ॥
स चेन्नाधीयीत कामं गुरोरुच्छिष्टं भेषजार्थं सर्वं प्राश्नीयात् ॥ ९ ॥
गुरुप्रयुक्तश्चेन्म्रियेत त्रीन्कृच्छ्रांश्चरेद्गुरुः ॥ १० ॥
ब्रह्मचारी चेन्मांसमश्नीयादुच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं च-
रित्वा व्रतशेषं समापयेत् ॥ ११ ॥
श्राद्धसूतकभोजनेषु चैवम् ॥ १२ ॥
XXIII. 1. आलभेत Bh. आलेभेत E. H. 2. निर्ऋतं E. H. 4. एव
रक्षसः E. 5. After this Sūtra B. F. H. read: कृष्णलिङ्गं दद्यात.
6. शुक्ललिङ्गं गां गत्वा B. F. H. 11. अश्नीयाच्छिष्टभोजनीयं B. H,
संमाचरेत् Bh. E. H. 12. चैवमव F. H.

Page 82Permalink

६८
अकामतोपनतं मधु वाजसनेयके न दुष्यतीति विज्ञायते ॥ १३ ॥
य आत्मत्याग्यभिशस्तो भवति सपिण्डानां प्रेतकर्मच्छेदः ॥ १४ ॥
काष्ठजलोष्टपाषाणशस्त्रविषरज्जुभिर्य आत्मानमवसादयति स
आत्महा भवति ॥ १५ ॥
अथाप्युदाहरन्ति ।
य आत्मत्यागिनः कुर्यात्स्नेहात्प्रेतक्रियां द्विजः ।
स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणव्रतमिति ॥ १६ ॥
चान्द्रायणं परस्ताद्वक्ष्यामः ॥ १७ ॥
आत्महननाध्यवसाये त्रिरात्रम् ॥ १८ ॥
जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत्त्रिरात्रं ह्युपवसेन्नित्यं
क्लिन्नेन वाससा प्राणानात्मनि चायम्य त्रिः पठेद्घमर्षणमिति
॥ १९ ॥
अपि वैतेन कल्पेन गायत्रीं परिवर्तयेत् ॥ २० ॥
अपि वाग्निमुपसमाधाय कूष्माण्डैर्जुहुयाद्धृतम् ॥ २१ ॥
यच्चान्यन्महापातकेभ्यः सर्वमेतेन पूयत इति ॥ २२ ॥
अथाप्याचमेदग्निश्च मा मन्युश्चेति प्रातर्मनसा पापं ध्यात्वोंपूर्वाः
सत्यान्ता व्याहृतीर्जपेदघमर्षणं वा पठेत् ॥ २३ ॥
मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचम् ॥ २४ ॥
अस्निग्धे त्वहोरात्रम् ॥ २५ ॥
शवानुगमने चैवम् ॥ २६ ॥
13. अकामोपनतं K. कामापन्नं Bh. E. H. अकामतोपनं F. A gloss
in B. refers to Śūlapāni's Prāyaśchittaviveka, 112. 20. चैतेन
F. H. 21. चाग्नि B. F. H. 23. ध्यात्वा B. E. F. H.

Page 83Permalink

६९
अधीयानानामन्तरागमनेहोरात्रमभोजनम् ॥ २७ ॥
त्रिरात्रमभिषेको विवासश्चान्योन्येन ॥ २८ ॥
श्वमार्जारनकुलशीघ्रगाणामहोरात्रम् ॥ २९ ॥
श्वकुकुक्कुटग्राम्यशूकरकङ्कगृध्रभासपारावतमानुषकाकोलूकमांसा-
दने सप्तरात्रमुपवासो निष्पुरीषीभावो घृतप्राशः पुनः संस्कारश्च
॥ ३० ॥
ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य ततः शुचिरिति ॥ ३१ ॥
कालोऽग्निर्मनसः शुद्धिरुदकार्कावलोकनम् ।
अविज्ञातं च भूतानां षड्विधा शुद्धिरिष्यत इति ॥ ३२ ॥
श्वचाण्डालपतितोपस्पर्शनै सचैलं स्नातः सद्यः पूतो भवतीति
विज्ञायते ॥ ३३ ॥
पतितचाण्डालारावश्रवणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन्
॥ ३४ ॥
सहस्त्रपरमं वा तदभ्यसन्तः पूता भवन्तीति विज्ञायते ॥ ३५ ॥
एतेनैव गर्हिताध्यापकयाजका व्याख्याता दक्षिणात्यागाच्च पूता
भवन्तीति विज्ञायते ॥ ३६ ॥
एतेनैवाभिशस्तो व्याख्यातः ॥ ३७ ॥
भ्रूणहत्यायां द्वादशरात्रमब्भक्षो द्वादशरात्रमुपवसेत् ॥ ३८ ॥
27. आधीयानमन्तराग° F. H. 28. अभिषेख: B. अभिषेक्तो F.
30. °सूकर° B. Ban. ed. बङ्क instead of कङ्क B. Ban. ed.
°भासवायसपां° B. Ban. ed. Bh. E. F. H. °काकोलूकानां सादने B.
-Ban. ed. Bh. E. F. H. 32. °उदकाग्न्यवलेखनं B. F. उदक्यान्यत्र सेखनं
H. 34. °चाण्डालाशववहने E. 35. वा नन्दभ्यः सन्तः F. H. तदभ्य
स्यन्तः B. 38. अथापरं भ्रूण B. F. H.

Page 84Permalink

७०
ब्राह्मणमनृतेनाभिशंस्य पतनीयेनोपपतनीयेन वा मासमब्भक्षः
शुद्धवतीरावर्तयेत् ॥ ३९ ॥
अश्वमेधावभृथं वा गच्छेत् ॥ ४० ॥
एतेनैव चाण्डालीव्यवायो व्याख्यातः ॥ ४१ ॥
अथापरः कृच्छ्रविधिः साधारणो व्यूढः ॥ ४२ ॥
अहः प्रातरहर्नक्तमहरेकमयाचितम् ।
अहः पराकं तन्त्रैकमेवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः ।
बालवृद्धातुरेष्वेवं शिशुकृच्छ्रमुवाच ह ॥ ४३ ॥
अथ चान्द्रायणविधिः ॥ ४४ ॥
मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश ।
ग्रासोपचयभोजी स्यात्पक्षशेषं समापयेत् ॥
एवं हि शुक्लपक्षादौ ग्रासमेकं तु भक्षयेत् ।
ग्रासापचयभोजी स्यात्पक्षशेषं समापयेत् ॥ ४५ ॥
अत्रैव गायेत्सामानि अपि वा व्याहतीर्जपेत् ॥ ४६ ॥
एष चान्द्रायणो मासः पवित्रमृषिसंस्तुतः ।
अनादिष्टेषु सर्वेषु प्रायश्चित्तं विधीयते ॥
विधीयत इति
इति वासिष्ठधर्मशास्त्रे त्रयोविंशोऽध्यायः ॥ २३ ॥
अथातिकृच्छ्रः ॥ १ ॥
त्र्यहं प्रातस्तथा सायमायाचितं पराक इति कृच्छ्रो यावत्स-
क्तुदाददीत तावदश्नीयात्पूर्ववत्सोतिकृच्छ्रः ॥ २ ॥
43° वृद्धातुरैश्चैव E. 46. अथ वा E,
XXIV. 1. अथातः कृच्छ्रः B. F, H.

Page 85Permalink

[Page number] ७१

कृच्छ्रोन्मक्षः स कृच्छ्रातिकृच्छ्रः ॥ ३ ॥
कृच्छ्राणां व्रतरूपाणि ॥ ४ ॥
श्मश्रुकेशान्वापयेहूत्रोक्षिलोमशिखावर्जं नखानिकृत्यैकवासोनि-
न्दितभोजी [ सकृद्भैक्षमनिन्दितं ] त्रिषवणमुदकोपस्पर्शी दण्डी
कमण्डलुः स्त्रीशूद्रसंभाषणवर्जी स्थानासनशीलोऽहस्तिष्ठेद्रात्रावासी-
त्याह भगवान्वसिष्ठः ॥ ५ ॥
स तद्यदेतद्धर्मशास्त्रं नापुत्राय नाशिष्याय नासंवत्सरोषिताय
दद्यात् ॥ ६ ॥
सहस्रं दक्षिणा ऋषभैकादशा गुरुप्रसादो वा गुरुप्रसादो वेति ॥७॥
इति वासिष्ठधर्मशास्त्रे चतुर्विंशोऽध्यायः ॥ २४ ॥

अविख्यापितदोषाणां पापानां महतां तथा ।
सर्वेषां चोपपापानां शुद्धिं वक्ष्याम्यशेषतः ॥ १ ॥
आहिताग्नेर्विनीतस्य वृद्धस्य विदुषोपि वा ।
रहस्योक्तं प्रायश्चित्तं पूर्वोक्तमितरे जनाः ॥ २ ॥
प्राणायामैः पवित्रैश्च दानैर्होमैर्जपैस्तथा ।
नित्ययुक्ताः प्रमुच्यन्ते पातकेभ्यो न संशयः ॥ ३ ॥
प्राणायामान्पवित्राणि व्याहृतीः प्रणवं तथा ।
पवित्रपाणिरासीनो ब्रह्म नित्यकमभ्यसेत् ॥ ४ ॥

  1. ॰वांसानिन्दित॰ B. Ban. ed. H. कमण्डलुं B. Bh. E. H. F.; the
    text appears to be corrupt, the compound in brackets is undo-
    ubtedly a gloss. 6. सतत्यानुदेति धर्म॰ B. Bh. E. सतयानुदेत॰ धर्म H.
    यातपानुदेति F. सतपा नुदति Ban. ed., perhaps it has to be read सते
    or सता यत्तूदितं धर्म॰ compare Baudh. 4, 4, 9 तदेतद्धर्म॰.
    XXV. 1. प्रविख्यापित॰ F. H. 2. अहस्तु प्रायश्चित्तं तु F. 4. प्राणा॰
    यामाः पवि॰ B. Ban. ed. F. H.
    वासिष्ठ धर्म १०.