वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
by भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती)
About this granth
The Vaiyakarana Siddhanta Kaumudi (वैयाकरणसिद्धान्तकौमुदी) of Bhattoji Dikshita, a seventeenth-century grammarian, rearranges the sutras of Panini's Ashtadhyayi by topic instead of their original order. That arrangement made it the standard route into Paninian grammar in traditional schools.
This volume is the first half (purvardha) of the Kaumudi. It is catalogued with the two most widely studied commentaries, Vasudeva Dikshita's Balamanorama and Jnanendra Sarasvati's Tattvabodhini. The opening pages carry verses of gratitude to Maharajas Ram Singh and Madho Singh of Jaipur, in which the author of the notes names himself as Mahamahopadhyaya Pandit Shivadatta Sharma Dadhimatha of Jaipur.
Sections include the Maheshvara Sutras, technical terms and metarules, vowel, consonant and visarga sandhi, the karaka rules for all seven cases, and the compounds (avyayibhava, tatpurusha, bahuvrihi, dvandva). At 835 pages it serves advanced students reading sutra, gloss and commentary together.
विभाषा साति कात्स्न्ये । ५।४।५२ ॥ च्विविषये सातिर्वा स्यात्साकल्ये ॥ सात्प-
दाद्योः ।८।३।१११ ॥ सस्य षत्वं न स्यात् ॥ दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्नि-
साद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि ॥ कात्स्न्ये किम् । एकदेशेन शुक्लीभवति
पटः ॥ अभिविधौ संपदा च । ५।४।५३ ॥ संपदा कृन्वस्तिभिश्च योगे सातिर्वा
स्याद्व्याप्तौ ॥ पक्षे कृन्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अभिसात्संपद्यते अग्निसाद्भवति
शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलीभवति लवणम् ॥ एकस्या व्यक्तेः सर्वावयवाव-
च्छेदेनान्यथाभावः कात्स्न्र्यम् । बहूनां व्यक्तीनां किंचिदवयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥
तदधीनवचने । ५।४।५४ ॥ सातिः स्यात्कृन्वस्तिभिः संपदा च योगे ॥ राजसात्करोति ।
राजसात्संपद्यते । राजाधीनमित्यर्थः ॥ देये त्रा च । ५।४।५५ ॥ तदधीने देये त्रा स्यात्सा-
तिश्च कृम्वाद्योगे ॥ विप्राधीनं देयं करोति विप्रत्रा करोति । विप्रत्रा संपद्यते । पक्षे विप्रसा-
त्करोति ॥ देये किम् ? राजसाद्भवति राष्ट्रम् ॥ देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्विती-
यासप्तम्योर्बहुलम् । ५।४।५६ ॥ एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् ॥
देवत्रा वन्दे रमे वा ॥ बहुलोक्तेरन्यत्रापि—बहुत्रा जीवतो मनः ॥ अव्यक्तानुकरणाद्
द्व्यजवरार्धानितौ डाच् । ५।४।५७ ॥ द्व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अने-
काजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृन्वस्तिभिर्योगे ॥ डाचि विवक्षिते द्वे
बहुलम् * ॥ नित्यमाम्रेडिते डाचीति वक्तव्यम् * ॥ डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपर-
योर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति ॥ अव्यक्तानुकरणा-
त्किम् । दृषत्करोति ॥ द्व्यजवरार्धात्किम् ? श्रत्करोति ॥ अवरेति किम् ? खरटखरटाकरोति ।
त्रपटत्रपटाकरोति ' ॥ अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे
सुवचेत्यवधेयम् ॥ अनितौ किम् ? पटिति करोति ॥ कृञो द्वितीयतृतीयशम्बबी-
जात्कृषौ ५।४।५८ ॥ द्वितीयादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे ॥ बहुलोक्ते-
रव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् ॥ द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति ।
तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बा-
करोति । बीजेन सह कर्षति बीजाकरोति ॥ संख्यायाश्च गुणान्तायाः । ५।४।५९ ॥
कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥
"समयाच्च यापनायाम् । ५।४।६० ॥ कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् ॥
समयाकरोति । कालं यापयतीत्यर्थः ॥ सपत्रनिष्पत्रादतिव्यथने । ५।४।६१ ॥
सपत्रा करोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्रा करोति । सपुङ्खस्य
शरस्यापरपार्श्वेन निर्गमनान्निष्पत्रं करोतीत्यर्थः ॥ अतिव्यथने किम् । सपत्रं निष्पत्रं वा
करोति भूत लम् ॥ निष्कुलान्निष्कोपणे । ५।४।६२ ॥ निष्कुला करोति दाडिमम् ।
निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥ सुखप्रियादानुलोम्ये ।
५।४।६३ ॥ सुखा करोति । प्रिया करोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥
दुःखात्प्रातिलोम्ये । ५।४।६४ ॥ दुःखा करोति स्वामिनम् । पीडयतीत्यर्थः ॥ शूला-
त्पाके ।५।४।६५ ॥ शूला करोति मांसम् । शूलेन पचतीत्यर्थः ॥ सत्यादशपथे ।
५।४।६६ ॥ सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं
करोति विप्रः ॥ भद्रात्परिवापणे ।५।४।६७ ॥ भद्रशब्दो मङ्गलार्थः । परिवापणं
मुण्डनम् । भद्रा करोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥ भद्राञ्चेति वक्तव्यम् * ॥
भद्राकरोति । अर्थः प्राग्वत् ॥ परिवापणे किम् ? भद्रं करोति । भद्रं करोति ॥
इति तद्धितप्रकरणम् ।
अथ द्विरुक्तप्रकरणम् ।
सर्वस्य द्वे ।८।१।१ ॥ इत्यधिकृत्य ॥ नित्यवीप्सयोः ।८।१।४ ॥ आभीक्ष्ण्ये
वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात् ॥ आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च
पचति पचति । भुक्त्वा भुक्त्वा । वीप्सायाम्—वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ॥
परेर्वर्जने ।८।१।५ ॥ परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहृत्येत्यर्थः ॥ परेर्वर्जने वा
वचनम् ॥ * ॥ परि वङ्गेभ्यः ॥ उपर्यध्यधसः सामीप्ये ।८।१।७ ॥ उपर्युपरि ग्रामम् ।
ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः ॥ अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःख-
मित्यर्थः । अधोधो लोकम् । लोकस्याधस्तात्समीपे देशे इत्यर्थः ॥ वाक्यादेरामन्त्रित-
स्याऽसूयासम्मतिकोपकुत्सनभर्त्सनेषु । ८ । १ । ८ ॥ असूयायाम्—सुन्दर सुन्दर
वृथा ते सौन्दर्यम् । संमतौ—देव देव वन्द्योसि । कोपे—दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि ।
कुत्सने—धानुष्क धानुष्क वृथा ते धनुः । भर्त्सने—चोर चोर घातयिष्यामि त्वाम् ॥ एकं
बहुव्रीहिवत् । ८ । १ । ९ ॥ द्विरुक्त एकशब्दो बहुव्रीहिवत्स्यात् ॥ तेन सुब्लोपपुंवद्भावौ ॥
एकैकमक्षरम् । इह द्वयोरपि सुपोलुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् ।
एकैकयाहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहावित्यत्र पुनर्बहुव्रीहिग्रहणं
मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतानस्त्येवेति प्राञ्चः ॥ वस्तुतस्तु भाष्य-
मते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहाविती-
हातिदेशशङ्कैव नास्ति । एकैकास्मै देहि ॥ आबाधे च । ८ । १ । १० ॥ पीडायां द्योत्यायां
द्वे स्तो बहुव्रीहिवच्च ॥ गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् ।
गतगता । इह पुंवद्भावः ॥ कर्मधारयवदुत्तरेषु । ८ । १ । ११ ॥ इत उत्तरेषु द्विर्वचनेषु
कर्मधारयवत्कार्यम् । प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि ॥ प्रकारे गुणवचनस्य ।
। ८ । १।१२ ॥ सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । कर्मधारयवदुत्तरेष्वि-
त्यधिकारात् । तेन पूर्वभागस्य पुंवद्भावः । समासस्येत्यन्तोदात्तत्वं च । पटुपट्वी । पटुपटुः ।
पटुसदृशः । ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते ।
शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः ॥ आनुपूर्व्ये द्वे वाच्ये * ॥ मूलेमूले स्थूलः ॥ संभ्रमेण
प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः * ॥ सर्पःसर्पः बुध्यस्व २ । सर्पः ३ बुध्यस्व ३
क्रियासमभिहारे च * ॥ लुनीहिलुनीहीत्येवायं लुनाति । नित्यवीप्सयोरिति सिद्धे भृशार्थे
द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समुचित्य द्योतकतां लब्धुं वा ॥ कर्मव्यतिहारे
सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम् * ॥ बहुलग्रहणादन्यपरयोर्न समासवत् । इतरश-
ब्दस्य तु नित्यम् ॥ असमासवद्भावे पूर्वपदस्य सुपः सुर्वक्तव्यः*॥ अन्योन्यं विप्रा नमन्ति।
अन्योन्यौ । अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । अन्योन्येषां पुष्करै-
रामृशन्त इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरे-
तरेणेत्यादि ॥ स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः * ॥ अन्यो-
न्याम् । अन्योन्यम् । परस्पराम् । परस्परम् । इतरेतराम् । इतरेतरं वा इमे ब्राह्मण्यौ कुले वा
भोजयतः ॥ अत्र केचित्—आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन
स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्ववि-
भक्तीनामामादेशमाहुः ॥
दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः ॥
समासे सोरलुक्चेति सिद्धं बाहुलकात्त्रयम् ॥ १ ॥
तथाहि । अन्योन्यं परस्परमित्यत्र दलद्वयेऽपि टाप् प्राप्तः । न च 'सर्वनाम्नो वृत्ति-
मात्रे पुंवद्भावः' । अन्यपरयोरसमासवद्भावात् । नच द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः
प्रैक्षत कातराक्षीं सा सा' इत्यादावतिप्रसङ्गात् । अन्योन्यमितरेतरमित्यत्र च 'अद्ड्डतरा-
दिभ्य इत्याद् प्राप्तः । 'अन्योन्यसंसक्तमहत्त्रियामम्' । अन्योन्याश्रयः । परस्पराक्षिसादृश्यम् ।
अदृष्टपरस्परैरित्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणं
'स्त्रियामिति सूत्रे 'अन्योन्यसंश्रयं त्वेतद्' इति भाष्यं चात्र प्रमाणमिति ॥ अकृच्छ्रे प्रियसुख-
योरन्यतरस्याम् ।८।१।१३ ॥ प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति ।
सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुब्लुकि पुनस्तदेव वचनम् । अतिप्रियमपि वस्त्व-
नायासेन ददातीत्यर्थः ॥ यथास्वे यथायथम् ।८।१।१४ ॥ यथास्वमिति वीप्सायामव्य-
यीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते ॥
यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ॥ द्वन्द्वं रहस्यमर्यादावच-
नव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु । ८ । १ । १५ ॥ द्विशब्दस्य द्विर्वचनं पूर्व-
पदस्याम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु ॥ तत्र रहस्यं द्वन्द्वशब्दस्य
वाच्यम् । इतरे विषयभूताः ॥ द्वन्द्वं मन्त्रयंते । रहस्यमित्यर्थः ॥ मर्यादा स्थित्यनतिक्रमः ।
आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति—पौत्रेण प्रपौत्रेणा-
पीत्यर्थः ॥ व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः । द्विवर्गसंबन्धेन पृथगवस्थिताः ॥
द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ द्वन्द्वं संकर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योग-
विभागादन्यत्रापि द्वन्द्वमिष्यते ॥
इति द्विरुक्तप्रकरणम् ।
॥ इति श्रीमद्भट्टोजीदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्धं समाप्तम् ॥
इति श्रीदाधिमथशिवदत्तविनिर्मितायां सारदर्शिन्यां द्विरुक्तप्रक्रिया समाप्ता ।
शिवदत्तो दाधिमथष्टिप्पणीं सारदर्शिनीम् ।
दधिमथ्याः प्रसादेन पूर्वार्धे समपूपुरत् ॥
परस्मैपदानांमपि प्रत्ययत्वात् तेषां
[Wait: आत्मनेपदपरस्मैपदानांमपि or आत्मनेपदपरस्मैपदानान्मपि or आत्मनेपदपरस्मैपदानाम्?
Look at: "आत्मनेपदपरस्मैपदानांमपि" or "आत्मनेपदपरस्मैपदानान्मपि"?
It says: "आत्मनेपदपरस्मैपदानान्मपि" or "आत्मनेपदपरस्मैपदानाम्"?
Wait, look at: "आत्मनेपदपरस्मैपदानान्मपि":
आ त्म ने प द प र स्मै प दा ना म पि -> look at the anusvara and 'म':
पदानांमपि or पदानामपि?
There is an anusvara: पदानांमपि!]
[L...] च “अनुदात्तङित आत्मनेपदम्” इत्यादिभिर्विधानेऽपि तृतीयाध्यायगोचरत्वाभावात् पदव्यवस्थाप्रकरणयो-
[L...] जनमत्रासङ्गतमित्यपास्तम् ॥
Wait, let's re-examine:
"श्रौत्रैार्हन्तीचगणैर्गुण्यैर्महर्षिभिरहर्दिवम् ।"
Wait! Look at the first line of the verse again!
Could it be:
श्रौत्रैरन्तेवासिगणैर्?
Let's look at the letters:
श्रौ - त्रै -
then a stroke: is it
तत्रादौ दश लकाराः प्रदर्श्यन्ते-लट् । लिट् । लुट् । लृट् । लेट् । लोट् । लङ् ।
लिङ् । लुङ् । लृङ् ॥ एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ॥ वर्तमाने लट् ।३।२।
१२३ ॥ वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥ लः कर्मणि च भावे चाक-
१ तत्रेति । तत्र=तृतीयाध्यायगोचरेषु प्रत्ययेषु । आदौ दश लकाराः प्रदर्श्यन्ते इत्यर्थः ।
अनुबन्धभेदेन लकाराणां भेदाद् दशविधत्वम् । "प्रदर्श्यन्ते" = इत्यस्य स्वरूपतस्तदादेशतस्तद्रूपादितश्च
प्रदर्श्यन्ते इत्यर्थः । सर्वनिरूपण एव च तस्य तात्पर्यम् । उपरिष्टाच्च "एषु पञ्चमो लकारश्छन्दो-
मात्रगोचरः" इति वक्ष्यमाणतया तादृशस्य च लकारस्य वैदिकप्रक्रियायामेव निरूपणीयतया तत्रैव
तस्य स्वरूपरूपादिकं प्रादर्शि । एवं च उत्सर्गापवादस्थल इव संकोचस्यावश्यकतया तदतिरिक्तानां
नवानां लकाराणां स्वरूपरूपाभ्यां प्रदर्शनमादिमे तिङन्तप्रकरणे प्रतिज्ञातं भवतीति तथैव कृतत्वान्न काप्यनु-
पपत्तिः । "दश लकाराः" इति "दश" पदं तु लकाराणां "लः कर्मणि च" इत्यादि विधीनां
वस्तुतो दशत्वमिति ज्ञापनायैव । तथा च स्वरूपस्वभावाभ्यामादिमे तिङन्तप्रकरणे प्रदर्श्यमानेषु लकारेषु
न दशत्वं विशेषणं सत् तेन रूपेण लकाराणां प्रदर्श्यमानतां बोधयति, किं तु उपलक्षणं सत् वस्तुतो
ये दश लकारास्तेषु योग्यताबलान्नवानां लकाराणां स्वरूपस्वभावाभ्यां प्रदर्शनं बोधयतीति फलितम् ॥
२ सूत्रकृता तत्रतत्र निर्दिष्टानि लकाराणां स्वरूपान्याह-लट् लिडित्यादिना । अत्र प्रथमतः षट् टितः ।
पश्चात् ङितो निर्दिष्टाः प्रत्याहारस्थवर्णक्रमानुरोधेन ॥ ३ पञ्चम इति । लेडित्यर्थः । तस्य च पञ्चमत्वं
स्वोक्तक्रमानुरोधेन । छन्दोमात्रेति । अतः प्रकृते तिङन्तप्रकरणे स्वरूपस्वभावतः सूत्रेण तस्य व्युत्पादनं न
क्रियते इति भावः ॥ ४ वर्तमान इति । वर्तमाना या क्रिया तद्वाचकाद्धातोर्लट् स्यात् । स च प्रत्ययसंज्ञ
इत्यर्थः ॥ क्रियाया वर्तमानत्वं नाम प्रारब्धापरिसमाप्तत्वम् । पदान्तरसमभिव्याहारं विनैव साध्यत्वप्रकारक-
प्रतीतिविषयः, एकफलोद्देशेन प्रवृत्तपूर्वापरीभूतावयवकः, संकलनात्मकैकबुद्धिविषयीकृतो व्यापारसमूहः क्रिया ।
स्पष्टा चेयं रीतिर्भूवादिसूत्रे भाष्ये ॥ हरिरप्याह-“यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात् क्रियेति व्यपदिश्यते ॥ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥” इति ॥ इत्थं च आरब्धक्रियात आरभ्य तत्समा-
प्तिपर्यन्तं “पचति” इत्येव प्रयोगः । “पूर्वापरीभूतं भावमाख्यातेनाचष्टे उपक्रमप्रभृत्यपवर्गप-
र्यन्तं व्रजति पचतीति” इति यास्कोक्तेरप्यत्रैव तात्पर्यम् ॥ भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि ।
यथा “गच्छति” इत्यत्र “गमनं करोति” इत्यर्थेन क्रियायाः प्राधान्यम् । यथा च “गौः” इत्यत्र
“एकत्वसंख्याविशिष्टा गौः” इत्यर्थेन द्रव्यस्य प्राधान्यम् । “यत्रोभे भावप्रधाने” इति निरुक्ततो
यत्राख्यातनामनी द्वे एव भवतस्तत्र भावप्राधान्यम् । यथा “देवदत्तो गच्छति” इत्यत्र “देवदत्ताभिन्नैक-
कर्तृकं वर्तमानकालिकं गमनम्” इत्यर्थेन क्रियाया एव प्राधान्यम् । शाब्दिकमते क्रियामुख्यविशेष्यकः शाब्द-
बोधो भवति । तथा च “देवदत्तो भवति” इत्यस्य “देवदत्ताभिन्नैककर्तृकं वर्तमानकालिकं भवनम्”
इति शाब्दबोधः । नैयायिक नये तु कर्तृमुख्यविशेष्यकः शाब्दबोधो भवति । तथा च “देवदत्तो भवति”
इत्यस्य “भवनानुकूलकृतिमान् देवदत्तः” इत्येवं शाब्दबोधः । युक्तायुक्तत्वं स्वयमूहनीयं विस्तरभिया नेह
प्रपञ्चि ॥ ५ इत्संज्ञामन्तरा निवृत्त्युपायाभावादाह-अटाविताविति । “उपदेशेऽजनुनासिक इत्” “हल-
न्त्यम्” इति सूत्राभ्यामित्संज्ञकावित्यर्थः ॥ लटि टित्त्वम् “एधते” इत्यादौ “टित आत्मनेपदानां टेरे”
इत्येत्वार्थम् । अकारोच्चारणं तु “लटः शतृशानचावप्रथमासमानाधिकरणे” इति विशेषणार्थम् । ननु अकार-
टकारयोरित्संज्ञावल् लकारस्यापि “लशकतद्धिते” इति सूत्रेणेत्संज्ञा कुतो न ? न च फलाभावान्नेत्संज्ञेति
वाच्यम्, “लिति” इति लित्स्वरस्यैव फलत्वेन वक्तुं शक्यत्वात् । न च णलो लित्त्वेन तदभावस्य ज्ञापना-
न्नेदं फलमिति वाच्यम्, अश्रवणस्यैव फलत्वादिति चेन्न, “उच्चारणसामर्थ्याल्लस्य नेत्त्वम्” इत्यङ्गीकारेणे-
त्संज्ञाया अप्रवृत्तेः ॥
तिङन्ते भ्वादिप्रकरणम् । (२५१)
र्मकेभ्यः ।३।४।६९ ॥ लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि
च ॥ लस्य ।३।४।७७ ॥ अधिकारोऽयम् ॥ तिप्तस्झिसिप्थस्थमिब्वस्मस्ता-
तांझाथासाथांध्वमिड्वहिमहिङ् ।३।४।७८ ॥ एतेऽष्टादश लादेशाः स्युः ॥ लः
परस्मैपदम् ।१।४।९९ ॥ लादेशाः परस्मैपदसंज्ञाः स्युः ॥ तङानावात्मनेपदम् ।
१।४।१०० ॥ तङ् प्रत्याहारः । शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥ अनुदा-
त्ङित आत्मनेपदम् ।१।३।१२ ॥ अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य
स्थाने आत्मनेपदं स्यात् ॥ स्वरितञितः कर्त्रभिप्राये क्रियाफले ।१।३।७२ ॥
स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥ शेषात्कर्तरि परस्मै-
पदम् ।१।३।७८ ॥ आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥ तिङस्त्रीणि
त्रीणि प्रथममध्यमोत्तमाः ।१।४।१०१ ॥ तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादे-
तत्संज्ञाः स्युः ॥ तान्येकवचनद्विवचनबहुवचनान्येकशः ।१।४।१०२ ॥ लब्ध-
प्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥ युष्मद्युप-
पदे समानाधिकरणे स्थानिन्यपि मध्यमः ।१।४।१०५ ॥ तिङ्वाच्यकारकवाचिनि
१ सकर्मकेभ्य इति । फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् ” यथा “देवदत्तो ग्रामं गच्छति ”
इत्यत्र फलं ग्रामनिष्ठम्, व्यापारश्च देवदत्तनिष्ठ इति ॥ फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम् ।
यथा “देवदत्तः स्नाति” इत्यत्र फलव्यापारावुभावपि देवदत्तनिष्ठौ । हरिरप्याह-“ फलव्यापारयोरेक-
निष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥” इति ॥ २ अधिकारोऽय-
मिति । स्वदेशे वाक्यार्थशून्यत्वे सति परदेशे वाक्यार्थबोधजनकत्वमधिकारत्वम् ॥ ३ एतेष्टादश
इति । धातोर्विहितस्य लस्य स्थान इत्यर्थः ॥ तेन “लुनाति” इत्यादौ न दोषः ॥ ४ लादेशा
इति । सिजादीनां परस्मैपदसंज्ञा तु न भवति, सूत्रे “लः” इत्यस्य षष्ठ्यन्तत्वेन लकारस्थाने जायमानाना-
मेव परस्मैपदसंज्ञाविधानेन लकारनिमित्तकानां सिजादीनामप्राप्तेरिति गुरुचरणाः ॥ ५ कृत्यकृतसंज्ञादी-
नामिव संज्ञासांकर्यं परिहरन्नाह-पूर्वसंज्ञेति । प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिवि-
शते' इति परिभाषया “ लः परस्मैपदम् ” इत्यस्य “ तङनेतरलमात्रावच्छिन्नोद्देशेन विहिता लादेशाः
परस्मैपदसंज्ञाः स्युरित्येवार्थ इति भावः ॥ ननु संज्ञानां परस्परं बाधो न दृष्टगोचर इति चेन्न. भपदसं-
ज्ञाविषये तथा दृष्टत्वात् । आकडारसूत्रबहिर्भूतानां तु न बाध्यबाधकभाव इति त्वन्यत् ॥ ६ तेन 'चुकुटि-
षति' इत्यादौ 'गाङ्कुटादिभ्यः' इत्यनेन सन आतिदेशिकङित्त्वेन नात्मनेपदापत्तिरिति भावः ॥ ७ क्रिया-
फल इति । क्रियायाः फलं चात्र स्वर्गाद्येव, न तु दक्षिणादि तस्यान्यथापि सिद्धत्वात् । तदुक्तं भाष्य-
कृता-“नचान्तरेण यजिं यजिफलं लभन्ते । याजकाः पुनरन्तरेणापि यजिं गां लभन्ते”
इति । हरिणापि-” यस्यार्थस्य प्रसिद्धयर्थमारभ्यन्ते पच्यादयः । तत्प्रधानं फलं तेषां न
लाभादिप्रयोजनम्” इत्युक्तमिति पूज्यपादाः ॥ ८ युष्मद्युपपदे इति । उपोच्चारितं पदमुपपदम् ॥
“ उपपदमतिङ् ” इति कृत्रिमस्य तु नेह ग्रहणं प्रयोजनाभावात् ॥ ९ समानाधिकरण इति ।
भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् ॥ यथा “भवसि" इत्यादौ भिन्नप्रवृत्तिनि-
मित्तयोर्युष्मत्तिङोः कारकरूप एकैवास्मिन्नर्थे वृत्तिः । वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितौ प्रकारतया
भासमानत्वं प्रवृत्तिनिमित्तत्वम् । इत्यादि सकलमभिप्रेत्याह-तिङ्वाच्यकारकवाचिनीति ॥
( २८२ ) सिद्धान्तकौमुद्याम्-
युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥ प्रहासे च मन्योपपदे मन्यते-
रुत्तम एकवच्च ।१।४।१०६ ॥ मन्यधातुरूपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति
मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥ अस्म-
द्युत्तमः ।१।४।१०७ ॥ तथाभूतेऽस्मद्युत्तमः स्यात् ॥ शेषे प्रथमः ।१।४।१०८ ॥
मध्यमोत्तमयोरविषये प्रथमः स्यात् ॥ भू सत्तायाम् ॥ कर्तृविवक्षायां भू ति इति स्थिते ॥
तिङ्शित्सार्वधातुकम् । ३ । ४ । ११३ ॥ तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः
स्युः ॥ कर्तरि शप् ।३।१।६८ ॥ कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् ॥ शपावितौ ॥
सार्वधातुकार्धधातुकयोः ।७।३।८४ ॥ अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् ॥
अवादेशः । भव॑ति । भवतः ॥ झोऽन्तः । ७। १ । ३ ॥ प्रत्ययावयवस्य झस्यान्तादेशः
१ भू सत्तायामिति । नन्वनेकधातुषु सत्सु किमपराधेन भूधातोरेव सर्वतः प्रथमं लेख इति शङ्कायां
ब्रुवन्ति केचन-अशोकवनिकान्यायेन तथोपात्तमिति । भूशब्दस्य महाव्याहृतिसमानरूपतया स्वरूपतो मङ्गल-
वाचकत्वात् माङ्गलिकेनाचार्येणानायासेन मङ्गलसिद्धयर्थं तदुपादानं कृतमिति तु वस्तुस्थितिः । सत्तार्थनिर्देशो-
ऽप्येवमेव, सत्ताख्यस्य परब्रह्मणः स्मरणात् । "सत्तायाम्" इत्यादेः "वर्तते" इति शेषः पूरणीयः ।
"भू" इत्यनुकरणम् । तत्र पक्षद्वयम्, अनुकरणमनुकार्याद् भिन्नम्, अनुकरणमनुकार्यादभिन्नमिति । प्रकृते
चानुकार्यानुकरणयोरभेदविवक्षायामनुकार्यनिरूपितशक्त्यैव अनुकरणेनापि बोधात् "शक्तिमत्त्वमर्थवत्त्वम्"
इत्येवं लक्षणलक्षितार्थवत्त्वाभावेन प्रातिपदिकत्वाभावान्न विभक्त्युत्पत्तिः । भेदानुकरणे तु अनुकरणेन
बोधाय शक्तेः स्वीकारात् शक्तिमत्त्वरूपार्थवत्त्वस्य सत्त्वेन प्रातिपदिकत्वात्स्यादेव विभक्त्युत्पत्तिः' अत एव
“भुवो वुक्" इत्यादिनिर्देशसङ्गतिः । इति प्राञ्चः । 'भ्वेधस्पर्ध-' इति पाणिनीयपाठे सौत्रो विभक्तेर्लुगिति
'भूसत्तायाम्' इत्याधुनिकपाठे 'गवित्ययमाह' इति वन्न विभक्त्युत्पत्तिरिति सारम् ॥ २ निःसन्देहपुरुषव्यव-
स्थाज्ञानाय कर्तृकर्मरूपकारकार्थ एव तिङो विधातव्यत्वे तत्र कर्मणः कर्त्रधीनत्वेन पूर्वं कर्तृप्रत्ययानाह-कर्त्रीति ।
“भू ल्" इति दशायां प्राप्तोऽपि "आर्धधातुकस्येड्वलादेः" इतीडागमो न प्रवर्तते, “नेड्वशि कृति " इति
निषेधात् ॥ ३ भवतीति । नन्वत्र लकारवृत्त्यार्धधातुकत्वस्य स्थानिवत्त्वेन तिप्यतिदेशादिट् कस्मान्नेति
चेन्मैवम्, “आर्धधातुकं शेषः” इत्यत्र “शेष” पदलब्धा "तिङ्" पदेन अजहत्स्वार्थलक्षणया 'काकेभ्यो दधि
रक्ष्यताम्' इत्यत्रेव तिङ्-तिङ्स्थान्युभयभिन्नबोधनेन लस्यार्धधातुकसंज्ञाया अप्राप्त्या आर्धधातुकत्वस्य स्थानिन्य-
वृत्तेरतिदेष्टुमशक्यत्वात्, इति केचित् ॥ अन्ये तु-“रुदादिभ्यः सार्वधातुके” इतीड्विधिसामर्थ्यात् “लकार
वृत्त्यार्धधातुकत्वं नादेशानाम्” इति ज्ञापनेन न भवतीत्यादाविट्प्रसक्तिः । न च "रुदादिभ्यश्चेत् सार्वधातु-
कस्यैव" इति विपरीतनियमार्थमेव तत् कुतो न स्यादिति वाच्यम्, "रुदविद-” इति सूत्रेण रुदधातोः
परयोः क्तवासनोः कित्त्वविधानवैयर्थ्यप्रसङ्गात् । त्वद्रीत्या रुदधातोः क्तवासनोरिडभावेन “न क्त्वा सेट्" इति
निषेधाप्रवृत्त्या क्त्वाप्रत्यये औपदेशिककित्त्वस्य सुस्थत्वात् । "हलन्ताच्च" इत्यनेन सिद्धत्वाच्च इत्याहुः ॥
इतरे तु- "लिट् च" इति सूत्रे "लङः शाकटायनस्य" इति सूत्रादेवकारानुवृत्तिसामर्थ्यात् “लकारवृत्त्यार्ध-
धातुकत्व नादेशानाम्” इति कल्प्यते ॥ अन्यथा स्थानिवत्त्वेनार्धधातुकत्वादेवेडादिषु सिद्धेषु “लिट् च”
इत्यारम्भसामर्थ्यादेव सार्वधातुकसंज्ञाबाधे सिद्धे “एव" कारानुवृत्तिवैयर्थ्यं स्पष्टमेव, इति वदन्ति ॥
भवतीत्यत्रान्तरङ्गमपि यणं बाधित्वा गुण एव तावद् भवति, "वर्णादाङ्गं बलीयः" इति परिभाषाप्रवृत्तेः ।
ज्ञापकं चात्राग्रे स्फुटीभविष्यति ॥
स्यात् ॥ अतो गुणे । भवन्ति ॥ भवसि । भवथः । भवथ ॥ अतो दीर्घो यञि ।
७।३।१०१ ॥ अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे ॥ भवामि । भवावः ।
भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ ।
अहं भवामि । आवां भवावः । वयं भवामः ॥ ऐहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः
सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे ॥ भोक्ष्ये । भोक्ष्यावहे ।
भोक्ष्यामहे ॥ मन्यसे । मन्येथे । मन्यध्वे इत्यादिरर्थः । युष्मद्युपपदे इत्याद्यनुवर्तते । तेनेह
न—एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः ॥ प्रहासे किम् ? यथार्थक-
थने मा भूत्—एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥ परोक्षे
लिट् ।३।२।११५ ॥ भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् ॥ लस्य तिवादयः ॥ लिट्
च ।३।४।११५ ॥ लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः ॥ तेन शत्रा-
दयो न ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।३।४।८२ ॥ लिटस्तिवादीनां
नवानां णलादयो नव स्युः ॥ भू अ इति स्थिते ॥ भुवो वुग्लुङ्लिटोः ।६।४।८८ ॥
भुवो वुगागमः स्यात् लुङ्लिटोरचि ॥ नित्येत्वाद्वुग्गुणवृद्धी बाधते ॥ एकाचो द्वे प्रथ-
मस्य ।६।१।१ ॥ अजादेर्द्वितीयस्य ।६।१।२ ॥ इत्यधिकृत्य ॥ लिटि धातोरन-
१ स्थान्यलाश्रयविधौ स्थानिवत्त्वाप्रवृत्तेर्नेह “अतो दीर्घो यञि” इति सूत्रप्रवृत्तिरिति ध्वनयन्नाह—अतो
गुणे इति । न च शबकारान्त्यकारयोः पररूपे कृते “सार्वधातुकमपित्” इति ङित्त्वेन “क्ङिति च”
इति निषेधाद् गुणो न स्यादिति वाच्यम्, “अचः परस्मिन्” इति स्थानिवत्त्वेन गुणप्रवृत्तेः सुलभत्वात् ।
नचैवमपि “वर्णादाङ्गम्—” इति न्यायेनैकादेशात् पूर्वमेव गुणः स्यादिति वाच्यम्, वर्णाङ्गयोः समानस्था-
निकत्वे एव तत्प्रवृत्त्यङ्गीकारेण प्रकृते तथात्वाभावात् ॥ २ श्वशुरगृहे गतं पुरुषं प्रति सख्युपोढेन परिहास-
शीलस्यालकादेर्वाक्यमुदाहरति—एहि मन्ये इत्यादि । भो देवदत्त ! त्वमेहि, त्वं मन्यसे—‘अहमोदनं भोक्ष्ये’
इति स ओदनोऽतिथिभिर्भुक्त इत्यर्थः ॥ एतमेत वेति । भो देवदत्तौ ! युवामेतं युवां मन्येथे ‘आवामोदनं
भोक्ष्यावहे' इति भुक्तः स इत्यादिपूर्ववत् । भो देवदत्ताः ! यूयमेत यूयं मन्यध्वे ‘वयमोदनं भोक्ष्यामहे'
इति, भुक्त इत्यादि पूर्ववत् । इत्यर्थः । यस्य स्थाने आदेशः तं स्थानिनमेव दर्शयति—भोक्ष्ये इत्यादिना ।
३ परोक्षे लिडिति । साक्षात् कृतमित्येतादृशविषयताशालिज्ञानाविषयत्वं परोक्षत्वम् । एवं च मनसोऽसां-
निध्यात्प्रत्यक्षत्वाभावेनोत्तमपुरुषोपि भवतीति भाष्ये स्पष्टमिति “घटमहं चकार” इत्यादिरूपाणां नासङ्गतिरिति
दिक् ॥ अतीताया रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धेन च सहितः सकलो दिवसोऽद्यतनस्तद्भिन्नोऽनद्यतनः ॥
४ ननु “भू अ” इति दशायां वुकं बाधित्वा परत्वाद् गुणवृद्धी स्यातामिति चेत्तत्राह—नित्यत्वादिति ।
“परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः” इति परिभाषया परापेक्षया नित्यस्य बलवत्त्वबोधनादिति
भावः । गुणे वृद्धौ च ‘अचः परस्मिन्’ इति स्थानिवत्त्वेन भूशब्दत्वात् कृताकृतप्रसङ्गित्वेन वुको नित्यत्वमिति
भावः ॥ न च “शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति” इति परिभाषया वुकोऽपि नित्यत्वाभाव
एवेति वाच्यम्, “क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता” इति परिभाषाबोधितस्य कृताकृतप्रसङ्गित्त्वस्यैव
लक्ष्यानुरोधेन प्रकृते आश्रयणेन वुको नित्यत्वानपायात् । नचैवमपि “द्विर्वचनेऽचि” इति निषेधाद् गुणा-
देरप्राप्तौ मूलमसङ्गतमिति वाच्यम्, “सार्वधातुकार्धधातुकयोः” इति गुणस्य द्वित्वनिमित्तघटकाच्पर्याप्तनि-
मित्तताकाजादेशाभावेन “द्विर्वचनेऽचि” इत्यस्याप्राप्तेः, इति केचित् ॥ अन्ये तु—“द्विर्वचनेऽचि” इति
सूत्रं स्थानिरूपातिदेशविधायकमिति मतेन मूलं योजयन्ति ॥
( २५४ ) सिद्धान्तकौमुद्याम्-
भ्यासस्य । ६।१।८ ॥ लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः
परस्य तु द्वितीयस्य ॥ भूव् भूव् अ इति स्थिते ॥ पूर्वोऽभ्यासः । ६।१।४ ॥ अत्र ये द्वे
विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥ हलादिः शेषः । ७।४।६० ॥ अभ्यासस्यादिर्हल्
शिष्यते अन्ये हलो लुप्यन्ते । ३इति वलोपः ॥ ह्रस्वः । ७।४।५९ ॥ अभ्यासस्याचो ह्रस्वः
स्यात् ॥ भवतेरः । ७।४।७३ ॥ भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥ अभ्यासे
चर्च । ८।४।५४ ॥ अभ्यासे झलां चरः स्युर्जशश्च ॥ झशां जशः खरां चरः । तत्रापि
प्रकृतिजशां प्रकृतिजशः, प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥ असिद्धव-
दत्राभात् । ६।४।२२ ॥ इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समा
तिङन्ते भ्वादिप्रकरणम् । (२५५)
चपवादः ॥ आर्धधातुकं शेषः ।३।४।११४ ॥ तिङ्शित्भ्योऽन्यो धातोरिति विहितः
प्रत्यय एतत्संज्ञः स्यात् ॥ इट् ॥ लुटः प्रथमस्य डारौरसः ।२।४।८५ ॥ डा रौ रस्
एते क्रमात्स्युः ॥ डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥ पुगन्तलघूपधस्य च ।७।३।८६ ॥
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः ॥ येन नाव्यवधानं तेन
व्यवहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित्
आ । अत्रेतो गुणे प्राप्ते ॥ दीधीवेवीटाम् ।१।१।६ ॥ दीधीवेव्योरिटश्च गुणवृद्धी न
स्तः ॥ भविता ॥ तासस्त्योर्लोपः ।७।४।५० ॥ तासेरस्तेश्च लोपः स्यात्सादा प्रत्य
An exact line-by-line transcription of the page into Devanagari:
स्यात् ॥ अनेकाल्त्वात्सर्वादेशः । यद्यपि 'ङिच्चेत्ययमपवादस्तथाप्यनन्यथासिद्धित्त्वेष्वनङादिषु
चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः
परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥ लोटो लङ्वत् । ३।४।
८५ ॥ लोटो लङ् इव कार्यं स्यात् ॥ तेन तामादयः सलोपश्च ॥ तथा हि-॥ तस्थस्थ-
मिपां तान्तन्तामः । ३।४।१०१ ॥ ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥ नित्यं ङितः
३।४।९९ ॥ सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्यात् ॥ अलोऽन्त्यस्येति सस्य लोपः ।
भवताम् । भवन्तु ॥ सेर्ह्यपिच्च । ३।४।८७ ॥ लोटः सेर्हिः स्यात्सोऽपिच्च ॥ अतो हेः ।
६
मन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।३।३।१६१ ॥ एष्वर्थेषु द्योत्येषु वाच्येषु
वा लिङ् स्यात् ॥ विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणम् । आव-
श्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कार-
पूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥
यासुट् परस्मैपदेषूदात्तो ङिच्च ।३।४।१०३ ॥ लिङः परस्मैपदानां यासुडागमः स्यात्स
चोदात्तो ङिच्च ॥ ङित्त्वोक्तेर्ज्ञाप्यते 'क्वचिदनुबन्धकार्यमप्यनल्विधाविति प्रतिषेध' इति श्नादे-
शस्य शानचः शित्त्वमपीह लिङ्गम् ॥ सुट् तिथ्योः ।३।४।१०७ ॥ लिङस्तकारथकारयोः
सुँटा यासुट् न बाध्यते । लिङो यासुट्, त
जादावुसि: wait, in अवर्णादपदान्तादुसि, अवर्णाद + अपदान्तात् -> अवर्णादापदान्तात्?
Wait, why would it be जादावुसि? Could it be अजादावुसि?
No, उसि is already ajadi (उस्).
Wait, could it be पदान्तादुसि?
Look at the letter: प with tick? No, it's प द ा न ् त ा द ु स ि!
Wait, look:
Letter 1: प
Letter 2: द with ा -> दा
Letter 3: न ् त with ा -> न्ता
Letter 4: द with ु -> दु
Letter 5: स with ि -> सि
Yes! पदान्तादुसि! Wait, look at the first letter: it's प! But the left stem of प looks slightly rounded, so it resembles ज or प. But it is definitely पदान्तादुसि!
Wait, but before पदान्तादुसि, line 27 ends with अवर्णाद-.
Wait, does it mean `
तिङन्ते भ्वादिप्रकरणम् । ( २९९ )
शिषि । ३।४।१०४ ॥ आशिषि लिङो यासुट् कित्स्यात् ॥ स्कोरिति सलोपः ॥ क्ङिति
च । १।१।५ ॥ गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् ।
भूयासुः ॥ भूयाः । भूयास्तम् । भूयास्त ॥ भूयासम् । भूयास्व । भूयास्म ॥ लुङ् । ३।२।
११० ॥ भूतार्थवृत्तेर्धातोर्लुङ् स्यात् ॥ माङि लुङ् । ३।३।१७५ ॥ सर्वलकारापवादः ॥
स्मोत्तरे लङ् च । ३।३।१७६ ॥ स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥ च्लि लुङि ।
३।१।४३ ॥ शबाद्यपवादः ॥ च्लेः सिच् । ३।१।४४ ॥ गातिस्थाघुपाभूभ्यः सिचः
परस्मैपदेषु । २।४।७७ ॥ एभ्यः सिचो लुक् स्यात् ॥ गापाविहेणादेशपिबती गृह्येते ॥
भूसुवोस्तिङि । ७।३।८८ ॥ भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥
अस्तिसिचोऽपृक्ते । ७।३।९६ ॥ सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं
भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च
परस्यापृक्तस्य हल ईडागमः स्यात् ॥ इतीड् न, इह सिचो लुप्तत्वात् ४। अभूत् ॥ हलः किम् ?
ऐधिषि ॥ अपृक्तस्य
बलीवर्दन्यायेन" इति तत्त्वबोधिनीकारप्रभृतीनामुक्तिस्तु हेयैव, निरुक्तलक्षणस्य "राजीयति" इत्यादि
Wait, look at "गोबलीवर्दन्यायेन":
Is it "गोबलीवर्दन्यायेन"? Yes.
Line 30:
सिद्धये आवश्यकत्वात् । अन्यथा तत्र पक्षे शबेकादेशोऽपि न स्यात् । अत एव च "अग्रे अग्रे" इत्यादौ
Line 31:
पदद्वित्वे संहिता अनित्यैवेत्यलं पल्लवितेन ॥ ५ ननु भूधातोः सत्तारूपस्यैकस्यैवार्थस्याङ्गीकारे "सत्तायां
Line 32:
मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः । अभिव्याप्तौ च शक्तौ च प्रादुर्भावे गतौ च भूः" इत्यादीनि अभियुक्त
Line 33:
वचनानि न सङ्गच्छेरन् इत्याशङ्कां परिहरन्नाह-सत्ताद्यर्थनिर्देशश्चोपलक्षणमिति । स्वबोधकत्वे सति
Wait, in line 33, look at "इत्याशङ्कां परिहरन्नाह-सत्ताद्यर्थनिर्देशश्चोपलक्षणमिति ।":
Wait, does it say "सत्ताद्यर्थनिर्देशश्चोपलक्षणमिति" or "सत्ताद्यर्थनिर्देशश्चोपलक्षणम् इति"?
It has a hyphen after परिहरन्नाह: "परिहरन्नाह-सत्ताद्यर्थनिर्देश
तिङन्ते भ्वादिप्रकरणम् । ( २६१ )
उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति ।
उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च—‘उपसर्गेण धात्वर्थो बलादन्यः
प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ १ ॥’ इति ॥ एध वृद्धौ । कत्थन्ताः
षट्त्रिंशदनुदात्तेतः ॥ टित आत्मनेपदानां टेरे । ३।४।७९ ॥ टितो लस्यात्मनेपदानां
टेरेत्वं स्यात् । एधते ॥ सार्वधातुकमपित् । १।२।४ ॥ अपित्सार्वधातुकं ङिद्वत्स्यात् ॥
आतो ङितः । ७।२।८१ ॥ अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥
थासः से । ३।४।८० ॥ टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे ।
एधे । एधावहे । एधामहे ॥ इजादेश्च गुरुमतोऽनृच्छः । ३।१।३६ ॥ इजादिर्यो धातु-
र्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि ॥ आँमो मकारस्य नेत्त्वम् । आस्कासोराम् विधानाज्ज्ञा-
पकात् ॥ आमः । २।४।८१ ॥ आमः परस्य लुक् स्यात् ॥ कृञ्चानुप्रयुज्यते लिटि ।
१ ननूपसर्गाणां वाचकत्वस्य “ आ ” इत्यर्वागर्थे इत्यादिना यास्काचार्येणाङ्गीकृतत्वेन तैरेव नानार्थबोधे सिद्धे
किमुपलक्षणत्वेनेति शङ्कां परिहरन्नाह–उपसर्गास्त्विति ॥ द्योतका इति । यथा प्रदीपसंयोगे द्रव्यस्य गुण-
विशेषोऽभिव्यज्यमानो द्रव्याश्रय एव भवति, न प्रदीपाश्रयः तथैव धातोरेवार्थविशेषः सत्युपसर्गसंयोगे व्यज्यते,
न तु वाचका इति हृदयम् । उपसर्गाणां वाचकत्वाङ्गीकारे तु “ अनुभूयते ” इत्यादौ कर्मणि लकाराद्यनुपपत्तिः
स्यात्, अनुभव्यरूपफलस्यानुपसर्गार्थत्वेन धातोरकर्मकत्वात् । “उपसर्गाः” इत्युक्त्या निपातानां द्योतकत्वं वाचकत्वं
वाभ्युपैति ॥ २ द्योतकत्वे सम्मतिमपि दर्शयति–उपसर्गेणेति।उपसर्गेण=प्रादिना, धात्वर्थः=सत्तादिरूपः,=
अबलात्=बलाभावात् निबर्लत्वादित्यर्थः, अस्वतन्त्रत्वादिति यावत् । अन्यत्र=अन्यस्मिन्नर्थे, नीयते=प्राप्यते
किंवत्–प्रहाराहारसंहारविहारपरिहारवत् । हरणार्थोऽपि हरतिः तत्तदुपसर्गवशात् प्रहरणार्थः, एवमाहरणार्थः,
संहरणार्थः, विहरणार्थः, परिहरणार्थश्च यथा सम्पद्यते तथेत्यर्थः । अत्र “ अबलात् ” इति च्छेदः, नतु
“ बलात् ” इति । तथा सति उपसर्गाणां द्योतकत्वं व्याहन्येत । अपि तु वाचकत्वमेव स्यादिति केचित् ॥
महामहोपाध्यायोपपदाऽलङ्कृताः श्रीगुरुचरणास्तु– “ उपसर्गेण नीयते ” इति पाठे नयनकर्तृत्वस्योपसर्गे एवाङ्गी-
कारे बलाभावेऽस्वतन्त्रत्वे च कर्तृत्वं नैव घटतरमिति नयनकर्मण एवास्वतन्त्रत्वस्य सर्वत्राङ्गीकाराद् धातावस्व-
तन्त्रत्वमुपसर्गेषु स्वतन्त्रत्वमिति विपरीतमेव स्यात् । तस्मात् “उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते”
इत्येव पाठो भवेत् । उपसर्गेण–उपसर्गसंसर्गेण, बलात्–शब्दशक्तिस्वभावात्, अन्य एव धात्वर्थः प्रतीयते”
इति च तदर्थः । “अन्यत्र नीयते” इति पाठे उपसर्गेण कर्त्रा बलात्कारेण धात्वर्थोऽन्यत्र=केवलस्य प्रसिद्धा-
र्थाद् भिन्नेऽर्थे नीयते=अर्थाद् विलक्षणो धात्वर्थ एव प्रत्याय्यते न स्वार्थ इत्यनेनोपसर्गाणां द्योतकत्वमेव चेति
सूचितम् । अधिकरणत्वविवक्षया कर्मत्वं नेति वदन्ति ॥ द्योतकत्वं च समभिव्याहृतपदशक्त्युद्बो-
धकत्वम् ॥ ३ इट् एत्वे कृते “एध ए” इति दशायाम् “आद्गुणः” इति गुणं बाधित्वा “वृद्धिरेचि”
इति वृद्धौ प्राप्तायामाह–अतो गुण इति । ४ आमो मकारस्य “हलन्त्यम्” इतीत्संज्ञा कस्मान्न भवती-
त्यत आह–आमो मस्य नेत्त्वमिति ॥ तत्र प्रमाणमाह–आस्कासोरिति । सति हि मित्त्वे आस्कासो-
राम् भवन्नपि “मिदचोऽन्त्यात् परः” इत्यचामन्त्यात् परः स्यात् तथा च “अकः सवर्णे दीर्घः” इति सव-
र्णदीर्घत्वे सत्यकिंचित्करः स्यात्, अतः “दयायासश्च” इति “कास्प्रत्ययादाममन्त्रे लिटि” इति च आस्कासो-
राम्विधानं व्यर्थं सद् “हलन्त्यम्” इति प्राप्तेत्संज्ञाया अभावं ज्ञापयतीति भावः ॥ ननु आम्प्रत्ययस्यादन्त-
त्वाङ्गीकारेण तस्य च “उपदेशेऽजनुनासिक इत्” इतीत्संज्ञा निवृत्तावपि उपदेशेऽन्त्य-
हलोऽभावान्नेत्संज्ञाप्रवृत्तिरिति किं ज्ञापकेन ॥ नचादन्तत्वे “आमः” इति सूत्रनिर्देशानुपपत्तिरिति वाच्यम्,
उत्सृष्टानुबन्धेन निर्देश इत्यङ्गीकारेणादोषात् ॥ नैवमपि “कास्प्रत्ययादाममन्त्रे लिटि” इति सूत्रघटिता-
ममन्त्र इति निर्देशानुपपत्तिरेवेति वाच्यम्, “सर्वत्र लोहितादिकतन्तेभ्यः” इत्यत्र पररूपवत् शक्न्ध्वादेराकृति-
Wait,आस्कासोरामुविधानाच्चorआस्कासोराम्विधानाच्च? Look at line 10: आस्कासोरामुविधानाच्चLook at line 11:“आस्कासोरामुविधानाच्च”Yes,आमु`!
Line 12:
परत्वसामर्थ्यादसंजातविरोधित्वन्यायेनात्र सवर्णदीर्घबाधोऽस्त्विति वाच्यम्, प्रधानसवर्णदीर्घबाधापेक्षया
Line 13:
गुणभूतेत्संज्ञाबाधस्यैवौचित्यात् तस्मादत्र ज्ञापकेनैव निर्वाह इति भावः ॥ दाधिमथास्तु-भाष्ये तु “अथापि
Line 14:
कथंचिदित्कार्यं स्यात्” एवमपि न दोषः । क्रियते न्यास एव ‘आममन्त्रे’ इति । यद्येवम् “ आमामन्त्रे ”
Wait, is it यद्येवम् or यथेवम्?
Look at line 14: यथेवम् or यद्येवम्?
It has य, थे or द्ये? In Devanagari, द्ये has a round back, थे has a loop. It looks like यथेवम् with a small error for यद्येवम्, or `यद्य
तिङन्ते भ्वादिप्रकरणम् । ( २६३ )
संबध्यते । पूर्ववदेवात्मनेपदं नतु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ
न तङ् ॥ लिटस्तझयोरेशिरेच् । ३ । ४ । ८१ ॥ लिडादेशयोस्तझयोरेश् इरेच् एतौ
स्तः ॥ ऐकारोच्चारणं ज्ञापकम्—'तङादेशानां टेरेत्वं नेति । तेन दारौरासां न ॥ कृ ए इति
स्थिते ॥ असंयोगाल्लिट्कित् । १ । २ । ५ ॥ असंयोगात्परोऽपि ल्लिड्कित्स्यात् ॥ 'क्ङिति चेति
निषेधात् 'सार्वधातुकार्धधातुकयोरिति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते-॥ द्विर्वचनेऽचि ।
१ । १ । ५९ ॥ द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याद्वित्वे कर्तव्ये ॥ उरत् ।
७।४।६६ ॥ अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे ॥ रपरत्वम् ॥ हलादिः शेषः ॥ प्रत्यये
किम् ? वव्रश्च ॥ कुहोश्चुः ।७।४।६२ ॥ अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् ॥ एधां-
चक्रे । एधांचक्राते । एधांचक्रिरे ॥ एकाच उपदेशेऽनुदात्तात् ।७।२।१० ॥ उपदेशे
यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् ॥ उपदेशे इत्युभयान्वयि ॥
एकाच इति किम् ? यङ्लुग्व्यावृत्तिर्यथा स्यात् ॥ स्मरन्ति हि—' श्तिपा शपाऽनुबन्धेन
१ ननु “लिटस्तझयोरिशिरिच्” इत्येवमेव मात्रालाघवेन पठितव्यम्, पश्चाच्च “टित आत्मनेपदानां
टेरे ” इत्यनेनैत्वं भविष्यत्येवेति किमेकारोच्चारणेनेत्यत आह-एकारोच्चारणमिति ॥ ज्ञाप्यस्वरूप-
माह-तङादेशानां टेरेत्वं न इतीति । तङः स्थाने ये आदेशास्तेषां टेरेत्वं न भवतीत्यर्थः ॥
ज्ञापनफलमाह-तेनेति । तङादेशानां टेरेत्वं नेत्यङ्गीकारेणेत्यर्थः ॥ दारौरासामिति । ‘एधिता,
एधितारौ, एधितारः' इत्यादाविति भावः ॥ वस्तुतः “एधतास् त” इति दशायां “लुटः प्रथमस्य” इति
योगापेक्षया परत्वेन-“टित आत्मनेपदानाम्-” इति टेरेत्वे “पुनःप्रसङ्गविज्ञानात्सिद्धम्” इति परिभाषया डादिषु
कृतेषु पुनरेत्वस्य प्रवृत्तिरेव न, “लक्ष्ये लक्षणं सकृदेव प्रवर्तते” इति परिभाषणादिति चिन्त्यमेतत् ॥ गुरुचर-
णास्तु-‘उद्वोढाम्’ इत्यादाविव स्थानिभेदेन लक्ष्यभेदाङ्गीकारेण प्राप्तं टेरेत्वं ज्ञापनेनैव वारणीयमित्याहुः ॥
२ प्रत्यये किमिति । आसप्तमसमाप्तेरङ्गाधिकारमाश्रित्याङ्गेन प्रत्ययाक्षेपः किमर्थं इति प्रश्नः ॥
उत्तरयति-वव्रश्चेति । आसप्तमसमाप्तेरङ्गाधिकारानङ्गीकारे प्रत्ययाक्षेपाभावे “उरत्” इति योगस्य पर-
निमित्तत्वाभावात् स्थानिवत्त्वाभावेन “न संप्रसारणे-” इति निषेधाप्रवृत्तौ पुनरपि वकारस्य “लिट्यभ्या-
सस्य” इति सम्प्रसारणं स्यादिति भावः ॥ अत एवासप्तमसमाप्तेरङ्गाधिकारोऽभ्यधायि भगवता भाष्यकारेण,
“प्रागभ्यासविकारेभ्योऽङ्गाधिकारः” इति पक्षो “वव्रश्च” इत्यसिद्धया दूषितश्चेति बोध्यम् ॥
३ उभयान्वयीति । देहलीदीपन्यायात् काकाक्षिन्यायाद्वेति भावः ॥ एकाचि तदसम्बन्धे “बिभित्सति”
इति सन इण्निषेधो न स्याद् ‘सन्यङोः’ इत्यस्य षष्ठीत्वेन नैमित्तिकद्वित्वोत्तरमेकाच्त्वाभावात् । अनुदात्ते च
तदसम्बन्धे “कर्तुं हर्तुम्” इति तुमुनि “ञ्नित्यादिर्नित्यम्” इत्याद्युदात्तत्वे तुमुन इडागमापत्तिरनुदात्तत्वाभावेन
निषेधाप्रवृत्तेरित्युभयत्रान्वय आवश्यक इति भावः ॥ ४ ननूपदेशेऽनुदात्तस्यैकाच्त्वाव्यभिचारात् किं तेनेति
पृच्छति-एकाचः किमिति । नच वधिव्यावृत्त्यर्थं तत्, तत्सामर्थ्येनोपदेशमात्रे एकाचो ग्रहणादिति
वाच्यम्, आद्युदात्तनिपातनेन सिद्धेरीत्याशयात् ॥ नन्वेकाज्ग्रहणाभावे “जंघनिता” इति यङ्लुगन्ते निषेधः
स्यादिति चेत् सत्यम्, कृतेप्येकाज्ग्रहणे उपदेशे एकाच्त्वस्य सत्त्वेन निषेधस्य दुर्वारत्वात्, एवं च व्यर्थमेकाज्-
ग्रहणं “श्तिपा शपा” इति निषेधं ज्ञापयति स्थालीपुलाकन्यायात् । अत एव वक्ष्यति-एतच्चेति । न च
“श्र्युकः किति” इति सूत्रेऽनुवृत्त्यर्थमेकाज्ग्रहणमिति वाच्यम्, लक्ष्यानुसारादेवोक्तनिषेधज्ञापनात् ।
यङ्लुग्व्यावृत्तिरिति । यङ्लुको निषेधनिमित्तत्वव्यावृत्तिरित्यर्थः ॥ इदमेव कथमत आह-स्मरन्तीति ।
( २६४ ) सिद्धान्तकौमुद्याम्-
निर्दिष्टं यद्गुणेन च। यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १ ॥' इति ॥ एतच्चेहैवैकाज्-
ग्रहणेन ज्ञाप्यते ॥ ऐच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादने-
काच उपदेशो व्याववर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशोऽने-
काच्त्वात् ॥ अनुदात्ताश्चानुपदमेव संगृहीष्यन्ते ॥ एधांचकृषे । एधांचक्राथे ॥ इणः षीध्वं-
लुङ्लिटां धोऽङ्गात् । ८ । ३ । ७८ ॥ इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य मूर्धन्यः
स्यात् ॥ एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे। एधांचकृमहे ॥ एधांबभूव ॥ अनुप्रयोगसा-
मर्यादस्तैर्भूभावो न । अन्यथा हि कृञ् चानुप्रयुज्यत इति कृम्विति
आमेतः । ३।४।९० ॥ लोट् एकारस्याम् स्यात् ॥ एधताम् ॥ एधेताम् । एधन्ताम् ॥
सवाभ्यां वामौ ।३।४।९१ ॥ सवाभ्यां परस्य लोडेतः क्रमाद् अम् एतौ स्तः ॥ एधस्व ।
एधेथाम् । एधध्वम् ॥ एत ऐ । ३।४।९३ ॥ लोडोत्तमस्य एत ऐ स्यात् । आमोऽपवादः ॥
एधै । एधावहै । एधामहै ॥ आडजादीनाम् । ६।४।१०२ ॥ अजादीनामाट् स्याल्लुङा-
दिषु । अटोऽपवादः ॥ आटश्च ॥ ऐधत । ऐधेताम् । ऐधन्त ॥ ऐधथाः । ऐधेथाम् । ऐध-
ध्वम् ॥ ऐधे । ऐधावहि । ऐधामहि ॥ लिङः सीयुट् । ३।४।१०२॥ सलोपः । एधेत । एधे-
याताम् ॥ झस्य रन् । ३।४।१०५ ॥ लिङो झस्य रन् स्यात् ॥ एधेरन् ॥ एधेथाः । एधेया-
थाम् । एधध्वम् ॥ इटोऽत् । ३।४।१०६ ॥ लिडादेशस्येटोऽत्स्यात् ॥ एधेय । एधेवहि ।
एधेमहि ॥ आशीर्लिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् ।
एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् ॥ एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् ॥ एधि-
षीय । एधिषीवहि । एधिषीमहि ॥ ऐधिष्ट । ऐधिषाताम् ॥ आत्मनेपदेष्वनतः । ७।१।५ ॥
अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् ॥ ऐधिषत ॥ ऐधिष्ठाः । ऐधिषाथाम् ।
इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ ऐधिढ्वम् ॥ [ इङ्ङिन एव इणिह गृह्यते इति मते तुँ ऐधि-
ध्वम् । ] ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि । ऐधिषि । ऐधिष्वहि । ऐधि-
ष्महि ॥ ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त ॥ ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् ॥
ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि ॥ उदात्तत्वाद्वलादेरिट् ॥ प्रसँङ्गादनुदात्ताः संगृह्यन्ते ॥
१ एधिषीध्वमिति । इटो ध्वंशब्दभक्ततयाङ्गस्येणन्तत्वाभावेन मूर्धन्याभावः । २ ऐधिढ्वमिति ।
“ऐध् इँस् ध्वम्” इत्यत्र ध्वमो लुङो वा प्रत्ययस्य एधधातोर्विहितत्वेन एधादिसमुदायः “ऐधिस्”
इति ध्वमि प्रत्यये परे अङ्गसंज्ञको जात इति “धि च” इति सलोपोत्तरमेकदेशविकृतन्यायेन “ऐधि”
इति भागस्याङ्गत्वं वर्तत एवेति ढत्वं भवत्येवेति बोध्यम् ॥ वेदाङ्गप्रकाशकर्त्रा (दयानन्देन) तु “सलो-
पस्य स्थानिवत्त्वेनाङ्गस्येणन्तत्वव्याघातान्नात्र ढत्वप्राप्तिः”—इत्युक्तम् । तत्तु व्याकरणरहस्यानभिज्ञत्वसूचकम्,
“स्थानिवत्” इति सूत्रेण स्थानिवद्भावविषये आदेशप्रयुक्तवारणे तु “नायकः” इत्यादावायाद्यादे-
शानुपपत्तिरिति भूयानुपप्लवः स्यात् । तस्मादत्र स्थानिवद्भावेनापि आदेशप्रयुक्तकार्यस्यावारणाद् इणन्तत्वनि-
मित्तं ढत्वं भवत्येवेति बोध्यम् ॥ इति दाधिमथाः ॥ ३ इति मते त्विति । “विभाषेटः”
इत्युत्तरसूत्रे इणः परस्येटो ग्रहणेन तत्रानुवर्तमानम् “इण्” इति पदमवश्यमिडतिरिक्तपरमिति स्वीकार्यमिति
“इणः षीध्वम्” इति पूर्वसूत्रेऽपि तथैव युक्तमिति तेषां भावः ॥ अत्रारुचिबीजं तु भाष्येऽस्यादर्शनम् ।
सूत्रान्तरस्थेन गोबलीवर्दन्यायग्रहणे च न दृढतरं मानम् । एतच्च तुना सूचितम् ॥ ४ षोडश रूपा-
णीति । मतभेदेन ढत्वधत्वयोर्विकल्पाद् द्वे रूपे । उभयत्रापि “अनचि च” इति ढकारधकारयोर्द्वित्वे च-
त्वारि रूपाणि । चतुर्ष्वपि “मय इति पञ्चमी यण इति षष्ठी” इति पक्षे “यणो मयो द्वे वाच्ये” इति
वार्तिकेन वकारस्य द्वित्वे अष्टौ रूपाणि । अष्टास्वपि “अनचि च” इति मकारस्य द्वित्वे उक्ता संख्येति भावः॥
५ प्रसङ्गादिति । प्रसङ्गत्वं चाऽनन्तराभिधानप्रयोजकशिष्यजिज्ञासाजनकज्ञानविषयत्वम् ॥ संगृह्यन्ते
इति । मयेति शेषः । संग्रहत्वं नाम भिन्नस्थलीयवस्तुजातानामेकत्र करणम् ॥