सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 41, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 41

२२ उत्तररामचरितं [ १-३४
सीता-जाणे पुणोवि पसण्णगम्भीरासु वणराइंसु विहरिस्सं पवित्रणि-
म्मेळसिसिरावगाहां भअवदिं भाइरहिं ओगाहिस्सं त्ति । जाने पुनरपि प्रस-
न्नगम्भीरासु वनराजिषु विहरिष्यामि पवित्रनिर्मलशिशिरावगाहा भगवतीं भा-
गीरथीमवगाहिष्य इति ।
रामः-वत्स लक्ष्मण !
लक्ष्मणः-पृष्टोऽस्मि १
रामः-वत्स अचिरं सम्पादनीयोऽस्या दोहद इति संप्रत्येव गुरुभिः
सन्दिष्टम् । तदस्खलितसुखसम्पातं रथमुपस्थापय ।
सीता-अज्जउत्त तुम्हेहि वि आगन्तव्वं । आर्यपुत्र युष्माभिरपि आग-
न्तव्यम् ।
रामः-अयि कठिनहृदये एतदपि वक्तव्यमेव ।
सीता-तेण हि पिअं मे पिअं मे । तेन हि प्रियं मे प्रिय मे ।
लक्ष्मणः-यथाज्ञापयत्यार्यः । ( इति निष्क्रान्तः । )
रामः-प्रिये अत्र वातायनोपकण्ठे मुहूर्तं संविष्टा भवावः २ ।
सीता-एवं होदु । ओहरिदम्हि क्खु परिस्समजणिदाए णिद्दाए । एवं
भवतु । अपहृतास्मि खलु परिश्रमजनितया निद्रया ।
रामः-तेन हि निरन्तरमवलम्बस्व मामनुगमनाय ३ ।
जीवयन्निव ससाध्वसभ्रमस्वेदविन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३४ ॥
( तथा कारयन्सानन्दम् । ) प्रिये किमेतत् !
भट्टीनाभिधानादिति दिक् ॥ ३३ ॥ यथार्येति ध्वनि ॥ आर्यपुत्र एतेन
चित्रदर्शनेन प्रत्युत्पन्नदोहदाया विज्ञाप्य मेऽस्ति । दोहदाए इत्यत्र 'दोहदे ल'
इति लत्वम् ॥ जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहरिष्यामि । पवि-
त्रनिर्मल शिशिरावगाहां भगवतीं भागीरथीमवगाहिष्ये इति ॥ तत् तस्मात् ।
सम्पातः चक्रभ्रमणादिना पार्श्वदिषु कुण्ठनमित्यर्थः । उपस्थापयेति ध्वनि ॥
आर्यपुत्र युष्माभिरप्यागन्तव्यम् । तेन हि प्रियं मे प्रियं मे । एवं भवतु ।
अपहृतास्मि खलु निद्रया । अनुगमनायेति ध्वनि ॥ जीवयन्निवेति
॥ ३४ ॥ चन्द्रमणयः चन्द्रकान्ता । विभ्रमः विलासः । बाहुरधिक-
ण्ठमर्प्यताम् अन्यथेदिति ध्वनि ॥ ३४ ॥ प्रियेति-यथा सीता अधिक-
१ 'सोऽस्मि' क-घ-च. २ 'इतो वातायनोपकण्ठे' घ-च. ३ 'संविष्टा भव'
न. ३ 'मामत्र शयनाय' क-घ-च.