सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 16, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 16

६ श्रीतन्त्रालोकः ।
अत एव 'अभिनवायाम्' आद्यायां 'सृष्टौ' शुद्धा-
ध्वमार्गे
'शुद्धेऽध्वनि शिवः कर्ता................।'
इति नीत्या शिवस्यैव तत्र साक्षात्कारित्वात् 'महः'
पारिपूर्ण्यलक्षणं तेजःस्फारो यस्याः सा-इत्युक्तम् ।
इहाद्वयनये हि भगवानेव स्वस्वातन्त्र्यमाहात्म्यात्
आभासमात्रसारतया स्वाव्यतिरिक्तमपि व्यति-
रिक्तत्वेनेवजगत् आभासयति,-इत्यनन्यापेक्षिणः
स्वातन्त्र्यस्यैव जगद्वैचित्र्यनिमित्तत्वमुक्तम्, अविद्या-
वासनादीनां भेदाभेदविकल्पोपहतत्वात् जगद्वैचित्र्य-
निमित्तत्वाभिधानानुपपत्तेः; अत एव भगवतश्चिदा-
द्यनन्तशक्तिसंभवेऽपि तत्स्फुरणमात्रत्वात् तासां
तस्या एव प्राधान्यात् इहाभिधानम् । यद्वक्ष्यति
'तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।'
इति । जनकश्च कीदृक् ?-इत्युक्तं 'भरिततनुः'
इति । 'भरिता' सर्वाकाङ्क्षासंक्षयात् पारिपूर्ण्येन