तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
by महर्षि तित्तिरि / सायणभाष्य
Source: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (origin)
About this granth
The Taittiriya Brahmana (तैत्तिरीय ब्राह्मण) belongs to the Taittiriya Samhita of the Krishna Yajurveda and is often described as its extension. The back cover of this edition notes that scholars count it among the oldest surviving Brahmanas, that its text is accented like the Shatapatha Brahmana, and that Sayanacharya wrote his first commentary on it. It is arranged in three kandas, the first two of eight prapathakas each and the third of twelve.
This is the Nag Publishers, Delhi, edition of the text with Sayana's commentary, presented by Prof. Pushpendra Kumar; the scan is Part 1. A Sanskrit introduction discusses the Brahmana's features, the antiquity of its language and narratives such as the story of Pururavas and Urvashi. The text opens with the rules for establishing the sacred fires (agnyadhana), and later anuvakas deal with supplementary offerings and other Shrauta rites. A detailed list of anuvakas is included.
This part has about 345 pages.
अथ षष्ठप्रपाठके पञ्चमोऽनुवाकः ।
उत्त॑रस्यां॒ वेद्या॑मन्यानि॑ ह॒वीꣳषि॒ सादयति । दक्षि॑णायां
मा॒रु॒तीम् । अप॑धुरमे॒वैनां॑ युनक्ति । अथो॒ ओज॑
ए॒वाऽऽसा॒मव॑हरति । तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्राच्च॒
विशो॑ऽन्यतोऽपक्र॒मिणी॑: । मा॒रु॒त्या पू॒र्वया॑ प्रचरति ।
अनृ॑तमे॒वाव॑यजते । वा॒रु॒ण्योत्त॑रया । अन्त॑त ए॒वं
वरु॑णमव॑यजते । यदे॒वाध्व॒र्युः क॒रोति॑ (१) ।
तत्प्रति॑प्रस्था॒ता क॑रोति । तस्मा॒द्यच्छ्रेया॑न्क॒रोति॑ ।
तत्पापी॑यान्करोति । पत्नीं॑ वाचयति । मेध्या॑मे॒वैनां॑
करोति । अथो॒ तर्प॑ ए॒वैना॒मुप॑ नयति । यज्जा॒रꣳसन्तं॒ न
प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒तिꣳरु॑न्ध्यात् । असा॒ मे जा॒र इति॑
निर्दि॑शेत् । निर्दि॑श्यै॒वैनं॑ वरु॒णपा॒शेन॑ ग्राहयति (२) ।
प्र॒घा॒स्यान्ह॑वामह॒ इति॒ पत्नी॑मुदा॒र्नय॑ति । अहू॑तै॒वैना॑म् ।
यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् । निर्वी॑र्यो॒ यज॑मानः
स्यात् । यज॑मानोऽन्वा॑ह । आ॒त्मनैव वी॒र्यं॑ धत्ते । उ॒भौ
या॒ज्याꣳसवी॑र्यत्वाय॑ । यद्ग्रा॒मे यदर॑ण्य इत्या॑ह ।
य॒थो॒दित॑मे॒व वरु॑णमव॑यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा
आ॑हव॒नीय॑: (३) । [भ्रातृ॑व्यदे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑
जुहु॒यात् । यज॑मानं वरु॒णपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ऽग्नौ
जु॑होति । भ्रातृ॑व्यमे॒व वरु॑णपा॒शेन॑ ग्राहयति । शूर्पेण॑
जु॒होति॑ । अन्य॑मेव वरु॑णमव॑यजते । शी॒र्षन्नधि॑नि॒धाय॑
जु॒होति॑ । शीर्ष॑त ए॒व वरु॑णमव॑यजते । प्र॒त्यङ्ति॒ष्ठञ्जु॑होति
(४)।] प्र॒त्यङ्ङे॒व वरु॑णपा॒शान्निर्मु॑च्यते । अक्र॒न्कर्म॑
कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णं निर॑वदाय॑ । अनृ॑णा गृ॒हानु॒-
प्रप्रेतेति॒ वावैतदा॑ह । वरु॑णगृहीतं॒ वा ए॒तद्य॒ज्ञस्य॑ । यद्यजु॑षा
गृ॒हीत॒स्याति॒रिच्य॑ते । तुषां॑श्च निष्का॒सꣳश्च॑ । तुषै॑श्च निष्का॒सेन॑
तैत्तिरीयब्राह्मणम् (१.६.६) २७७
चाव॑भृथमवै॑ति । वरु॑णगृहीतेनै॒व वरु॑णमव॑जयते ।
अ॒पोऽव॑भृथमवै॑ति (५)। अ॒प्सु वै वरु॑णः । सा॒क्षादे॒व
वरु॑णमव॑जयते । प्रतियुतो वरु॑णस्य॒ पाश॒ इत्या॑ह ।
व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्षमाय॑न्ति ।
वरु॑णस्यान्तर्हि॑त्यै । एधो॑ऽस्येधीषीमहीत्या॑ह ।
स॒मिधै॒वाग्निं नम॑स्यन्त । उपा॒र्यन्ति॑ । तेजो॑ऽसि॒ तेजो॒ मयि॑
धे॒हीत्या॑ह । तेज॑ ए॒वाऽऽत्मन्ध॑त्ते (६) ।
क॒रोति॑ ग्राहयत्याहवनी॒यस्तिष्ठ॑ञ्जुहोत्यपो॑ऽवभृथमवै॑ति धत्ते ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठप्रपाठके षष्ठोऽनुवाकः ।
दे॒वासु॑राः सं॒यत्ता॑ आसन् । सोऽग्नि॒रब्र॑वीत् ।
ममे॒यमनी॑कवती त॒नूः । तां प्री॑णीत ।
अथासु॑रा॒नभि॑भविष्य॒थेति॑ । ते दे॒वा अ॒ग्नयेऽनी॑कवते
पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । सोऽग्नि॒रनी॑कवान्त्स्वेन॑
भा॒ग॒धेये॑न प्री॒तः । च॒तुर्धाऽनी॑कान्यजनयत् । ततो॑ दे॒वा
अभ॑वन् । पराऽसु॑राः(१), यद॒ग्नयेऽनी॑कवते
पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पति । अ॒ग्निमे॒वानी॑कवन्त॒ꣳ स्वेन॑
भा॒ग॒धेये॑न प्रीणाति । सोऽग्नि॒रनी॑कवान्त्स्वेन॑ भा॒ग॒धेये॑न
प्री॒तः । च॒तुर्धाऽनी॑कानि जनयते । अ॒सौ वा
आ॑दि॒त्योऽग्नि॒रनी॑कवान् । तस्य॑ र॒श्मयोऽनी॑कानि । सा॒क ँ
सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि
जनयति । ते सु॑राः परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी
उपा॑श्रयन् (२) । ते दे॒वा म॒रुद्भ्य॑: सांत॒पने॑भ्यश्च॒रुं
निर॑वपन् । तान्द्यावा॑पृथि॒वीभ्या॑मे॒वोभय॑तः॒ समर्त्तृपन् ।
यन्म॒रुद्भ्य॑: । सांत॒पने॑भ्यश्च॒रुं निर्व॑पति ।
२७८ (१.६.७) तैत्तिरीयब्राह्मणम्
द्यावा॑पृथि॒वीभ्या॑मे॒व । तदु॑भय॒तो यज॑मानो
भ्रातृ॑व्या॒त्संत॑पति । म॒ध्यंदि॒ने निर्व॑पति । तर्हि॒ हितेऽक्षि॑ष्ठं
तप॑ति । । च॒रुर्भव॑ति । सर्व॑त ए॒वैना॒न्संत॑पति । ते दे॒वाः ।
श्वो॑वि॒जयि॑नः सन्तः॑ । सर्वा॑सां दु॒ग्धे गृ॑हमे॒धीयं॑ च॒रुं
निर॑वपन् (३) । आशि॑ता ए॒वाद्योप॑वसाम। कस्य॒ वा
हेदम् । कस्य॑ वा॒ श्वोभ॑वि॒तेति॑ । स शृतोऽ॑भवत् ।
तस्याहु॑तस्य॒ नाश्न॑न् । न हि दे॒वा अहु॑तस्या॒श्नन्ति॑ ।
तैऽब्रुवन् । कस्मा॑ इ॒म ँ हौष्याम॒ इति॑ । म॒रुद्भ्यो॑
गृहमे॒धिभ्य॒ इत्य॑ब्रुवन् । तं म॒रुद्भ्यो॑ गृहमे॒धिभ्योऽ॑जुहवुः
(४) । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यस्यै॒वं वि॒दुषो
म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना॑ । पराऽस्य॒
भ्रातृ॑व्यो भवति । यद्वै य॒ज्ञस्य॑ पा॒क्त्रा क्रि॒यते॑ । प॒शव्यं॑
तत् । पा॒क्त्रा वा ए॒तत्क्रि॑यते । यन्नेध्मा ब॒र्हिर्भव॑ति । न
सा॑मिधे॒नीरन्वाह॑ (५) न प्रया॒जा इ॒ज्यन्ते॑ । नानू॑या॒जाः ।
य ए॒वं वेद॑ । प॒शुमान्भ॑वति । आज्य॑भागौ यजति ।
य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्त॑रैति । म॒रुतो॑ गृहमे॒धिनौ॑ यजति ।
भा॒ग॒धेये॑नै॒वैना॒न्त्सम॑र्धयति । अ॒ग्नि ँ स्विष्टकृ॑तं यजति
प्रति॑ष्ठित्यै । इडा॑न्तो भवति । प॒शवो॒ वा इडा॑।
प॒शुष्वे॒वोपरि॑ष्टात्प्रतिति॑ष्ठति (६) ।
असुरा अभ्रयन्गृहमेधीयं चरुं निर॑वपन्नजुहवुरन्वाहेडोन्तो भवति द्वे
च॑ ।
इति कृष्णयजुर्वेदीय तैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
अथ षष्ठप्रपाठके सप्तमोऽनुवाकः ।
यत्पत्नी॑ गृहमे॒धीय॑स्या॒श्नीयात् । गृ॒ह॒मेध्यै॑व स्या॑त् । वि
र्तव॑स्य य॒ज्ञ ऋ॑ध्येत् । यन्नाश्नीयात् । अगृ॑हमेधी स्यात्
तैत्तिरीयब्राह्मणम् (१.६.७) २७९
नास्य॑ य॒ज्ञो व्य॑र्द्ध्येत । प्र॒ति॒वे॒शं प॑चेयुः । तस्या॑श्नीयात् ।
गृ॒ह॒मे॒ध्येयैव भ॑वति । नास्य॑ य॒ज्ञो व्य॑र्द्ध्यते (१) । ते दे॒वा
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन् । आञ्ज॑ता॒भ्य॑ञ्जत ।
अनु॑व॒त्सान॑वासयन् । तेभ्योऽसु॑राः क्षुधं॒ प्रा॒हि॑ण्वन् । सा
दे॒वेषु॑ लो॒कमवि॑त्त्वा । असु॑रा॒न्पुन॑रगच्छन् ।
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते (२) ।
अनु॑व॒त्सान्वा॑सयन्ति । भ्रातृ॑व्यायै॒व तद्यज॑मानः क्षुधं॒
प्रहि॑णोति । ते दे॒वा गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सं
न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॑ निहि॑तभाग उपाव॑र्ति॒तेति॑ ।
तानिन्द्रो॑ निहि॑तभाग उपाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य
निष्कां॒सं निर्द॑ध्यात् । इन्द्र॑ ए॒वैनं॑ निहि॑तभाग उपाव॑र्तते ।
गार्ह॑पत्ये जुहोति (३) । भा॒ग॒धेये॑नै॒वैनँ॑ समर्धयति ।
ऋषभमाह्व॑यति । व॒षट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व
तद्वी॒र्यं यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते । इन्द्रो॑ वृ॒त्रँ ह॒त्वा ।
परां॑ प॒रावर्त॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः ।
सो॑ऽब्रवीत् । क इ॒दं वे॑दि॒ष्यतीति॑ । तेऽब्रुवन्म॒रुतो॒ वरं॑
वृणामहै (४) । अथ॑ व॒यं वै॑दाम । अ॒स्मभ्य॑मे॒व प्रथ॑म ँ
ह॒विर्निर्व॑प्यता॒ इति॑ । त एन॒ममध्य॑क्रीडन् । तत्क्री॒डिनां॑
क्री॒डित्वम् । यन्म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ प्रथ॒म ँ ह॒विर्निर्व॑प्यते ।
विजि॑त्यै । सा॒क ँ सूर्येणोद्यता निर्व॑पति । ए॒तस्मि॒न्वै लो॒के
इन्द्रो॑ वृ॒त्रम॑ह॒न्सम्मृ॑द्धयै । ए॒तद्ब्राह्म॑णान्ये॒व पञ्च॑ ह॒वी ँषि॑
ए॒तद्ब्राह्म॑ण ऐन्द्रा॒ग्नः । अथै॒ष ऐन्द्रश्च॒रुर्भव॑ति । उ॒द्धारं॑
वा ए॒तमिन्द्र॑ उ॒द॑हरत । वृ॒त्र ँ ह॒त्वा । अ॒न्यासु॑
दे॒वता॑स्वधि॑ । यदे॒ष ऐन्द्रश्च॒रुर्भव॑ति । उ॒द्धार॑मे॒व तं
यज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण
२८० (१.६.८) तैत्तिरीयब्राह्मणम्
एक॑कपालो भवति । विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒
यज॑मानो॒ऽवरुन्धे (५) ।
ऋ॒ध्यते॒ऽभ्य॑ञ्जते जुहोति वृणामहै भवत्य॒ष्टौ च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्याये सप्तमोऽनुवाकः ॥ ७ ॥
अथ षष्ठप्रपाठकेऽष्टमोऽनुवाकः ।
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा असृ॑जत । ता
व॑रुणप्रघा॒सैर्वरु॑णपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धैः
प्रत्य॑स्थापयत् । त्र्य॑म्बकैरु॒द्रं नि॒र्वा॑दयत । पि॒तृय॒ज्ञेन॑ सुव॒र्गं
लो॒कम॑गमयत् । यद्वै॑श्वदे॒वेन॒ यज॑ते । प्र॒जा एव तद्यज॑मानः
सृज॑ते । ता व॑रुणप्रघा॒सैर्वरु॑णपा॒शान्मु॑ञ्चति । सा॒क॒मे॒धैः
प्रति॑ष्ठापयति । त्र्य॑म्बकैरु॒द्रं निरव॑दयते (१) । पि॒तृय॒ज्ञेन॑
सुव॒र्गं लो॒कं ग॑मयति । द॒क्षि॒णतः प्रा॑चीनावी॒ती निर्व॑पति ।
द॒क्षि॒णावृ॒द्धि पि॑तॄणा॒म् । अना॑दृत्य॒ तत् । उत्त॑रत ए॒वोप॑वी॒य॒
निर्व॑पेत् । उ॒भये॑ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ । अथो॒ यदे॒व
दक्षि॑णा॒र्धेऽधि॑श्रय॑ति । तेन॒ दक्षि॑णा वृ॒त् । सोमा॑य पि॒तृम॑ते
पु॒रोडाश ँ॒ षट्क॑पालं॒ निर्व॑पति । सं॒व॒त्स॒रो वै सोम॑:
पि॒तृमा॑न् (२) सं॒व॒त्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ ब॒र्हिषद्भ्यो॑
धा॒नाः । मासा॒ वै पि॒तरौ॑ ब॒र्हिषद॑: । मासा॑ने॒व प्री॑णाति ।
यस्मि॑न्वा ऋ॒तौ पुरु॑षः प्र॒मीय॑ते । सो॑ऽस्या॒मुष्मिं॑ल्लो॒के
भ॑वति । ब॒हुरू॑पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै ।
पि॒तृभ्यो॑ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अर्ध॑मा॒सा वै
पि॒तरौ॑ऽग्निष्वा॒त्ताः (३) । अर्ध॑मा॒साने॒व प्री॑णाति ।
अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदे॒व॒त्यं॑ दु॒हे ।
यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णा॒म् । उ॒प॒र्यधो॑ दे॒वाना॑म् । अर्ध॑:
पि॒तॄणा॑म् । अर्ध॑ उप॑मन्थति । अर्धो॑ हि पि॒तॄणा॑म् ।
एक॒योप॑मन्थति (४) । एका॒ हि पि॒तॄणा॑म् ।
दक्षि॑णोप॑मन्थति । दक्षि॑णावृद्धि पि॒तॄणा॑म् ।
अना॑रभ्योप॑मन्थति । तद्धि पि॒तॄन्गच्छ॑ति । इ॒मां दिशं॑
वेदि॒मुद्ध॑न्ति उ॒भये॑ दे॒वाश्च॑ पि॒तर॑श्चे॒जय॑न्तै । चतु॑ःस्रक्तिः
भ॑वति । सर्वा॒ ह्यनु॒दिश॑:
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८२ (१.६.९) तैत्तिरीयब्राह्मणम्
नि॒रव॑दयते पि॒तृमा॑नग्नि॒ष्वात्ता॑ एक॒योप॑मन्थि॒त्यखा॑ता भवति
मनु॒ष्या॑णां पद्यन्ते परिदध्यान्मीय॑ते॒ पञ्च॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
अथ षष्ठप्रपाठके नवमोऽनुवाकः ।
अ॒ग्नये॑ दे॒वेभ्यः॑ पि॒तृभ्य॑:
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतैत्तिरीयब्राह्मणम् (१.६.९) २८३
वै सोम॑ः पितृ॒मान् । सं॒व॒त्स॒रमे॒व तद्य॑जति । पि॒तॄन्ब॑र्हि॒षदो॑
यजति । (५) । ये वै यज्वा॑नः । ते पि॒तरो॑ बर्हि॒षद॑ः ।
ताने॒व तद्य॑जति । पि॒तॄन॑ग्निष्वा॒त्तान्य॑जति । ये वा
अय॑ज्वानो गृ॒हमे॒धिन॑ः । ते पि॒तरो॑ऽग्निष्वा॒त्ताः । ताने॒व
तद्य॑जति । अ॒ग्निं क॑व्य॒वाह॑नं यजति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८४ (१.६.१०) तैत्तिरीयब्राह्मणम्
द्वाव॑नूया॒जौ । षट् संप॑द्यन्ते । षड्वा ऋ॒तव॑: । ऋ॒तूने॒व
प्री॑णाति । न पत्न्यन्वा॑स्ते । न संया॑जयन्ति ।
यत्पत्न्यन्वासी॑त । यत्सं॒जा॑ये॑युः । प्र॒मायु॑का स्यात् ।
तस्मान्नान्वा॑स्ते । न संया॑जयन्ति । पत्न्यै॑ गोपी॒थाय॑
(१०) ।
होता॑रमाज्यभा॒गौ य॑जति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतैत्तिरीयब्राह्मणम् (१.७.१) २८५
हि॒नस्ति॑ । तयै॒वैन॑ ँस॒ह श॑मयति । भेष॒जं गवे॒ इत्या॑ह ।
याव॑न्त ए॒व ग्राम्याः॑ प॒शवः॑ । तेभ्यो॑ भेष॒जं क॑रोति ।
अवा॑म्ब रु॒द्र मंदिमहीत्या॑ह । आ॒शिर्ष॑मे॒वैतामाशा॑स्ते
(४) । त्र्य॑म्बकं यजामह॒ इत्या॑ह । मृ॒त्योर्मु॑क्षीय॒
मामृता॒दिति॑ वावैत दा॑ह ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८६ . (१.७.१) तैत्तिरीयब्राह्मणम्
भ॑वति । वा॒युर्वै वृ॒ष्ट्यै प्र॑दापयि॒ता । स ए॒वास्मै॑ वृ॒ष्टिं
प्रदा॑पयति । सौ॒र्य एक॑कपालो भवति । सूर्ये॑ण॒ वा
अ॒मुष्मिँ॒ल्लो॒के वृ॒ष्टिर्धृ॒ता । स ए॒वास्मै॑ वृ॒ष्टिं॒ निय॑च्छति
(१) द्वाद॑शगव॒ꣳ सीरं॒ दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒राः संय॑त्ता
आसन् । ते दे॒वा अ॒ग्निम॑ब्रुवन्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतैत्तिरीयब्राह्मणम् (१.७.२) २८७
नाऽऽर्द्रे॑ण हनः (६) न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पां
फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नाऽऽर्द्रो व्यु॑ष्टासीत् ।
अनु॑दितः॒ सूर्यः॑ । न वा ए॒तद्दिवा॒ न नक्तम्॑ ।
तस्यै॒तस्मिँ॑ल्लो॒के । अ॒पां फेने॑न॒ शिर॒ उद॑वर्तयत् ।
तदेन॒मन्व॑वर्तत । मि॒त्र॒ध्रुगि॑ति । (७) । स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inनिर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालम् (१) । वै॒ष्ण॒वं
त्रिक॑पालम् । वी॒र्यं॒ वा अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्यं॒
विष्णुः॑ । प्र॒जा एव प्र॒जाता वी॒र्यं॒ प्रति॑ष्ठापयति ।
तस्मा॑त्प्र॒जा वी॒र्य॑वतीः । वा॒मन ऋ॑ष॒भो व॒ही दक्षि॑णा ।
यद्व॒ही । तेना॑ऽऽग्ने॒यः । यदृ॑ष॒भः (२) ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतैत्तिरीयब्राह्मणम् (१.७.३) २८९
ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालं॒ यदृ॑ष॒भो दधा॑ति पू॒षा प॒शून्प्रज॑नयति॒
हिर॑ण्यं॒ दक्षि॑णा दक्षि॒णैकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये द्वितीयोऽनुवाकः ॥ २ ॥
अथ सप्तमप्रपाठके तृतीयोऽनुवाकः ।
र॒त्निना॑मे॒तानि॑ ह॒वी ॅ र्षि॑ भवन्ति । ए॒ते वै
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२९० (१.७.३) तैत्तिरीयब्राह्मणम्
गृ॒हे (४) । अन्नं॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । पृश्नि॑र्दक्षिणा॒
समृ॑द्ध्यै । सा॒वि॒त्रं द्वाद॑शकपालं क्षत्तृगृ॑हे प्रसू॑त्यै ।
उ॒प॒ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒श्वि॒नं द्वि॑कपा॒लं
सं॒ग्र॒ही॒तुर्गृ॒हे। अ॒श्विनौ॒ वै दे॒वानां॑ भि॒षजौ॑ । ताभ्या॑मे॒वास्मै॑
भेष॒जं क॑रोति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतैत्तिरीयब्राह्मणम् (१.७.४) २९१
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
अथ सप्तमप्रपाठके चतुर्थोऽनुवाकः ।
दे॒व॒सुवामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒वाव॑न्तो॒ वै दे॒वा
नाꣳ॑स॒वाः । त ए॒वास्मै॑ स॒र्वान्प्रय॑च्छन्ति । त एन॑ꣳ सुवन्ते ।
अ॒ग्निरेवैनं॑
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदे॒वता॑भिरे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । वि॒ष्णुक्र॒मान्क्र॑मते ।
वि॒ष्णुरे॒व भू॒त्वेमा ँल्लो॒कान॒भिज॑यति (४) ।
स॒त्याना॑म॒धायी॒त्याहा॑तारी॒दित्या॑ह क्रम॒त एकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
अथ सप्तमप्रपाठके पञ्चमोऽनुवाकः ।
अर्थेतः स्थेति॑
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inब्राह्मणाच्छँ॑ सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता॑ ।
तैत्तिरीयब्राह्मणम् (१.७.६) २९३
षोड॒शभि॑र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः यावा॑ने॒व
पुरु॑षः । तस्मि॑न्वी॒र्यं॑ दधाति । षोड॒शभि॑र्जुहोति॒
षोड॒शभि॑र्गृह्णाति । द्वात्रि॑ँश॒त्संप॑द्यन्ते । द्वात्रि॑ँ
शदक्षराऽनु॒ष्टुप् । वाग॑नु॒ष्टुप् सर्वा॑णि॒ च्छन्दाँ॑सि ।
वा॒चैवैनँ॒ सर्वै॑भिश्छन्दो॑भि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२९४ (१.७.६) तैत्तिरीयब्राह्मणम्
गृह्णा॑ति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । एक॑या गृह्णाति । एक॑धैव
यज॑माने वी॒र्यं॑ दधाति । क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑
योनि॑रसीति॑ ता॒र्प्यं चोष्णीषं॑ च॒ प्रय॑च्छति सयोनित्वा॒य॑ ।
एक॑शतेन दर्भपुञ्जी॒लैः पव॑यति । श॒तायु॒र्वे पुरु॑षः
श॒तवी॑र्यः । आ॒त्मैक॑शतः (४) यावा॑ने॒व
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतैत्तिरीयब्राह्मणम् (१.७.७) २९५
तिस्रो॒ वै श॑र॒व्या॑: । प्र॒तीची॑स्ति॒रश्च्यूनूची॑: । ताभ्य॑ ए॒वैनं॑
पा॒न्ति॒ । दिग्भ्यो॒ मा पा॒तेत्या॑ह । दिग्भ्य॑ ए॒वैनं॑ पा॒न्ति॒ ।
विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑: पा॒तेत्या॑ह । अप॑रिमितादे॒वैनं॑
पा॒न्ति॒ । हिर॑ण्यवर्णावु॒षसां॑ वि॒रोक॒ इति॑ त्रि॒ष्टुभा॑ बा॒हू
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in