स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
by महाकवि भास / पं. विश्वनाथ शास्त्री
About this granth
Svapnavasavadattam (स्वप्नवासवदत्तम्, 'The Vision of Vasavadatta') is the most celebrated play of the Sanskrit dramatist Bhasa. King Udayana of Vatsa believes his queen Vasavadatta has died in a fire, a story spread by his minister Yaugandharayana, who leaves her in the care of the Magadha princess Padmavati so that Udayana may marry her for political reasons. The dream scene of the fifth act, where the sleeping king calls out to Vasavadatta, is among the most tender moments in Sanskrit theatre.
Bhasa's plays were thought lost until T. Ganapati Sastri found their manuscripts in Kerala early in the twentieth century. The opening pages of this scan are from that first edition: number 15 of the Trivandrum Sanskrit Series, printed in 1912 by the Travancore government, edited by Ganapati Sastri with short notes. The play has six acts, from the hermitage near Lavanaka to the recognition through the lute Ghoshavati.
The scan has about 204 pages.
४० उपॊद्घातः
११. “वीजन्तो मलयानििला अपि ।” (अभिषेक. अङ्क. ३)
१२. “सीतां समाश्वासितुम् ।” (अभिषेक. अङ्क. ७)
१३. “ऋज्वायतां च मुखतोरणलोलमालाम् ।” (स्वप्न. अङ्क. ५)
इत्येवञ्जातीयकाः। अत्र स्थूलाक्षरेषु पदेषु पदव्यत्ययः, 'हस्त्यश्वरथपदातीनी'त्यत्रा-
नैकवद्भावः उच्च्वसामीत्यत्र शब्लोपः, 'वीजन्तः' 'समाश्वासितुमि'त्यनयोर्णिज्-
लोपः, 'ऋज्वायतां चे'त्यत्र
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inउपोद्घातः ४१
क्रान्तवत्सराजवधप्रतिषेधस्य न्याय्यत्वाच्च। अत एवारुचेर्मन्ये, भामहाचार्यस्तु-
तीयं न्यायविरोधं कृत्रिमगजगतविशेषाज्ञानलक्षणं पर्यन्ते समुद्भावयाम्बभूव। किन्तु
सूक्ष्मेक्षिकायमेतदपि दूषणं न लगति। प्रतिज्ञानाटिकायां हि वत्सराजच्छलन-
वृत्तान्तं निवेदयन् हंसको नाम वक्ति—
“तदो दिउणं विअ अद्धाणं गच्छिअ साळरुक्खच्छाआए सवण्णदट्ठणील-
दाए
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४२ उपोद्घातः
अस्य भासनाटकचक्रस्य कालिदासकाले निरङ्कुशः प्रचार आसीत् ,
'प्रथितयशसां भाससौमिल्लकविपुत्रादीनाम्' इति कालिदासोक्तेः। शूद्रककाले तु
[margin: अप्रचारः।] स भृशं विरलोऽभवत्। अत एव मृच्छकटिके शूद्रकस्य चारुदत्तना-
टकीयभूयिष्ठवाक्यसङ्कलनसंरम्भोपपत्तिः, तथा परवाक्यसङ्कलननिष्पा-
दितस्य मृच्छकटिकस्य प्रचारोपपत्तिश्च। ततः प्रचारः क्रमशॊ हीयमानो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inउपोद्घातः ४३
तदेवमभिनवोपलब्धानां नाटकानां स्वभावः, कर्ता, काल इत्येतत्प्रधाना
विचाराः कृताः। पुरावृत्तविशेषाभ्यूहानुकूलं वस्तु तेषु किंकिमस्तीति चिन्तनं सक-
निगमनम्। लनाटकव्यालोडनसापेक्षत्वात् सकलनाटकप्रकाशनोत्तरमेव सुकरं
सुबोधं चेति कृत्वा स्थापितमायत्यै। उपलब्धे नाटकचक्रसंपुटे
स्वप्नवासवदत्तनाटकस्य प्राथम्यान्नाटकान्तरकर्त्रादिनिर्णयानुकूलत्वाच्च तदिदा-
नीमादितः प्रकाशयामः। क्रमेण तु प्रतिज्ञायौगन्धरायणादीनि प्रकाशयि-
ष्यामः ॥
अनन्तशयनम् }
११-४-१९१२. } त. गणपतिशास्त्री.
Blank page
ERRATA TO INTRODUCTION.
Page. Line. Incorrect. Correct.
xix 14 ज्ञा मा
xxii 17 9 10
” 23 second third
” 24 fifth fourth
” 28 very same 2nd
” ” is of 5th Adhikarana is
२० १६ नव दश
” २१ पञ्चमा चतुर्था
” ” द्वि तृ
Blank page
निवेदना ।
—
अत्रास्य स्वप्नवासवदत्तम् इति संज्ञा राजशेखरसुभाषितानुसाराद्
व्यवहृता । स्वप्नवासवदत्तेति स्वप्ननाटकमिति च कामं व्यवहर्तुं शक्यम् ।
तत्र मणालिक्करमठीया स्वप्नवासवदत्तमातृका क. चिह्निता । पण्डितानन्ताचा-
र्यप्रहिता ख. चिह्निता । कृष्णतन्त्रस्वामिका ग. संज्ञा । आद्ययोः पाठभेदाः
प्रतिपृष्ठमधस्तान्निवेशिताः । तृतीयस्यास्तु ते पुस्तकान्ते पृथङ् निवेशिताः । मातृका-
यामदृष्टानाम्पेक्षिततया प्रतिभातानामक्षराणां चापरेखान्तर्निवेशनम्, असमञ्जसा-
नामक्षराणां पार्श्वतः प्रश्नचिह्नदानपूर्वं समञ्जसाभिमतान्यक्षराणि निवेश्य तेषामुभ-
येषां चापरेखान्तर्निवेशनं, समञ्जसाक्षराप्रतिभानेऽसमञ्जसाक्षरमात्रस्य सप्रश्नचिह्न-
स्य चापरेखान्तर्न्यसनमित्येषा संशोधनरीतिः । कस्याञ्चिदपि मातृकायां प्राकृत-
स्य संस्कृतच्छायाया अदर्शनात् सा प्रायः पर्यालोच्य लिखिता । तत्तत्पृष्ठेषु
यथापेक्षं टिप्पण्यप्यधस्ताद् दत्ता । ये ग. ग्रन्थे पाठभेदाः, ये च क. ग्रन्थे त्रुटि-
तांशाः ख. ग्रन्थादुपलब्धाः, ते पुस्तकस्यान्ते परिशिष्टतया योजिताः ॥
त. गणपतिशास्त्री.
Blank page
कथावस्तुसंक्षेपः
——————
“पद्मावतीं नाम दर्शकस्य राज्ञो भगिनीं वत्सराज उदयनः परिणेष्यति,
ततः शत्रुहृतं राज्यं समग्रं पुनरधिगमिष्यति” इति सिद्धादेशिकवाक्यविश्वासात्
पद्मावतीपरिणयशीघ्रघटनाय वत्सराजमन्त्री यौगन्धरायणो वासवदत्तां नाम
तत्पूर्वमहिषीमवन्तिराजमहासेनदुहितरं लावाणकग्रामदाहेन दग्धामपदिश्य ब्राह्म-
णव्यञ्जनः प्रोषितभर्तृकस्वभगिनीव्यपदेशेन पद्मावत्या हस्ते न्यासं कृत्वा गतः ।
तां चात्यन्तिकवासवदत्ताविरहप्रतीत्या वत्सराजः सशोकोऽपि दर्शकेन दत्तां म-
हिषीत्वेन प्रतिजग्राह । एकदा पर्यङ्कनिद्रालोर्वत्सराजस्य पार्श्वे पद्मावतीबुद्ध्या
संविष्टा वासवदत्ता स्वात्मानमभिसम्बुध्योत्स्वप्नायमानमुत्कण्ठया वत्सराजं स्व-
प्रवचनानुगुणं किमप्यभिभाष्य संस्पृश्य च तत्प्रबोधभिया शय्यागृहाद् बहिरधा-
वद्, झटिति च प्रबुध्यानुधावतो वत्सराजाद् द्वारपक्षाभिघातक्षणप्रतिरुद्धगतेर्नि-
लिल्ये। अथ द्विगुणरणकदूनो वत्सराजो वासवदत्तावैवाहिकचित्रफलके वा-
सवदत्ताजनन्या स्वात्मविनोदाय जामातृवात्सल्याद् यदृच्छया प्रहिते तां पद्माव-
त्या सह पश्यन् “अस्ति चित्रदृष्टवासवदत्तारूपसंवादिनी काचिदावन्तिका नाम
मदन्तःपुरे, सा हि ब्राह्मणेन केनचित् स्वभगिनीति रक्षणार्थं मयि न्यस्ता” इति
तया बोधितोऽभवत् । ततस्तया तामानीताम् उदयनः प्रत्यभिज्ञाय यौगन्धराय-
णेन च कपटब्राह्मणेन न्यासप्रत्यर्पणार्थिना तत्कालसन्निहितेन समागम्य विदितस-
फलात्ममन्त्रितन्त्रमुदितस्ताभ्यां पत्नीभ्यां सहितः सौख्यानि निर्विवेशेति ॥
पात्राणि ।
पुरुषाः—
राजा = उदयननामा वत्सराजः ।
यौगन्धरायणः = वत्सराजमन्त्री ।
विदूषकः = वसन्तकनामा वत्सराजनर्मसचिवः ।
ब्रह्मचारी = लावणकेऽधीती ।
काञ्चुकीयः = राजकुले भृत्यः ।
संभषकः }
भटः } = पद्मावतीभृत्यौ ।
स्त्रियः—
वासवदत्ता = उदयनस्य प्रथममहिषी । इयमावन्तिका च ।
पद्मावती = मगधराजस्य दर्शकनाम्नो भगिनी ।
तापसी
चेटी = पद्मावत्याः किङ्करी ।
मधुकरिका }
पद्मिनिका } = पद्मावत्याः सख्यौ चेट्यौ वा ।
धात्री = पद्मावत्या उपमाता ।
विजया = वत्सराजगृहे प्रतिहारी ।
धात्री = वासवदत्ताया उपमाता ।
॥ श्रीः ॥
श्रीगणेशाय नमः ।
महाकविश्रीभासप्रणीतं
स्वप्नवासवदत्तम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः —
*उदयनवेन्दुसवर्णोवासवदत्ताबलो बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ १ ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञा-
पनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
(क) उस्सरह उस्सरह अय्या ! उस्सरह ।
सूत्रधारः — भवतु, विज्ञातम् ।
(क) उत्सरतोत्सरतार्याः ! उत्सरत ।
- उदयनवेन्दुसवर्णौ उदयकालनूतनचन्द्रतुल्यवर्णौ दत्तमासवं मद्यं यस्यै सा आसव-
दत्ता । दत्तशब्दपरनिपात आहिताग्न्यादि(२. २. ३७)त्वात्, तथाभूताबला याभ्यां तौ आस-
वदत्ताबलो पद्मावतीर्णपूर्णौ लक्ष्म्याविर्भावसमृद्धौ वसन्ते कम्रौ मनोज्ञौ तत्कालोचितशृङ्गारवेष-
परिग्रहात्, वसन्ताख्यतालविशेषमनोज्ञौ वा बलस्य बलभद्रस्य भुजौ त्वां पातां रक्षताम् । अत्र
मुद्रालङ्कारविधया प्रधानपात्राणाम् उदयन-वासवदत्ता-पद्मावती-वसन्तकानां निर्देशः कृतः ।
२ स्वप्नवासवदत्ते
भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः ।
धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ २ ॥
(निष्क्रान्तः)
स्थापना ।
(प्रविश्य)
भटौ — (क) उस्सरह उस्सरह अय्या ! उस्सरह ।
(ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः आवन्तिकावेषधारिणी वासवदत्ता च)
यौगन्धरायणः — (कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः,
धीरस्याश्रमसंश्रितस्य वसतःस्तुष्टस्य वन्यैः फलै-
र्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः
कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ ३ ॥
वासवदत्ता — (ख) अय्य ! को एसो उस्सारेदि ।
यौगन्धरायणः — योऽधर्मो(द्)दामात्मानमुत्सारयति ।
वासवदत्ता — (ग) अय्य ! ण हि ५ एव्वं वत्तुकामा, अहं वि
णाम ६ उस्सारइदव्वा होमि त्ति ।
(क) उत्सरतोत्सरतार्याः ! उत्सरत ।
(ख) आर्य ! क एष उत्सारयति ।
(ग) आर्य ! न ह्येवं वक्तुकामा, अहमपि नामोत्सारयितव्या भवामीति ।
१. 'ततः प्रविशतः साधारणौ' ख. पाठः. २. 'साधारणौ — उ' ख. पाठः. ३. 'सो' ग.
पाठः. ४. 'त्युत्सुको ॥' ख. पाठः. ५. 'हु' ख. पाठः. ६. 'दाव उ' ख. पाठः.
प्रथमोऽङ्कः । ३
यौगन्धरायणः — भवति! एवमनिर्ज्ञातानि दैवतान्यवधू-
यन्ते ।
वासवदत्ता —(क) अय्य ! तह परिस्समो परिखेदं ण उप्पा-
देदि, जह अअं परिभवो ।
यौगन्धरायणः — भुक्तोज्झित
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inउभौ — (क) अय्य! तह।
(निष्क्रान्तौ)
यौगन्धरायणः — हन्त सविज्ञानमस्य दर्शनम्। वत्से!
उपसर्पावस्तावदेनम्¹।
वासवदत्ता — (ख) अय्य! तह।
यौगन्धरायणः — (उपसृत्य) भोः!
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथमोऽङ्कः ।
*यौगन्धरायणः — (स्वगतम्) एवम् । एषा सा मगधराज-
पुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा
स्वामिनो देवी भविष्यतीति । ततः,
प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते ।
भर्तृदाराभिलाषित्वादस्यां मे महती
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६ स्वप्नवासवदत्ते
पद्मावती — (क) भोदु भोदु। अय्ये! विस्ससि(हे?)हि। १
इमिणा बहुमाणवअणेण अणुग्गहिदह्मि।
वासवदत्ता — (स्वगतम्) (ख) ण हिं रूवं एव्व, वाआ वि २
खु से महुरा।
तापसी — (ग) भद्दे! इम दाव भद्दमुहस्स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथमोऽङ्कः । ७
काञ्चुकीयः — यदभिप्रेतं भ¹वत्या । भोभो आश्रमवा-
सिनस्तपस्विनः ! शृण्वन्तु शृण्वन्तु भवन्तः । इहात्रभवती मगध-
राजपुत्री अहो विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिम-
न्त्रयते ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inस्वप्नवासवदत्ते
वासवदत्ता — (आत्मगतम्) (क) हं १ इह मं णिक्खिविदुकामो
अय्ययोगन्धरायणो । होदु, अविआरिअ कमं ण करिस्सदि ।
काञ्चुकीयः — भवति ! महती खल्वस्य व्यपाश्रयणा‡ ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथमोऽङ्कः । ९
काञ्चुकीयः -- भवति ! तथा॑ । (उपगम्य) भोः ! अभ्युप-
गतमत्रभवतो भगिन्याः परिपालनमात्रभवत्या ।
यौगन्धरायणः -- अनुगृहीतोऽस्मि तत्रभवत्या । वत्से !
उपसर्पात्रभवतीम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in