Skip to content
SarvaKosh
Back to the archive

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

About this granth

Subhashita Ratna Bhandagara (सुभाषितरत्नभाण्डागार, 'Treasury of Gem-like Sayings') is a large anthology of Sanskrit subhashitas, the short, polished verses quoted for their wit and wisdom. It was compiled by Pandit Kashinath Sharma (Kashinath Pandurang Parab) and published by the Nirnaya Sagar Press, Bombay; the English title page describes it as a collection of more than ten thousand verses gathered from poems, plays, works on statecraft and stray stanzas.

The book opens with a subject index giving the page and verse numbers for each topic. The first section, of invocations, has verses on Parabrahman, Ganesha, Sarasvati, Shiva, the Ganga, Vishnu, Lakshmi, the ten avatars, Krishna, Radha and others, and later sections take up conduct, kingship, allegory, love and nature.

At about 516 pages, it remains a standard place to look for a fitting Sanskrit verse on a given theme.

Page 106
Page 106 scan

दैवाख्यानम् ९१

यस्य फलान्वेषि करोति विफलाः क्रियाः ॥ ६ ॥ दैवे विमुखता याते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाऽथ सहोदरः ॥ ७ ॥ पिबन्ति मधु पद्मेषु भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥ ८ ॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेवाप्स्यद्यद्विधेर्मनसि स्थितम् ॥ ९ ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिलक्ष्मीं हरो विषम् ॥ १० ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । पाषाणस्य कुतो विद्या येन देवत्वमागतः ॥ ११ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२ ॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वं काल नातिवर्तन्ते तथा कर्म पुरा कृतम् ॥ १३ ॥ विपत्तौ किं विषादेन संपत्तौ हर्षेणेन किम् । भवितव्यं भवत्येव कर्मणामीदृशी गतिः ॥ १४ ॥ हरिणापि हरेणापि ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा न शक्या परिमार्जितुम् ॥ १५ ॥ सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि । नानुसरन्ति स्वजन यस्य दैवमदक्षिणम् ॥ १६ ॥ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १७ ॥ अयाचितः सुख दत्ते याचितश्च न यच्छति । सर्वस्व चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥ १८ ॥ मनोरथान्करोत्युच्चैर्जनो दैवहतस्तपि । सिद्धयस्सिद्ध्योः सम कुर्याद्दैवं हि फलसाधनम् ॥ १९ ॥ पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी । शङ्खो रोदिति भिक्षार्थी फलं भाग्यानुसारतः ॥ २० ॥ तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशाश्चैव यादृशी भवितव्यता ॥ २१ ॥ भवितव्यं भवत्येव नारिकेलफलाम्बुवत् । गन्तव्य गतमित्यादुर्हगजभुक्तकपित्थवत् ॥ २२ ॥ महतामाश्रयः पुंसा फल भाग्यानुसारतः । ईशस्य कण्ठलग्नोऽपि वासुकिर्वायुभक्षकः ॥ २३ ॥ कर्मणा बाध्यते बुद्धिर्न बुद्ध्या कर्म बाध्यते । सुबुद्धिरपि यद्रामो हैमं हरिणमन्वगात् ॥ २४ ॥ गुणोऽपि दोषता याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् दोषोऽपि च गुणायते ॥ २५ ॥ अवश्यंभाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ २६ ॥ पुरुषः पौरुषं तावद्यावद्दैव तु सन्मुखम् । विपरीतेगते दैवे पुरुषो न च पौरुषम् ॥ २७ ॥ न देशसेवया याति कर्मबन्धः परिक्षयम् । जघास घास-मेवासौ बलीवर्दः कपर्दिनः ॥ २८ ॥ अवश्यभाविभावाना प्रतीकारो भवेद्यदि । तदा दुःखैर्न लिप्येरन्नलरामयुधिष्ठिराः ॥ २९ ॥ भवितव्यं यथा येन नासो भवति चान्यथा । नीयते तेन मार्गेण स्वय वा तत्र गच्छति ॥ ३० ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मणा । प्रागेव हि मनुष्याणा बुद्धिः कर्मानुसारिणी ॥ ३१ ॥ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका । ता देवोऽपि न शक्नोति व्युल्लङ्घ्य लिखितु पुनः ॥ ३२ ॥ येन यत्रैव भोक्तव्य सुखं वा दुःखमेव वा । स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते ॥ ३३ ॥ सा सा संपद्यते बुद्धिः सा मतिः सा च भावना । सहायास्तादृशा एव यादृशी भवितव्यता ॥ ३४ ॥ अनुरागवती संध्या दिवसस्तत्तैःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ३५ ॥ अघटितघटितं घटयति सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ ३६ ॥ विकटाटव्यामटन शैलारोहणमपानिधेस्तरणम् । निगडं गुहाप्रवेश विधिविपाकः कथं न संधार्यः ॥ ३७ ॥ किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूलम् । विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ३८ ॥ द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ३९ ॥ अनुकूले सति धैातरि भवत्यनिष्टादपीष्टमविलम्बम् । पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कालम् ॥ ४० ॥ अनुचितमेवाचरित पशुपतिना यद्विधेः शिरश्छिन्नम् । छिन्नो न चास्य हस्तो येनाय दुर्लिपिं लिखति ॥ ४१ ॥ नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ ४२ ॥ सर्वाङ्गमर्पयन्ती लीलासुरसं क्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ४३ ॥ आरोहतु गिरिशिखर तरतु समुद्र प्रयातु पातालम् । विधिलिखिताक्षरभालं फलति कपालं न भूपालः ॥ ४४ ॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशत. ईश्वरो जनार्दनः सोऽपि चित्रमिदम् ॥ ४५ ॥ यन्मनोरथशतैरगोचर न स्पृशन्ति च गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा लीलयैव विदधाति तद्विधिः ॥ ४६ ॥ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहत विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥ ४७ ॥ दाता बलिः

१ पराक्रम . २ प्राप्नोति ३ अप्रेर्यमाणानि ४ खेदेन ५ दैवे ६ वामम् प्रतिकूलमिति यावत् ७ सुवर्णमयम् ८ प्रतिकूलत्वमापन्ने दैवे१ शिवस्य २ रक्तिमा, पक्षे,-रति ३ अग्रवर्ती, पक्षे,-आज्ञाकरः. ४ दैवे ५ शिवेन ६ दुर्लेखम् ७ पुरुषवदाचरन्ती स्त्री कामशास्त्रे प्रसिद्धा, तद्वत् ८ मत्स्यावतार
Page 107
Page 107 scan

९२ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


प्रार्थयिता च विष्णुर्दानं भुवो वाजिमखस्य कालः । नमो-
ऽस्तु तस्मै भवितव्यतायै यस्याः फलं बन्धनमेव जातम्
॥ ४८ ॥ प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं
न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं
नहि तत्परेषाम् ॥ ४९ ॥ मा धाव मा धाव विनैव दैव
नो धावन साधनमस्ति लक्ष्म्याः । चेद्धावन साधनमस्ति
लक्ष्म्याः श्वा धावमानोऽपि लभेत लक्ष्मीम् ॥ ५० ॥ ईशः
करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलाख्यः । तथापि
भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः
॥ ५१ ॥ स्वयं महेशः श्वशुरो नगेशः सखा धनेशस्तनयो
गणेशः । तथापि भिक्षाटनमेव शंभोर्बलीयसी केवलमीश्वरे-
च्छा ॥ ५२ ॥ असंभवं हेममृगस्य जन्म तथापि रामो
लुलुभे मृगाय । प्रायः समासन्नविपत्तिकाले धियोऽपि पुंसां
मलिनीभवन्ति ॥ ५३ ॥ न भूतपूर्वो न च केन दृष्टो हेम्नः
कुरंगो न कदापि वार्ता । तथापि तृष्णा रघुनन्दनस्य
विनाशकाले विपरीतबुद्धिः ॥ ५४ ॥ धनानि भूमौ पशवश्च
गोष्ठे भार्या गृहद्वारि जनः श्मशाने । देहश्चितायां परलोक-
मार्गे कर्मानुगो गच्छति जीव एकः ॥ ५५ ॥ वने रणे
शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं
विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५६ ॥
सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा ।
अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः
॥ ५७ ॥ यः सुन्दरस्तद्दयिता कुरूपा या सुन्दरी सा
पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि
विचेष्टितानि ॥ ५८ ॥ अमन्वनान्ते नवमञ्जरीषु न षट्पदो
गन्धफलीमजिघ्रत् । सा किं न रम्या स च किं न रन्ता
बलीयसी केवलमीश्वरेच्छा ॥ ५९ ॥ विधौ विरुद्धे न पयः
पयोनिधौ सुधौघसिन्धौ न सुधा सुधाकरे । न वाञ्छितं
सिध्यति कल्पपादपे न हेम हेमप्रभवे गिरावपि ॥ ६० ॥ अव-
श्यमन्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा ।
तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना
॥ ६१ ॥ निपतति किल दुर्बलेषु दैवं तद्वितथं ननु येन
कारणेन । बलवति न तथा यथाबलानां प्रभवति कृष्टशरा-
सनो मनोभूः ॥ ६२ ॥ हरशिरसि शिरांसि यानि रेजुः शिव
शिव तानि लुठन्ति गृध्रपादे । अयि खलु विषमैः पुराकृतानां
भवति हि जन्तुषु कर्मणां विपाकः ॥ ६३ ॥ क्व च ननु
जनकाधिराजपुत्री क्व च दशकंधरमंदिरे निवासः । अयि
खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः
॥ ६४ ॥ क्व नु कुलमकलङ्कमायताक्ष्याः क्व नु रजनीचर-
संगमापवादः । अयि खलु विषमः पुराकृतानां भवति हि
जन्तुषु कर्मणां विपाकः ॥ ६५ ॥ क्व वनं तरुवल्कभूषणं
नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतं प्रतिकूलवर्तिनो बत
धातुश्चरितं सुदुःसहम् ॥ ६६ ॥ सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः । तदपि तत्क्षणभङ्गि करोति चेदहह
कष्टमपण्डितता विधेः ॥ ६७ ॥ गजभुजंगमयोरपि बन्धनं
शशिदिवाकरयोर्ग्रहपीडनम् । मतिमतां च समीक्ष्य दरि-
द्रता विधिरहो बलवानिति मे मतिः ॥ ६८ ॥ यदपि
जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके । तदपि
नाथ पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ६९ ॥
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ७० ॥
यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च
शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च
तच्च तावच्च तत्र च विधातुवशादुपैति ॥ ७१ ॥ नैवाकृतिः
फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृतापि
सेवा । भाग्यानि पूर्वतपसा किल संचितानि काले फलन्ति
पुरुषस्य यथैव वृक्षाः ॥ ७२ ॥ आकाशमुत्पततु गच्छतु
वा दिगन्तमम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मा-
न्तरार्जितशुभाशुभकृन्नराणां छायेव न त्यजति कर्मफलानु-
बन्धः ॥ ७३ ॥ भीमं वनं भवति तस्य पुरं प्रधानं सर्वो
जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधि-
रत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ ७४ ॥ कैवर्त-
कर्कशकरग्रहणच्युतोऽपि जालान्तरे निपतितः शफरो वराकः ।
दैवात्ततो विगलितो गिलितो बकेन वक्रे विधौ वद कथं
व्यवसायसिद्धिः ॥ ७५ ॥ दैवे समर्प्य चिरसंचितकर्मजालं
सुस्थाः सुखं वसत किं परयाचनाभिः । मेरुं प्रदक्षिणयतोऽपि
दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिदष्टौ ॥ ७६ ॥
येनाञ्चलेन सरसीरुहलोचनायास्त्रातः प्रभूतपवनादुदये
प्रदीपः । तेनैव सोऽस्तसमयेऽस्तमयं विनीतः कष्टे विधौ
भजति मित्रममित्रभावम् ॥ ७७ ॥ आधोरणाङ्कुशभयात्करि-
कुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानाम् । तत्रापि वल्लभ-
नखक्षतभेदभिन्नं नैवान्यथा भवति यल्लिखितं विधात्रा ॥ ७८ ॥
संजातसान्द्रमकरन्दरसां क्रमेण पातुं गतश्च कलिकां कम-
लस्य भृङ्गः । दग्धा निपत्य सहसैव हिमेन सैषा वामे विधौ
नहि फलन्त्यभिवाञ्छितानि ॥ ७९ ॥ सिंहो बली गिरि-


पादटिप्पण्यः (Footnotes)

[वामभागः]
१ अश्वमेधस्य. २ दैवाय. ३ दैवे, पक्षे,-चन्द्रे ४ वक्रे, पक्षे,-विपरीते ५ हिमालय. ६ पूर्वसञ्चितकर्मसंबद्ध ७ अमर ८ चम्पककलिकाम् ९ दुरासदा, दुःप्रतीकारा वा १० नितान्तचञ्चलस्वभावेन ११ मदनः. १२ क्लेशदः १३ परिणामः

[दक्षिणभागः]
१ मूर्खता. २ दैवम् ३ दैववशात् ४ कैवर्तो धीवरः, तस्य कठोरकरग्रहणाच्च्युतः ५ शत्रुस्वभावम्

Page 108
Page 108 scan

दैवाख्यानम् ९३


गुहागहनप्रवासी वासोदरे वसति भूमिभृता बिडालः। नो^१
पौरुषं कुलमपि प्रचुरा न वाणी दैव बलीय इति मुञ्च सखे
विषादम् ॥ ८० ॥ सदसि विदुरभीष्मद्रोणशारद्वतानां
पतिभिरमरकल्पैः पञ्चभिः पालितापि । अहह परिभवस्य^३
द्रौपदी पात्रमासीद्बलवति सति दैवे बन्धुभिः किं विधेयम्
॥ ८१ ॥ गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या^४
यत्नतः पण्डितेन । अतिरभसकृतानां^६ कर्मणामाविपत्तेर्भवति
हृदयदाही शल्यतुल्यो विपाकः ॥ ८२ ॥ स हि गगन-^७
विहारी कलुषध्वंसकारी^८ दशशतकरकारी ज्योतिषा मध्य-
चारी । विधुरपि विधियोगाद्ग्रस्यते राहुणासौ लिखितमिह
ललाटे प्रोज्झितुं कः समर्थः ॥ ८३ ॥ अयममृतनिधानं
नायकोऽप्योषधीनां शतभिषगनुयातः^१० शम्भुमूर्द्धोऽवतंसः ।
विरहयति न चैनं राजयक्ष्मा शशाङ्कं हतविधिपरिपाकः
केन वा लङ्घनीयः ॥ ८४ ॥ शशिनि खलु कलङ्कः कण्टकः
पद्मनाले युवतिकुचनिपातः पकता केशजाले । जलधिजल-
मपेयं पण्डिते निर्धनत्वं वयसि धनविवेको निर्विवेको
विधाता ॥ ८५ ॥ प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परापरि-
चयचले चिन्ताचके निधाय विधिः खलः । मृदमिव
बलात्पिण्डीकृत्य प्रगल्भकुलालवद्भ्रमयति मनो नो जानीमः
किमत्र करिष्यति ॥ ८६ ॥ क्वचित्पाणिप्राप्तं घटितमपि
कार्यं विघटयत्यशक्यं केनापि क्वचिदघटमानं घटयति ।
तदेव सर्वेषामुपरि परितो जाग्रति विधावुपालम्भः कोऽयं
जनतनुघनोपार्जनविधौ ॥ ८७ ॥ नमस्यामो देवान्ननु हत-
विधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैक-
फलदः । फलं कर्म्मायत्तं यदि किममरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति^११ ॥ ८८ ॥
त्रिलोकेशः शार्ङ्गी^१२ शबरशर^१३ लक्ष्यत्वमगमद्विधाता^१४ लोकाना-
मलभत शिरःकृन्तनविधिम्^१५ । प्रयातो तौ राहोर्दिनकर-
शशाङ्कौ कवलतां^१६ प्रभुर्नभः शंसुः शिरसि लिखितं लङ्घयति
कः ॥ ८९ ॥ सुधाशौर्जातेयं कथमपि कलङ्कस्य कणिका
विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि । स किं नात्रेः
पुत्रो न किमु हरचूडार्चनमणिर्न वा हन्ति ध्वान्तं^१७ जगदु-


परि कि वा न वसति ॥९०॥ लीलाये^१ गोमये^२ मृगपरिषद्वि
श्वापदकुले करिष्यन्कार्पण्यं किमिह महिमानं गमयसि ।
निमग्नः पङ्केऽस्मिन्ननुभव करीन्द्राधिपदगामभद्रं^५ भद्रं वा
विधिलिखितमुन्मूलयति कः ॥ ९१ ॥ धुनोति ध्वान्तानि^३
व्यपनयति नीहारपटल^४ कुलं राजीवानां^५ दलयति रथाङ्गं^६
रमयति । जगद्धात्री देवैः^७ सुखयति जनानां च नयनं न
याति क्षेमान्^८ यदि तदिह दैवं जयतु कः ॥ ९२ ॥ त
एवामी बाणास्तदपि हरलब्धं धनुरिदं स एवाहं पार्थः
प्रमथितसुसरातिनिचयः । इमास्तास्ता गोप्यो हरिचरण-
चित्तैकशरणा ह्रियन्ते गोपालैर्विधिरिह बलीयान्न तु नरः
॥ ९३ ॥ अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो
भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति
सर्वामरगुरोर्विधौ वक्रे^९ मूर्ध्नि स्थितवति वयं के पुनरमी
॥ ९४ ॥ पिता रत्नाभारः शुचिमहचरास्ते च मणयः स्वसा
स्निग्धा लक्ष्मीरयमवरजः कल्पविटपी । अहो काम्यं धातु-
स्तदपि खलु शङ्खः^१० प्रतिपदं रुदित्वा यद्दीर्घं दिशि दिशि
वराटं^१३ मृग्यते ॥ ९५ ॥ पत्रं नैव यदा करीरविटपे दोषो
वसन्तस्य किं नोलूकेन^११ विलोक्यते यदि दिवा सूर्यस्य किं
दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं
यद्धात्रा निजभालपट्टलिखितं तन्मार्जितुं^१२ कः क्षमः^१३ ॥ ९६ ॥ या
साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः प्रत्यक्षं
कुरुते परोक्षममृतं हालाहलं तत्क्षणात् । तामाराध्य सत्क्रिया
भगवतीं भोक्तुं फलं वाञ्छितं हे साधो व्यसनिन्गुणेषु विपु-
लेष्वास्थां वृथा मा कृथाः ॥ ९७ ॥ ब्रह्मा येन कुलालव-^१४
न्नियमतो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तः
सदा संकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९८ ॥
यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति
मरुस्थलेऽपि^१५ नितरां मेरौ ततो नाधिकम् । तद्धीरो भव
वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधा-
वपि घटो गृह्णाति तुल्यं जलम् ॥ ९९ ॥ नेता यस्य
बृहस्पतिः प्रहरणं^१६ वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः
किल हरेरैरावतो वारणः^१७ । इत्याश्चर्यबलान्वितोऽपि बलभि-^१८
द्भूभः परैः सगरे तद्युक्तं वरमेव दैवशरणं धिग्धिग्वृथा
पौरुषम्^१९ ॥ १०० ॥ जातः सूर्यकुले पिता दशरथः क्षोणी-^१९
भुजामग्रणीः सीता सत्यपरायणा प्रणयिनी यस्यानुजो
लक्ष्मणः । दोर्दण्डेन समो न चास्ति भुवने प्रत्यक्षविष्णुः


पादटिप्पण्यः (Footnotes)

वामभागः (Left Column):
१ सभायाम् २ देवतुल्यै ३ पराभवस्य ४ परिणाम ५ नि-
श्चेतव्या ६ अतित्वरया. ७ आकाशसंचारी ८ अन्धकारनाशकर्ता
९ नक्षत्राणाम् १० नक्षत्रविशेषेण, पक्षे,-भिषजां वैद्यानां शतेन
११ समर्थो भवति १२ कृष्ण १३ शबरो जरानामा भिल्ल प्रभासे
परस्पर कलहेनाखिलयादवोपसंहारानन्तरमश्वत्थस्याधस्तादामोरो
दक्षिण पाद निधायस्थिते भगवति जरानाम्ना भिल्लेन दूरतो भगवच्चरण
दृष्ट्वा मृगमुखभ्रमाद्भगवत्पादो बाणेन विद्ध इति भागवते १४ ब्रह्मा
१५ शिरःकर्तनम् १६ आस्ताम् १७ अन्धकारम्

दक्षिणभागः (Right Column):
१ महिषे २ मृगधूतके ३ तमांसि ४ हिमपटलम् ५ हस्तिनाम्
६ चक्रम् ७ सूर्यं ८ दृढत्वम् ९ चन्द्रे, पक्षे,-दैवे १० कपर्दकम्
११ दिवाभीतेन १२ शोधयितुम् १३ समर्थ १४ कुम्भकार
१५ क्षारभूमौ १६ अयुध्यम् १७ गज १८ इन्द्र० १९ नृपाणाम्

Page 109
Page 109 scan
९४सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

स्वयं रामो येन विडम्बितोऽपि विधिना चान्ये जने का कथा ॥ १०१ ॥ जामाता पुरुषोत्तमो भगवती लक्ष्मीः स्वयं कन्यका दूतो यस्य बभूव कौशिकमुनिर्यज्वा वसिष्ठः स्वयम् । दाता श्रीजनकः प्रदानसमये चैकादशस्था ग्रहाः किं ब्रूमो भवितव्यता हतविधे रामोऽपि यातो वनम् ॥ १०२ ॥ आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न चातकोऽपि चरणौ भानुं न लेभेऽरुणः । चन्द्रं शंकरशेखरेऽपि निवसन्पक्षक्षये क्षीयते प्रायः सज्जनसङ्गतोऽपि लभते दैवानुरूपं फलम् ॥ १०३ ॥ आहारे शुचिता ध्वनौ मधुरता वाचालता माधवे$^२$ बन्धौ निर्ममता जनेषु निरता नीडे$^३$ पराधीनता । एतैरेव गुणैर्युताः परभृतस्त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥ १०४ ॥ गीतं कोकिल ते मुदा रसविदः शृण्वन्ति कर्णामृतं नो किंचिद्वितरन्ति ते तरुदलैरेव स्वयं जीवसि । कर्णाग्रैर्मुदमुद्विरन्ति विरुतं काकास्तु तेभ्यो बलिं प्राज्ञा एव दिशन्ति हन्त धिगिदं वक्रं विधेः क्रीडितम् ॥ १०५ ॥ छित्त्वा पाशमपास्य कूटरचना भङ्क्त्वा वलाद्वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निःसृत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगः कूपान्तः पतितः करोति विमुखे किं वा विधौ पौरुषम् ॥ १०६ ॥ लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः स्थित्यर्थं परमेश्वराभ्युपगतस्तेनापि मूर्ध्नि धृतः । वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ १०७ ॥ रामे प्रव्रजनं बलेर्नियमनं पाण्डोः सुताना वनं वृष्णीना निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरण सञ्चिन्त्य लङ्केश्वरे सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ १०८ ॥ भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतिते नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसो तेनैव यातः पथा लोकाः पश्यत दैवमेव हि नृणा वृद्धौ क्षये कारणम् ॥ १०९ ॥ माता यस्य धराघरेन्द्रदुहिता तातो महेशस्तथा भ्राता विघ्नकुलान्तकः पितृसखो देवो धनाना पतिः । ख्यातः क्रौञ्चविदारणे सुरपतेः सेनाग्रग. षण्मुखस्तद्देवबलेन कुत्र घटते नाद्यापि पाणिग्रहः$^१$ ॥ ११० ॥ काश्चित्तुच्छयति प्रपूरयति वा काश्चिन्नयत्युन्नतिं काश्चित्पातविधौ करोति च पुन. काश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसङ्घतिमिमा लोकस्थिति बोधयन्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ १११ ॥

तुल्यं भूभृति$^१$ जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपुस्तुल्यं दोर्वीर्यममुद्गटङ्कदलन$^३$ तुल्यं च पाषाणयोः । एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं तद्वारे विहिता परस्य तु पदाघातास्पद देहली ॥ ११२ ॥ यद्बभ्रं धनुरीश्वरस्य समरे यज्जामदग्न्यो जितस्त्यक्ता येन गुरोर्गिरा वसुमती सेतुः पयोधौ कृतः । एकैक दशकंधरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्ण्य येन सोऽपि सहसा नीतः कथाशेषताम् ॥ ११३ ॥ खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदा भाजनम् ॥ ११४ ॥ भूयिष्ठं द्रविणात्मजं$^४$ जनयितुं लिप्सावता चेतसा नार्यः पञ्च मया क्रमेण कुलजाः काले संमुद्वाहिताः$^५$ । सद्भिद्या कविता विदेशवसतिः सेवा तथाभ्यर्थना दैवेन प्रतिबन्धकेन युगपद्ध्याः$^६$ समस्ताः कृताः ॥ ११५ ॥ मजत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे$^७$ वाणिज्यं कृपिसेवनादिसकला विद्याः कलाः शिक्षतु । आकाशं सकलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नोऽभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ११६ ॥ लक्ष्मीकौस्तुभपारिजातसहजः सूनुः सुधाम्भोनिधेर्देवेन प्रणयप्रसादविधिना मूर्ध्ना धृतः शंभुना । अद्याप्युज्झति नैव दैवविहित क्षैण्य क्षपार्बल्लभः$^८$ केनान्येन विलङ्घ्यते विधिगतिः पाषाणरेखासखी ॥ ११७ ॥ अम्भोधिः स्थलता स्थलं जलधिता धूलीलव. शैलता मेरुमृत्कणता तृणं कुलिशता$^९$ वज्रं तृणप्रायताम् । वह्निः शीतलता हिमं दहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ११८ ॥ जन्म ब्रह्मकुलेऽग्रजो धनपतेर्यः कुम्भकर्णाग्रजः सूनुर्वासवजित्स्वयं दशशिरा दोर्दण्डका विंशतिः । अस्त्रं कौमगर्म$^१०$ विमानमजयं मध्येसमुद्रं पुरी सर्वं निष्फलमेतदेव नियतं दैव पर दुर्जयम् ॥ ११९ ॥ यत्राखण्डेळदन्तिदन्तमुसलान्याखण्डितान्याहवे धारा यत्र पिनाकपाणिपरशोराकुण्ठितामागताः । तेन्मे$^१३$ तावदुरो नृसिंहकरजैर्व्यादीर्यते साप्रतं दैवे दुर्बलता गते तृणमपि प्रायेण वज्रायते ॥ १२० ॥ दोःसद्देहँ$^१४$वंशवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणप्रचण्डचरितो वीरः कुबेरानुजः । यत्रायं स्वयमस्ति सेयममरावत्यापि वन्ध्या पुरी नीता मर्कटकेन कामपि दशा


पादटिप्पण्यः :

१ यस्मिन्विवाहे इति शेष१ पर्वते
२ वसन्ते२ दृढता
३ कुलाये.३ उद्ग्या ये टङ्कास्तैर्दलनम्
४ कोकिला४ द्रविण द्रव्य तदेत्वात्मज पुत्रस्तम्
५ मृगबन्धनी.५ विवाहिता
६ यादववंशीयानाम्६ निष्फला
७ मञ्जूषासकुचितशरीरस्य७ युद्धे.
८ पार्वती८ चन्द्र
९ गजानन९ वञ्जताम्
१० कुबेरः१० इच्छानुकूलगति.
११ विवाह११ इन्द्रस्यैरावत-
१२ शिव.
१३ हिरण्यकशिपोरिकिरियम्.
१४ समूहः
Page 110
Page 110 scan

दैवाख्यानम्, जरावर्णनम् ९५


धिग्दैवमावश्यकम् ॥ १२१ ॥ येनाकारि मृणालपत्रमशनं क्रीडा करिण्या सह स्वच्छन्दं, भ्रमणं च कन्दरगणे पीतं पयो नैर्झरम् । सोऽयं वन्यकरी नरेषु पतितः पुष्णाति देहं तृणैर्दैवेन ललाटपत्रलिखितं तन्मोज्झितुं कः क्षमः ॥ १२२ ॥ दैवेन प्रभुणा स्वय जगति यद्यस्य प्रमाणीकृतं तत्तत्सोपनमेन्मनागपि महान्नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यह सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ १२३ ॥ कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्येनः परिभ्रामति । इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतस्तूर्णं तौ तु यमालयं प्रति गतौ दैवी विचित्रा गतिः ॥ १२४ ॥ रेवोवारिणि वारेणेन विपुले राजीवराजीरजःपुञ्जापिञ्जरतोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे । धौतं येन मृगारिरक्तमसकृद्दन्तान्तरालस्थित कोष्णं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ १२५ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 111
Page 111 scan
९६सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ १४ ॥ श्रुतिः शिथिलता गता स्मृतिरपि प्रनष्टाधुना गतिर्विपथमार्गता विगलिता द्विजाना ततिः । गवामपि च संहृतिः समुचितक्रियाश्च्युता कृता न जरया तया कलियुगस्य साधर्म्यता ॥ १५ ॥ गात्र संकुचित गतिर्विगलिता भ्रष्टा च दन्तावलिर्दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते । वाक्य नाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ १६ ॥ स्थूलप्रावरणोऽतिवृत्तकथकः कासाश्रुलालाविलो भग्नोर्वरूपिट्ठजानुजघनो मुग्धोऽतिथीन्वारयन् । शृण्वन्पृष्ट्वध्रुवचचांसि धनुषा सत्रासयन्वायसानाशापाशनिबद्धजीवविभवो वृद्धो गृहे ग्लायति ॥ १७ ॥ पादौ संस्तम्भयन्ती मुखमपि नमयन्त्यङ्गमाकुञ्चयन्ती हस्तावुत्कम्पयन्ती प्रणयिजनवचो न श्रुतीः श्रावयन्ती । रत्योद्वेङ्गजयन्ती

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 112
Page 112 scan

उदरपूरणदूषणम्, सेवकनिन्दा, जीवितसाफल्यम् ९७


[उदरपूरणदूषणम् - अनुवृत्तम्]

हरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुल्लज्जामित्यहं किं न वेद्मि ।
तदपि वद वदान्य तं सदा प्रत्यहं मां जठरपिठरवर्ती बहिरर्थीकरोति ॥ ७ ॥

गङ्गातरङ्गकणशीकरैःशीतलानि विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमानपरपिण्डरतो मनुष्यः ॥ ८ ॥

अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ ९ ॥

ये वर्धन्ते धनपतिपुरःप्रार्थनादुःखभाजो ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ।
तेषामन्तःस्फुरितहसितं वासराणां क्षरेयं ध्यानच्छेदे शिखरकुहरग्रावशव्यानिषण्णः ॥ १० ॥

मातर्नातः परमनुचितं यत्खलानां पुरस्तादस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।
तत्क्षन्तव्यं सहजरसले वत्सले वाणि कुर्यां प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥ ११ ॥

दीनो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 113
Page 113 scan
९८सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

[वामभागः]

पुत्रवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवि-
तम् ॥ ३ ॥ स जीवति यशो यस्य कीर्तिर्यस्य स जीवति ।
अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः ॥ ४ ॥ चलं
वित्तं चलं चित्तं चले जीवितयौवने । चलाचलमिदं सर्वं
कीर्तिर्यस्य स जीवति ॥ ५ ॥ यस्मिञ्जीवति जीवन्ति बहवः
स तु जीवति । काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूर-
णम् ॥ ६ ॥ स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ७ ॥ अञ्जलि-
रकारि लोकैर्गलानिर्मेनास्त्वैव रञ्जिता जगती । सध्याया इव
वसतिः स्वल्पापि सखे सुखायैव ॥ ८ ॥ यज्जीवति क्षणमपि
प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरमज्यमानम् । तन्नाम
जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिराय
बलिं च भुङ्क्ते ॥ ९ ॥ यो नात्मजे न च गुरौ न च
भृत्यवर्गे दीने दया न कुरुते न च बन्धुवर्गे । किं तस्य
जीवितफलं हि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 114
Page 114 scan

कलिमहिमा ९९

मध्योत्पन्नाः कृतयुगधर्मानुसारिणः किमिति । इति रोषादिव कलिना पीड्यन्ते साधवो बलिना ॥ ८ ॥ नौधीतेऽत्र जनो यदि कश्चिदधीते शते सहस्रे वा । दुस्तर्केषु श्राम्यति दूरीकुरुते श्रुतिस्मृतिसुतर्कान् ॥ ९ ॥ सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा म्रियन्ते जनकश्चिरायुः । परेषु मैत्री स्वजनेषु वैरं पश्यन्तु लोकाः कलिकौतुकानि ॥ १० ॥ एतादृशे कलियुगेऽपि शतेषु कश्चिज्जातादरो जगति यः श्रुतिमार्ग एव । यत्किंचिदाचरतु पात्रमसौ स्तुतीना श्लाघ्य मितौपमपि किं न मैरौ सरश्चेत् ॥ ११ ॥ उपनयनविवाहाद्युत्सवैकप्रधानौ कलिविभवत एषां कालभेदानभिज्ञाः । विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ॥ १२ ॥ न देवे देवत्वं कपटपटवस्तापसजना जनो मिथ्यावादी विरलाुरुद्विजैलधरः । प्रसङ्गो नीचानामवनि-
पतयो दुष्टमनसो जना भ्रष्टा नष्टा अहह कलिकालः प्रभवति ॥ १३ ॥ गता गीता नाशं कचिदपि पुराणं व्यपगतं विलीनाः स्मृत्यर्था निगमनचयो दूरमगमत् । इदानीं रैदासप्रभृतिवचनैर्मोक्षपदवी तदेवं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 115
Page 115 scan

१०० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


मातङ्गाञ्चिकटं गतानगणयन्मार्गान्मुहुर्गाहते ॥ २९ ॥ नीचै-
र्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं भुङ्क्ते पँक्तिवि-
दूषकैः सह नरैरज्ञातवेदाक्षरैः । मद्यास्वादनमत्तचित्तजन-
तामोहाय भीहानितः कर्माण्यारहते श्रुतिस्मृतिवचोदूरार्य्य-
साराण्यहो ॥ ३० ॥ विद्वत्ता वसुधातले विगलिता पाण्डि-
त्यधर्मो गत. श्रोतॄणा हृदयेष्वबुद्धिरधिका ज्ञान गत चारणे ।
गाथागीतविनोदवाक्यरचनायुक्त्या जगद्रञ्जितं ज्योतिवैद्यक
शास्त्रसारमखिलं शूद्रेषु जातं कलौ ॥ ३१ ॥ धिक्त्वा रे कलि-
काल याहि विलयं केयं विपर्यस्तता हा कष्टं श्रुतिशालिना
व्यवहृतिर्म्लेच्छोचिता दृश्यते । एकैर्वाङ्मयदेवता भगवती
विक्रेतुमानीद्यते नि शङ्कैरपरैः परीक्षणविधौ सर्वाङ्गमुद्धाट्यते
॥ ३२ ॥ कन्या

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 116
Page 116 scan

तृतीयं राजप्रकरणम्


राजसभावर्णनम्राजमिलनम्
सभाकल्पतरु वन्दे वेदशास्त्रोपशोभितम् । शास्त्रगुणसमाकीर्णं विद्वद्भ्रमरमण्डितम् ॥ १ ॥ विद्वासः कवयो महागायकाः परिहासकाः । इतिहासपुराणज्ञाः सभा सप्ताङ्गसयुता ॥ २ ॥ धनैर्धर्मैर्मराजैश्च कविभिर्गुरुभिर्वृता । सभा ते भाति भूमीन्द्र सुधर्मातोऽधिका क्षितौ ॥ ३ ॥ सुवर्णवर्णललिता पदविन्यासशालिनी । वाणीव भाति ललिता सभा ते जगतीपते ॥ ४ ॥ विबुधावलिसंपूर्णा सुखपूर्णदिगीश्वरा । चतुराननसंपूर्णा स्वर्गादपि समाधिका ॥ ५ ॥<br>गुरु<sup>१</sup>नेकः कवि<sup>२</sup>रेकः सदसि मघोनः<sup>३</sup> कलाधरो<sup>४</sup>ऽप्येक । अद्भुतमत्र सभाया गुरवः कवयः कलाधराः सर्वे ॥ ६ ॥ अनेकविद्वज्जनरत्नपूर्णं वेदोदकन्यायतरङ्गरम्यम् । अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि ॥ ७ ॥ सारस्वते स्रोतसि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 117
Page 117 scan
१०२सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

असिधारापथे नाथ शत्रुशोणितपिच्छिले । आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः ॥ १३ ॥ कोऽप्यन्यः कल्पवृक्षोऽयमेकोऽस्ति क्षितिमण्डले । यत्पाणिपल्लवोऽप्येकः कुरुतेऽधः सुरद्रुमम् ॥ १४ ॥ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । ^१मार्गणौघः समायाति ^२गुणो याति दिगन्तरम् ॥ १५ ॥ युधिष्ठिरोऽसि भीमोऽसि चरितैरर्जुनो भवान् । पञ्चा सहदेवोऽसि वाच्यता नकुलस्य ते ॥ १६ ॥ बलिकर्णदधीच्याद्याः पुरा पञ्चत्वमागताः । पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे ॥ १७ ॥ एक एव महान्दोषो भवता विमले कुले । लम्पन्ति ^३पूर्वजा कीर्ति जाता जाता गुणाधिकाः ॥ १८ ॥ भ्रमासु रिपुसेनासु नरेन्द्र त्वं महामहा । खङ्गान्तर्निजमेवैकमद्राक्षीः सम्मुख मुखम् ॥ १९ ॥ किं वर्ण्यता कुचद्वन्द्वमस्राः कमलचक्षुषः । आसमुद्रकरग्राही भवान्यत्र करप्रदः ॥ २० ॥ वेधा ^४वेदनयाश्लिष्टो गोविन्दोऽपि ^५गदान्वितः । शम्भुः ^६शूली ^७विषादी च देव केनोपमीयसे ॥ २१ ॥ ^८तृष्णापहारी विमलो ^९द्विजावासो जनप्रियः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 118
Page 118 scan

सामान्यराजप्रशंसा | १०३


थिलेश्र्चैरप्यपराङ्मुखचेतसम् । त्वा पराङ्मुखता निन्युः केवलं परयोषितः ॥ ५० ॥

तव निर्वर्णयद्धूर्णं स्वर्णं वर्णयतो गिर । त्वत्कोशगेहान्निर्गत्य तीर्थेषु वसति ध्रुवम् ॥ ५१ ॥

न समासः समर्थस्य वसु व्याकरणस्य ते । विग्रहो नैव केनापि न परः सर्वनामभाक् ॥ ५२ ॥

अर्थिना कृपणा दृष्टिरस्त्वन्मुखे पतिता सकृत् । तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ ५३ ॥

धैर्यलावण्यगाम्भीर्यप्रमुखैस्तवमुद्वहतः । गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ ५४ ॥

अलौकिकमहालोकप्रकाशितजगत्त्रयः । स्तूयते देव सदृशमुक्तारत्न कैर्भवान् ॥ ५५ ॥

शासति त्वयि हे राजन्नखण्डावनि-मण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ ५६ ॥

मत्वा लोकमदातारं संतोषे यैः कृता मतिः । त्वयि राजनि ते राजन्न तथा व्यत्ययायिनः ॥ ५७ ॥

पद्मोदयदिनाधीशः सदागतिसमीरतः । भूभृदावलिदम्भोलिरेक एव भवान्भुवि ॥ ५८ ॥

सन्नारीभरणोमा यमाराध्य विधुशेखरम् । सन्नारी-भरणोऽमायस्ततस्त्वं पृथिवीं जय ॥ ५९ ॥

देव त्वमेव पातालमेशाना

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 119
Page 119 scan
१०४सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

कण्टककलिताङ्गयष्टयो देव । त्वयि कुपितेऽपि प्रागिव विश्वस्तास्ते रिपुस्त्रियो जाताः ॥ ८१ ॥ सततमुसलासङ्गाद्बहुत्तरगृहकर्मघटनया नृपते । द्विजपत्नीना कठिना. सति भवति कराः सरोजसुकुमाराः ॥ ८२ ॥ कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धृतिरिव धरणी सतत विभाति यस्य तव ॥ ८३ ॥ रत्नसानुशिखराङ्गणफुल्लकल्पपादपतलेषु निष्षणाः । उद्गृह्णन्ति नृपहंस सुवर्ण त्वद्यशः प्रवरकिन्नररामा. ॥ ८४ ॥ गाढकान्तदशनक्षतव्यथासंकटादरिवधुजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्त्युधि रुषा निजाधरम् ॥ ८५ ॥ बलमार्तमयोपशान्तये विदुषा समतये बहुश्रुतम् । वसु तस्य न केवल विभोर्गुणवत्तापि परप्रयोजनम् ॥ ८६ ॥ तावकाः कति न सन्ति मादृशा मादृशस्तु भवदेकजीविनः । अम्बुदस्य कति वा न चातकाश्चातकस्य पुनरेक एव सः ॥ ८७ ॥ निखिलेषु गुणेषु चित्रता ते मनसो वैषवमद्भुत तवैव । न च ते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 120
Page 120 scan

सामान्यराजप्रशंसा १०५


रोहणः । कियदभैरम्बरमावरिष्यते सुधा मुनिर्विन्ध्यमरुद्ध भूधरम् ॥ ११७ ॥ कृतं च गर्वाभिमुखं मनस्त्वया किमन्य देवं निहताश्च नो द्विषः । तमासि तिष्ठन्ति हि तावदंशुमान् यावदायात्युदयाद्रिमौलिताम् ॥ ११८ ॥ अनेन पर्यास्यता- श्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु । प्रत्यर्पिताः शत्रुविलासि- नीनामाक्षेपसूत्रेण विनैव हाराः ॥ ११९ ॥ अधीतिबोधा- चरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवा- न्कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ॥ १२० ॥ अमुष्य विद्या रसनाम्रनर्तकी त्रयीव नीताऽङ्गगुणेन विस्तरम् । अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियम् ॥ १२१ ॥ दृगीशवृन्दारशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् । बभार शास्त्राणि दश द्वयाधिका निजत्रिनेत्रावतरत्वबोधिकाम् ॥ १२२ ॥ पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽधुना के न तपः प्रपेदिरे । भुव यदेकाङ्घ्रिक- निष्ठया स्पृशन्धवावधर्मोऽपि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 121
Page 121 scan

१०६ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्

कृपाणपाणेरालोक्य तस्य चरितानि सप्तदस्रैबा ॥ १४७ ॥
दोर्भ्यां तितीर्षति तरङ्गवतीभुजंगमादातुमिच्छति करे हरिणाङ्कबिम्बम् । मेरु लिलङ्घयिषति ध्रुवमेष देव यस्ते गुणान्वदितुमुद्यममादधाति ॥ १४८ ॥
हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तनतपनवनाम्भोर्म्यगोक्षीरपानैः । सुखमनुभव राजस्त्वद्विषो यान्तु नाश दिवसकमलजालशार्वरीरेणुपङ्गैः ॥ १४९ ॥
विदधतु धरणीशा दानमुच्चैर्धराया प्रभबतु सुजनस्तद्वेरकः पुण्यशीलः । निजपरमतिहीनः केवल सरखदीनस्त्वमिह नृप कुलीनः कार्यकर्ता विभासि ॥ १५० ॥
कवीनां संतापो भ्रमशममितो दुर्गतिरिति त्रयाणा पञ्चत्व रचयसि न तच्चित्रमधिकम् । चतुर्णां वेदाना व्यरचि नवता वीर भवता द्विषत्सेनालीनामयुतमपि लक्षं त्वमकृथाः ॥ १५१ ॥
समाजे सम्राजा सदसि विदुषा धाम्नि धनिना निकाये नीचानामपि च तरुणीना परिषदि । वय यत्रैव स्थक्षणमतिथयस्तत्र शृणुमः स्फुरद्रोमोद्भेदाः सुभग भवत पौरुषकथाः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 122
Page 122 scan
सामान्यराजप्रशंसा१०७
वाम भागदक्षिण भाग
निर्मित त्वमेक इह भूतले बहुविधो विधात्रा<br>कृतः ॥ १७२ ॥ आलोकान्तप्रतिहततमोवृत्तिरासा प्रजाना<br>तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो न. । तिष्ठत्येक<br>क्षणमधिपतिर्ज्योतिषा व्योममध्ये षष्ठे काले त्वमपि लभसे<br>देव विश्रान्तिमेकः ॥ १७३ ॥ अध्याक्रान्ता वसतिरमुना-<br>प्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचि-<br>नोति । अस्यापि द्या स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्य-<br>श्शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १७४ ॥ नैत-<br>च्चित्र यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नो नगरपरि-<br>घप्रांशुबाहुर्भुनक्ति । आशसन्ते समितिशु सुराः सक्तवैरा<br>हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १७५ ॥<br>त्रातु लोकानिव परिणतः काँयानृग्वेद. क्षात्रो धर्म.<br>श्रित इव तनु ब्रह्मकोषस्य गुह्यै । सामर्थ्यानामिव समुदय.<br>सञ्चयो वा गुणानामाविर्भूय स्थित इव जगत्पुन्यनिर्माण-<br>राशिः ॥ १७६ ॥ हेषन्ते यजितजलधरध्वानमेते तुरगा<br>भूमि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 123
Page 123 scan
१०८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

[वाम-भागः]

मेतदधुना त्वद्दानमदैनयोर्मध्ये क नु विजेष्यतीति विषये
दोलायते मे मनः ॥ १९१ ॥ यः पृष्ठं युधि दर्शयत्यरि-
भटश्रेणीषु यो वक्रतां स्वां प्रत्यैव बिभर्ति यश्च किरति
क्रूरध्वनिं निष्ठुरम् । दोषं तस्य तथाविधस्य भजतश्चापस्य
गृह्णन्गुणं विख्यातः स्फुटमेक एव हि भवान् सीमा गुण-
ग्राहिणाम् ॥ १९२ ॥ देव त्वं जय यस्य राजति महाराष्ट्रीकु-
चोच्चं कुलं लाटीबाष्पृदु नर्म चेदिवनितानाम्भीगभीरं मनः।
आभीरीकटिविस्तृता मतिरसिर्गोडीकचश्यामला कर्णाटीरति-
निष्ठुरो रणरसः कीरीमुखाभं यशः ॥ १९३ ॥ ते कौपीन-
धनास्त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति
वाजिनिवहास्तैरेव लब्धा $^{४}$क्षितिः । तैरेतत्सैमलं$^{५}$कृतं निज-
कुलं किंवा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन
तुष्टेन वा ॥ १९४ ॥ साशङ्कस्य समाकुलीकृतमतेरत्यन्त-
निस्तेजसरिच्छिन्नाङ्गस्य विकम्पमानहृदयस्यारूढमन्योर्दृशम् ।
लज्जां सत्यजतः क्रमं विमृशतो विन्नान्बहून्पश्यतः क्लेशो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 124
Page 124 scan

सामान्यराजप्रशंसा १०९

वर्त्म स्मरेत् ॥ २१० ॥ आलानं जयकुञ्जरस्य दृषदा सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन्राजति वैरिराजवनितावैधव्यदस्ते भुजः ॥ २११ ॥ लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिना देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादित चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥ २१२ ॥ नानाभूषणभूषित. प्रतिभयापात्र प्रभूता स्थितिर्मोरासतकरो भवाधिकरुचिर्भूरीकृताश्वद्विपः । शश्वत्संगतभासमानमुकुटो भिक्षुप्रवृद्धादरस्त्व राजेन्द्र रिपुस्तवापि नितरा भेद पर भेदकृत् ॥ २१३ ॥ प्रत्यावासकसज्जता प्रथमतस्त्वा योद्धुमुत्कण्ठिता योधास्तेऽभिसृता मनागरिचमूः स्वाधीननाथा स्थिता । भीत्या प्रोषितभर्तृका समभवत्त्वत्सायकैः खण्डिता दूरादन्तरिता विधाय कलहं हा विप्रलब्धा विधे ॥ २१४ ॥ प्रामाण्य स्वत एव नैव परतो विज्ञायते मानता शब्दस्यापि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 125
Page 125 scan
११०सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्
वाम-स्तम्भःदक्षिण-स्तम्भः
दृष्ट्वैकथामचक्रं सौत्रामणि नास गुरुर्देव खड्गवृन्दवर्षनमहमं कर्तुं कथं शक्त्याम् ॥ २२९ ॥ एकाभ्रुकुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकेरन्या कपोलस्थली । लोलाक्षीं क्षणमात्रभाविविरहक्लेशसहसा पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढा हवाडम्बरम् ॥ २३० ॥ येषा दोर्बलमेव दुर्बलतया ते समतातैरपि प्रायः केवलनीतीरीतिशरंणैः कार्ये किमुर्वीश्वरैः । ये क्ष्माशास्त्रं पुनः पराक्रमनयस्वीकारकान्तक्रमास्ते स्युनैव भवादृशास्खिजगति द्वित्राः पवित्राः परम् ॥ २३१ ॥ अत्युच्चाः परित. स्फुरन्ति गिरयः स्फारास्स्थाम्भोदयस्तानेतानपि बिभ्रती किमपि न क्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहु. स्तुतिमिति प्रस्तौमि यावद्भवस्तावद्विभ्रदिमा स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ २३२ ॥ येषा कण्ठपरिग्रहप्रणयिता सम्प्राप्य धाराधरस्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेह परामोति च । तेषा सगररङ्गमक्तमनसा राज्ञा त्वया भूपते पासूनां पटलै. प्रसाधनविधिर्निर्वर्य्यते कौतुकम् ॥ २३३

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in