सिद्धान्तशिरोमणि: गणिताध्याय (भास्कराचार्य - ग्रहगणित, मध्यमाधिकार व स्पष्टाधिकार सटीक)

सिद्धान्तशिरोमणि: गणिताध्याय (भास्कराचार्य - ग्रहगणित, मध्यमाधिकार व स्पष्टाधिकार सटीक)
Siddhanta Shiromani Ganitadhyaya of Bhaskaracharya with Commentary
by भास्कराचार्य द्वितीय
DevanagariHindipublished573 pages
Page 6 of 573
Read in contextPage 6
An accurate, line-by-line transcription of the text in pure Unicode Devanagari:
viii
श्लो. 4 यो ग्रन्थो महता श्रमेण लिखितः प्रज्ञैर्विशेषैर्युतः
यत्सारोऽपि विपश्चितां सुमनसां सूक्ष्मेक्षिकागोचरः ।
यः कश्चिद्यदि पिष्टपेषणमिदं स्यादित्यबुद्ध्या वदेत्
यद्वा किञ्चिदवेक्ष्य सोऽत्र निहितान् भावान् कथं ज्ञास्यति ॥
श्लो. 5. यः सिद्धान्तशिरोमणिं न पठितः श्रीभास्करार्यस्य य-
श्चऽऽत्मानं लघुपुस्तकेक्षणपरः चेत्पण्डितंमन्यते ।
रत्नोत्तुङ्गतरङ्गितं हिमगिरिप्रस्यन्दि गङ्गाजलम्
हित्वा तेन सुपङ्किलं किल जलं स्नातुं समाश्रीयते ॥
व्याख्याता
डा. धूलिपाळोल्ला अर्कसोमयाजी