शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
by सोमानन्दनाथ (वृत्ति: उत्पलदेव)
About this granth
Shivadrishti (शिवदृष्टि), by Somananda of roughly the ninth to tenth century, is regarded as the first systematic treatise of the Pratyabhijna ("recognition") school of Kashmir Shaivism. His disciple Utpaladeva built on it in the Ishvarapratyabhijna Karikas and wrote a commentary (vritti) on the Shivadrishti itself. Its central claim is that everything is Shiva, who appears as the world by his own will.
In seven chapters (ahnikas) it sets out Shiva's ultimate nature, his freedom and all-pervasiveness, and the reflective power of Shakti; it then rejects the grammarians' doctrine of the Word as Brahman and examines Vaisheshika, Sankhya, Buddhist and Vedanta positions, closing with the proof that all things are Shiva and a discussion of absorption (samavesha).
This edition, the eighth volume of the Shri Shivoham Sagar Granthamala, gives the text with Utpaladeva's vritti and notes by Madhusudan Kaul. It was edited with an introduction and published by Sarvadarshanacharya Krishnanand Sagar under the direction of Mahamandaleshwar Swami Akhandanand Sagar. The 188-page copy is from the Kendriya Sanskrit Vidyapeetha library, Jaipur.
३० उत्पलदेवकृतवृत्त्योपेता [ आ०-२
दशासौ ज्ञानशक्तेः सदाशिवरूपत्वात् परापरव्यवस्थात्र । तेषां पुनः सा
परावस्था मता । सदाशिवरूपत्वे¹ च क्रियाशक्तिरपि न परित्यक्ता ।
यदुक्तं--
'ज्ञानक्रिये सादाख्यम्'
इति । शक्तिशक्तिमतोरभेदात्² ज्ञानशक्तिमान् सदाशिवः, उद्रिक्तक्रिया-
शक्तिरीश्वर इति । अत³ एवेच्छाशक्तिमयः शिवो यावच्चित्स्वातन्त्र्य-
शक्तिमान् पर्यन्ते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] शिवदृष्टिः ३१
इति,
'प्रशान्तप्रत्यवभासा १ च ।'
इति, अन्यद्वा अपि अतोऽधिकतरं प्रकृष्टरूपमस्याः स्यात्; तथापि सरो २
रस इति मध्यमायामुन्मिषतः क्रमस्य कारणभूतायां तत्क्रमशक्तिरस्त्येव ।
यदुक्तं--
'प्रतिसंहृतक्रमाप्यन्तः सत्यपि अभेदे समाविष्टक्रमशक्तिः
पश्यन्ती ।'
इति । ततो न सा पूर्णा ३ पर्यन्तदशेति कथं तस्याः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२ उत्पलदेवकृतवृत्त्योपेता [ आ०-२
स एव चात्मेत्याह--
स¹ एवात्मा सर्वदेहव्यापकत्वेन वर्तते² ।
अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम्³ ॥ ३ ॥
या अन्तः पश्यदवस्था⁴ भोक्तृतारूपा ज्ञेयरूपशून्यं चिद्रूपत्वं चैतन्य-
मात्रं स एवात्मा कथ्यते, सर्वदेहव्यापकस्तद्भोगायतनावस्थितो⁵ भोग्यं
भुङ्क्ते ॥ ३ ॥
स एव⁶ परमात्मा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३३
तदर्थप्रकाशनव्यापार इन्द्रियाद्यालोचनाद्युपायोपयोगो नास्ति
देशकालजात्यवच्छेदश्च१, अत एव सर्वतो देशात् कालाच्च यः क्रमस्तदुप-
पदेशमात्रं ब्रह्मतत्त्वं क्रमस्यैव२ संसाररूपत्वात्, अतश्च सर्वग्राह्यग्राहका-
कारवर्जितं, ततः परतरस्याभावात्३ पराकाष्ठा, प्राप्तं तत् स एव च
परमार्थः पश्यन्तीरूपः ॥ ५
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३४ शिवदृष्टि; आ०-२
अत्रापि बिन्दुनादमरुत्क्रमात् सा पश्यन्ती संप्राप्ता वक्रकुहरमिति
योज्यम्। तदुक्तं—
'प्राणो वर्णानभिव्यज्य वर्णेष्वेव प्रलीयते।' वाक्यप० १।११६
इति। ततो वक्त्रोदरं प्राप्ता कण्ठादिस्थानभागेषु विभक्तककारादिवर्ण -
रूपा वैखरी वर्ण्यते—
'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा।
वैखरी वाक्प्रयोक्तॄणां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३५
विवर्ततेऽर्थभावेन १ प्रक्रिया जगतो यतः ॥ ९ ॥
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १० ॥
अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
इत्यादिवाक्यरचनैस्तैरेवं प्रतिपादितम् ॥ ११ ॥
यस्मात्तैर्वैयाकरणैः सद्भिः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६ शिवदृष्टिः [ आ०-२
अविभागा तु पश्यन्ती देशकालक्रमसंहारवती चेति आदिग्रहणात्
प्रावप्रदर्शितमध्यमावैखर्यादिवाक्यरुक्तमिति १ ॥ ११ ॥
तदिदानीं विचार्यत इत्याह--
तद्विचाराय२ राद्धान्तः३ संप्रत्येष विधीयते ।
वैयाकरणोक्तविचारार्थं सिद्धान्तो वक्ष्यमाणो युक्तियुक्तत्वात्४ यः,
स परिनिष्ठां५ प्राप्यते ॥
तथाचेताह--
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३७
प्रथमं तावद्वाचोयुक्तिरेवैषा¹ विरुद्धा। तथा हि वाक् स्थिता अति-
स्थूलकर्मेन्द्रियत्वे, बुद्धीन्द्रियस्य बोधोपयोगोऽपि भवेत्, तस्य पर्यन्तवर्त्तिन
आत्मनो ब्रह्मतत्त्वस्य वा संबन्धी स्वभावो भवेत्, तस्मात् तैः पूर्ववत्साधु-
भिस्तद्रूपत्वं वक्तुमेव न शक्यम् ॥ १२ ॥
तस्या² अविद्यायां स्थितत्वात् पाणिपादादिव्यावृत्त्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३८ शिवदृष्टिः [ आ०-२
अत्रोपासनया सिद्धिर्देवतायोगितेति चेत् ॥ १५ ॥
योगशास्त्रेषु सर्वेषां देवतासिद्धियोगिता ।
ये वै वाचमुपासते, तेषां तद्विदां सिद्धिरुक्ता, वागीश्वरी चाधि-
ष्ठातृदेवता तत्रास्तीति सा सत्या,--इत्येतदपि न, योगशास्त्रादिषु
अधिष्ठातृदेवताः, करणानां महाभूतानां च धारणावशात् सिद्धयोऽपि ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३६
विमर्शानुभवेनैषा१ यथा वाक् प्रथमं श्रिता ।
लक्ष्यते बोधरूपेण न तथा चरणादिकम् ॥ १९ ॥
इति चेच्चर्च्यतां तावत्पश्यन्ती युज्यते यथा ।
सांख्यादिसिद्धान्तेषु रचना वाक्कर्मेन्द्रियमिति प्रणेतृसंबन्धि-
कल्पनामात्रमेतत्, न तु परमार्थसंवित्पर्यालोचनस्पर्शोऽस्ति । न च प्रक्रिया
परमार्थविचारेषु संबद्धतां याति । तथा हि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४० शिवदृष्टिः [ आ०-२
यद्याभासान् घटपटादिरूपान् इदन्तया पश्यति, तत् तेषां सत्या-
सत्यताविचारे सत्यता तावदसत्यविभक्तान्यरूपोपग्राहितात्मकं विवर्त-
मिच्छद्भिः दर्शनभ्रंशभयान्न वाच्या, असत्ये पुनर्दृश्ये नासत्यार्थदर्शित्वे
पश्यन्त्याः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४१
स्वरूपत्वे कस्य दर्शनम्, अतोऽपरिदृष्टानेव सृजेत्, तत् ज्ञातेषु सृष्टि-
रिति पक्षो नोपपन्नः। अथवा अज्ञातेषु सृष्टिरिति न भवतां दर्शनं नाभ्यु-
पगम इत्यर्थः। अज्ञातेष्वपि बुद्धिमतामबुद्धिपूर्वा कथं सृष्टिः। निष्प्रयोजना
च कथं स्यात् सृष्टिः। क्रीडैव स्रष्टुः सृष्टिः सृष्टिस्वभावत्वं वेति हि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४० शिवदृष्टिः [ आ०-२
यद्याभासान् घटपटादिरूपान् इदन्तया पश्यति, तत् तेषां सत्या-
सत्यताविचारे सत्यता तावदसत्यविभक्तान्यरूपोपग्राहितात्मकं विवर्त-
मिच्छद्भिः दर्शनभ्रंशभयान्न वाच्या, असत्ये पुनर्दृश्ये नासत्यार्थदर्शित्वे
पश्यन्त्याः सत्यतायोगः ॥ २१ ॥
अविद्यावादोऽपि न युक्त इत्याह--
गृह्णात्यथाविद्यया
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inस्वरूपत्वे कस्य दर्शनम्, अतोऽपरिदृष्टानेव सृजेत्, तत् ज्ञातेषु सृष्टि-
रिति पक्षो नोपपन्नः। अथवा अज्ञातेषु सृष्टिरिति न भवतां दर्शनं नाभ्यु-
पगम इत्यर्थः। अज्ञातेष्वपि बुद्धिमतामबुद्धिपूर्वा कथं सृष्टिः। निष्प्रयोजना
च कथं स्यात् सृष्टिः। क्रीडैव स्रष्टुः सृष्टिः सृष्टेस्वभावत्वं वेति हि भवतां
नेष्टम्॥ २५॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४२ शिवदृष्टिः [ आ०-२
दानाय पुनर्विकल्पिते प्रयोजनं विनैवाविद्याकृतः सर्ग¹ इति पर्या²-
लोचयन्नाह—
अविद्यास्याः स्वधर्मः³ किं परधर्मोऽथवा भवेत् ॥ २८ ॥
स्वधर्मत्वेऽस्या⁴ मालिन्यं परधर्मेऽपि कस्य सा⁵ ।
परस्य शास्त्रानिष्टस्य⁶ स्वतन्त्रा वा तथापि सा ॥ २९ ॥
स्वातन्त्र्याद्दुर्न्निवारैव स्वतन्त्रः⁷ केन वार्यते ।
अविद्या किं पश्यन्त्याः स्वधर्मः, उत परधर्मः ?
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४३
पश्यन्त्या लक्षितासौ वा न वा यदि न लक्षिता ।
पश्यन्ती जाड्यमायाति¹ लक्षिता तर्हि लक्षिता ॥ ३१ ॥
वस्तूनि हि तत्त्वान्यत्वनित्यत्वानित्यत्वादिभिर्वस्तुधर्मैर्वाच्यानि ।
अवस्तु पुनरविद्या निःस्वभावा कथं स्वभाववत्तया व्यपदेशार्हा
स्यादिति चेत्, तद्वस्तुभूता सा पश्यन्त्या दृष्टा न वा । यदि न दृष्टा,
तर्हि पश्यन्ती
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४४ शिवदृष्टिः [ आ०-२
भावभेदसिद्धयन्यथानुपपत्त्या तथात्वेनाविद्या१ यदि लक्षिता
अनुमितेत्यर्थः । एवं तर्हि लक्षितैव, तत्किमित्यलक्षितत्वमुच्यतेऽस्या
अवाच्यत्वं वा ॥
एवमपि२ न सिद्ध्येत्याह--
न चानुमानमिष्टं तेऽप्यवस्थेत्यादिदूषणात् ॥ ३३ ॥
न चापि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४५
सत्या वा स्यादसत्या वा न मध्यायाः१ समन्वयः ।
विद्या२ न भवतीत्येवं तत्तुल्या काचिदापतेत् ॥ ३४ ॥
सत्यैव यदि विद्यानामभावस्तर्हि३ शून्यता ।
शून्यया बाध्यते चित्रं पश्यन्ती दर्शनात्मिका । ३५ ॥
सत्या सति सत्ये साधुः सती वा स्यादविद्या, असत्या तद्विपरीता
वेत्यर्थः । न मध्यायाः संभवः सदासतोः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४६ शिवदृष्टिः [ आ०-२
बाधेनैव द्वैतभ्रान्तिः, अकिञ्चिद्रूपस्य बाधनशक्त्यभावान्न संभवत्येतदित्यर्थः ।
पश्यन्ती च नेश्वरप्रत्यभिज्ञोक्तन्यायेन शब्दनात्मिका परमेश्वरशक्तिरिष्यते
भवद्भिरीश्वरोपगमप्रसङ्गात्१, अपि तु सूक्ष्मो वाच्याभेदेन स्थितो वाचकः
शब्द इत्येवं शब्दात्मासौ ॥ ३५ ॥
इन्द्रियत्वाभावेऽपि पाण्यादि२ यथा पार्थिवत्वान्न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४७
बुद्ध्या सम्बन्धोऽन्तःकरणे प्राणापानपथे तस्या एवावस्थानात्, न तु
पश्यन्त्याः१ ॥ ३७ ॥
इतदपि२ नेत्याह—
तत्रापि मध्यमा कस्य कार्यं पश्यन्त्यवस्थया।
सा जन्या३ हेतुना केन शबलां जनयेदसौ ॥ ३८ ॥
तत्रापि मध्यमाया बुद्धिपदे वेद्यवेदकद्वैतावभासिनि स्थिताया अविद्या-
योग इत्यभ्युपगमे मध्यमा४ वाक् कदाचिद्भावात्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in