षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
by सामवेदीय वैदिक ऋषि मण्डल
About this granth
The Shadvimsha Brahmana (षड्विंश ब्राह्मण) belongs to the Kauthuma school of the Samaveda. It is treated as a supplement to the Tandya or Panchavimsha ("twenty-five") Brahmana, hence its name, "the twenty-sixth". In Sayana's words it describes rites not covered earlier and variants of those already given. It opens with the Subrahmanya invocation and goes on to the three pressings of the soma sacrifice, stomas, rites of sorcery and expiations.
Its final part, known separately as the Adbhuta Brahmana, lists portents such as earthquakes, eclipses, untimely rain and images that tremble or weep, with rites to pacify each, and is an early source for Indian omen lore and shanti rituals.
This edition prints the text with Sayanacharya's commentary, the Vedarthaprakasha, whose opening verses record that King Bukka commissioned him to explain the Vedas. Footnotes give variant readings from several manuscripts, making it a critical edition, in 226 pages.
८१ षड्विंशब्राह्मणम्
प्रकारान्तरेण तद्भूतं प्रशंसति—
तदु विद्वांसमाहुरति नोऽवादीरिति तदना-
दृत्यम् ॥ १० ॥
तत् व्रतं विद्वांसं संजानानमुद्गातारं यद्येवमाहुरन्ये त्वं नोऽत्यवादीस्त्व-
मस्मानतिक्रम्यावादीरिति । ततस्तेनैषां वाक्यमनादृत्यम् । तेन विदुषां तदना-
दरणीयम् । एतदुक्तं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीयोऽध्यायः (३) ८३
निधनेन प्रकृतेन समानं गायेदित्यर्थः । तथा च सति तस्य यज्ञे धुरो
विगीताश्च भवन्ति । संगीताश्च भवन्ति । विगानं संगानं चोभयमपि कृतं
भवति । उभयमप्यवश्यं कर्तव्यमेव । धुरां चक्षुरादिरूपत्वेन संस्तावनात्
चक्षुरादीनां च बहिर्मुखे[न] पृथक्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयो यजमानस्य प्रजाः कल्पेरन् समर्थाः प्रजा भवेयुरिति । किं च,
यजमानो यथादिष्टं स्यात् संकल्पसिद्धिश्च भवेदिति यदि कामयेत उद्गाता
तर्हि यथाज्यम् आज्येषु चतुर्ष्वपि क्रमेण तत्तत्प्रथमासु चतस्रो धुरः सकृत्—
सकृद् गायेत् । तेन अस्य यजमानस्य प्रजाः कल्पन्ते । यजमानो यथादिष्टं
च भवति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्थः खण्डः
अथोत्तरत्र होत्रादीनामग्न्यादिरूपेण व्यवहारः क्रियते । तदुपयोगित्वेन
प्रकीर्णकान् कांश्चिद् धर्मानाह —
प्राञ्चमग्निमुन्नयन्ति तस्मात् प्राङासीनो होतान्वाह
प्राङासीनो यजति । प्राङासीनः शंसति ॥ १ ॥ 5
यस्मादग्नेरुन्नेतारः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Page 86]
[Header] ८६ षड्विंशब्राह्मणम्
अथशब्दो वाक्योपक्रमे । यत एष चन्द्रमा दक्षिणेन पथा एति
गच्छति तस्माद् ब्रह्माणं दक्षिणतो दक्षिणदिग्भागे आसयन्ति
उपवेशयन्ति ॥ ३ ॥
अन्यं धर्मं दर्शयति—
अथैतस्यामुदीच्यां दिशि भूयिष्ठं [पर्जन्यो] विद्योतते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीयोऽध्यायः (४) ८७
पञ्चर्चेन शस्त्रेण स्तुतिं कुर्वन्ति । उत अपि च भूयसा बह्वीभिः ऋग्भिः
साध्येन शस्त्रेण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपञ्चमः खण्डः
अथ चमसभक्षणायोपहवादयः कथ्यन्ते + तत्र प्रथमं प्रातःसवन-
संबन्धीन् उपहवान् दर्शयति—
स प्रातःसवने सवनमुखीयेष्वाहृतेषूपहवमिच्छते ॥१॥
स यजमानः चमसं भक्षयितुं प्रातःसवने सवनमुखीयेषु चमसेषु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीयोऽध्यायः (५) ८९
ब्रह्मविषयं तत्प्रकारं दर्शयति—
चन्द्रमा मे ब्रह्मा स मोपह्वयतां ब्रह्मन्नुप
माह्वयस्वेत्युच्चैः ॥ ४ ॥
मे मम चन्द्रमा एव ब्रह्मा । शिष्टं पूर्ववत् ॥ ४ ॥
उद्गातृविषयं तत्प्रकारं दर्शयति—
पर्जन्यो म
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in९० षड्विंशब्राह्मणम्
तत्प्रकारदर्शनमिति । अग्निर्में होतेत्यादयो ये मन्त्रास्ते याजमानाः । तथा
चानुकल्पे दर्शितम् । प्रथमः सवनमुखीयोऽग्निर्में होतेति याजमानमिति ॥८॥
यथोक्तं होत्राद्युपहवप्रकारं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठः खण्डः
अथ माध्यंदिनसवनसंबन्धिन उपह्वान् दर्शयति—
माध्यंदिने सवने सवनमुखीयेष्वाहूतेषूपहव-
मिच्छते ॥ १ ॥
पूर्ववद्व्याख्येयम् ॥ १ ॥
कथमित्याशङ्क्य, तत्र प्रथमं होत्रादिविषयोपह्वप्रकारं दर्शयति—
वाङ्मे होता स मोपह्वयतां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inत्युच्चैः अङ्गानि मे चमसाध्वर्यवस्ते मोपह्वयन्तां चमसाध्वर्यव
उप माह्वयध्वमित्युच्चैः ॥ ३ ॥
अन्तश्चक्षुषि चक्षुषोर्मध्ये योऽयमाकाशः स एव मे सदस्यः ।
अन्तश्चक्षुषि या इमाः परिदृश्यमाना आपः ता एव होत्राशंसिनः । मम
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसप्तमः खण्डः
अथ तृतीयसवनसंबन्धिनम् उपह्वं दर्शयति—
स तृतीयसवने सवनमुखीयेष्वाहुतेषूपहव-
मिच्छते ॥ १ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[header] ९४ षड्विंशब्राह्मणम् [/header]
मे होत्राशंसिनः । देहवर्तीनि लोमानि एव मम चमसाध्वर्यवः उपाङ्गस्व-
साम्यात् । समानमन्यत् । एते प्राणो मे होतेत्यादयोऽपि मन्त्रा याजमानाः ।
तथा चानुकल्पः—
प्राणे मे होतेति याजमानमिति ॥ ३ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदेवानामेव यज्ञस्य एतत् मुखं यदुद्गातृचमसं तत्र स्थितं सोमात्मकं
हविः । यत एवं तस्मात् उद्गातृचमसम् अन्यो वषट्कर्ता न भक्षयेत् ॥ ८ ॥
यथोक्तार्थस्य वेदितारं प्रशंसति—
एवं विदुषो ह वै यज्ञो न व्यथते । एवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयाध्यायः
अथार्त्विज्येषु ऋत्विजां यजमानस्य च विज्ञेयं प्रतिपाद्यते । तत्र प्रथमं
होतुर्विज्ञेयं दर्शयति—
यद्धोता जहाति वाग्ध तद्यजमानं जहाति । स
• यत्त्करोति स्वां वाचं यजमाने दधाति । स विष्वङ् वाचा-
मुष्मिल्लोके संभवति ॥ १ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽध्यायः (१) ९७
अध्वर्युः यत् स्वीयं कर्म अज्ञानात् जहाति तत् तेन चक्षुरेव यजमानं
जहाति । चक्षुर्मेऽध्वर्युर् (ष. ब्रा. २.६.२) इत्युक्तत्वात् । किं च स्वयमपि
चक्षुषा इह लोके विष्वङ् सर्वं जानन् । समानमन्यत् । अतोऽध्वर्युणा स्वकर्म
सम्यग् विज्ञेयमित्यभिप्रायः ॥ २ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in९८ षड्विंशब्राह्मणम्
सदस्यविज्ञेयं दर्शयति—
यत्सदस्यो जहाति आत्मा ह तद्यजमानं जहाति ।
स यत्तत् करोति स्वात्मानं यजमाने दधाति । स
विष्वङ्ङात्मनामुष्मिंल्लोके संभवति ॥ ५ ॥
सदस्यः स्वीयं कर्माज्ञानाज्जहाति चेदात्मैव यजमानं जहाति । योऽय-
मन्तःपुरुष आकाशः स मे सदस्यः (ष. ब्रा. २.७.३) इति आत्मत्वेनो-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयदि चमसाध्वर्यवः स्वीयं कर्म अज्ञानात् त्यजन्ति लोमान्येव
यजमानं त्यजन्ति । लोमानि मे चमसाध्वर्यवः (ष. ब्रा. ३. ७. ३)
इत्युक्तत्वात् । समानमन्यत् ॥ ७ ॥
यथोक्तमुपसंहरति—
तस्मादेवंविद्यज्ञे हीनं न कुर्यात् ॥ ८ ॥
यस्मादेवं तस्मादेवंवित् यथोक्तप्रकारेण स्वकर्म जानन् ऋत्विक् यज्ञे
हीनम् अङ्गवैकल्यं न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीयः खण्डः
इदानीमौपोद्धातिकमाह—
स यदि पशुतो व्याधीयेताध्वर्युर्म इदमकरिति
विद्यात् । अथ यद्येनं पापिका कीर्तिरनूदियाद्धोता म इद-
मकरिति विद्यात् । अथ यद्यस्य योगक्षेमो व्यथेत ब्रह्मा
म इदमकरिति विद्यात् । अथ यद्यात्मना वा प्रजया वा
व्याधीयेतोद्गाता म इदमकरिति विद्यात् ॥ १ ॥
तत्र स यजमानः यदि पशुतो पशुभ्यो व्याधीयेत भ्रश्येत तर्हि मे
मम इदम् अनिष्टम् अध्वर्युः स्वकर्मपरित्यागेनाकार्षीदिति विद्याज्जानीयात् ॥
अथ पुनर्यद्येनं यजमानं पापिका पापसंबन्धिनी कीर्तिरनूदियात्
अनुगच्छेत् तर्हि ममेदं कष्टं होता स्वकर्मत्यागेनाकार्षीदिति विद्यात् ॥
अथ पुनः यद्यस्य योगक्षेमो व्यथेत नश्येत् तर्हि ब्रह्मेदं कष्टम-
कार्षीदिति विद्यात् ॥
अथ यद्यसौ आत्मना वा आध्यात्मिकक्लेशेन प्रजया पुत्रादिकया वा
व्याधीयेत विपन्नो भवेत् तर्हि उद्गाता ममेदमनिष्टमकार्षीदिति
विद्यादिति ॥ १ ॥
2. KM add एव after इदानीम्.
8. RSIK om. तत्र ; RSI add म्रियेत after व्याधीयेत; Bh J
भ्रश्येत् for भ्रश्येत and adds तत thereafter.
9. M. अध्वर्युकर्तृकं for अध्वर्युः and adds स तु मे thereafter.
10. RSI यद्येनं पापिका कीर्तिः अपयशोऽस्यजमानो नूदियात् भवेत् for
यद्येनं...अनुगच्छेत्.
11. Bh MTJ om. तर्हि; RSI. अनिष्टं for कष्टं.
12. RSI अनिष्टं for कष्टं.
14. J. यद्यस्य for यद्यसौ; R. ऽव्याध्या, Bh T साध्या for वा.
15. RSI विहीनो० for विपन्नो०.
तृतीयोऽध्यायः (२) १०१
अथ नैमित्तिकान् होमान् दर्शयति—
प्राणदैवत्यो वै ब्रह्मा । वाग्देवत्या इतर ऋत्विजः ।
स यदि मन्येत ब्रह्मा म इदमकरिति हरितं हिरण्यं
दर्भनाड्या प्रबध्य स्रुच्यवधाय चतुर्गृहीतमाज्यं गृहीत्वा
जुहुयान्नमः प्राणाय वाचस्पतये स्वाहेति । यद्यु वा इतरे
नमो वाचे प्राणपत्न्यै स्वाहेति । यदीतरो यदि वेतरे सर्वे-
ष्वेवानुपर्यायं जुहुयान्नमः प्राणाय वाचस्पतये स्वाहा नमो
वाचे प्राणपत्न्यै स्वाहेति ॥ २ ॥
ब्रह्मा प्राणदैवत्यो वै प्राणदैवत्यः खलु । व्यानो मे ब्रह्मेति
व्यानाख्यप्राणात्मकत्वेनोक्तत्वात् । ब्रह्मणः इतरे होत्रादयः ऋत्विजो वाग्दे-
वत्याः । वाङ्मे होतेत्यादिश्रुतेः । तत्र यदि स यजमानो ब्रह्मा मे मम यज्ञे
इदम् अहितम् अकः अकार्षीद् इति मन्येत निश्चिनुयात् तर्हि हरितं
पार्थिवावयवोपष्टम्भाद्धरितवर्णं हिरण्यं दर्भनाड्या प्रबध्य प्रग्रथ्य स्रुच्यवधाय
निधाय आज्यं चतुर्गृहीतं गृहीत्वा नमः प्राणाय वाचस्पतये स्वाहेत्यनेन
मन्त्रेण चोदिताग्नौ जुहुयात् । अथ पुनर्यदि वै यद्येव इतरे होत्रादयो
ऋत्विजो मम यज्ञे हीनमकार्षुरिति यजमानो मन्येत तर्हि नमो वाचे प्राण-
पत्न्यै स्वाहेत्यनेन मन्त्रेण पूर्ववच्चतुर्गृहीतमाज्यं जुहुयात् । यदि वा इतरो
ब्रह्मा, यदि वा इतरे होत्रादयः सर्वेऽपि न्यूनमकार्षुरिति यजमानो मन्येत तर्हि
4. Bh. Concludes with प्रबध्य.
6. TS चेतरे for वेतरे.
10. J ०त्मकत्वात् for ०त्मकत्वेनोक्तत्वात् .
11. KT अत्र, M कुत्र for तत्र.
12. T हीनम् M मम for अहितम्; RSI om. अकः.
13. J. om. हिरण्यं.
15. RSI. चोदितं होमं, J चोदितेन, T चोदितोऽसौ, K. चोदितः सन्
for चोदिताग्नौ.
17. J adds गृहीत्वा after आज्यं.
18. J. adds यदि before यजमानो.