Skip to content
SarvaKosh
Back to the archive

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

by आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री)

Report a copyright issue

DevanagariHindipublished558 pages

About this granth

The Tattvartha Sutra of Acharya Umasvami (Umasvati, also called Gridhrapichchha) is the one Jain sutra text accepted by both the Digambara and Shvetambara traditions. In ten chapters it presents right faith, right knowledge and right conduct as the path to liberation and explains the seven tattvas: soul, non-soul, influx, bondage, stoppage, shedding of karma, and release.

Sarvarthasiddhi (सर्वार्थसिद्धि) is the Sanskrit commentary on it by Acharya Pujyapada (Devanandi), the oldest and most authoritative Digambara exposition, on which later works such as Akalanka's Tattvartharajavartika build.

This edition by Pandit Phoolchandra Siddhantashastri gives the commentary with a full Hindi translation. It was published by Bharatiya Jnanpith in the Murtidevi Granthamala (Sanskrit No. 13); the scan is of the second edition of 1971. Topics run from the three jewels and the nayas, kinds of souls and the cosmos, through matter, space and time, the vows and the eight kinds of karma, to meditation, omniscience and liberation, in 558 pages.

Page 116
Page 116 scan

§ ४. किं तर्हि । तत् त्रितयं समुदितमित्याह ।
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥
§ ५. सम्यगित्युव्युत्पन्नः शब्दो व्युत्पन्नो वा । अञ्चतेः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 117
Page 117 scan
  • १।१ § ८ ] प्रथमोऽध्यायः ५
    ज्ञानम् । चरति चर्यतेऽनेन चरणमात्रं वा चारित्रम् । नन्वेवं स एव कर्ता स एव करणमित्यायातम् ।
    तच्च विरुद्धम् । सत्यं, स्वपरिणामपरिणामिनोर्भेदविवक्षायां तथाभिधानात् । यथाग्निर्दहतीन्धनं
    दाहपरिणामेन । उक्तः कर्त्रादिसाधनभावः पर्यायपर्यायिणोरेकत्वानेकत्वं प्रत्यनेकान्तोपपत्तौ
    स्वातन्त्र्यपारतन्त्र्यविवक्षोपपत्तेरेकस्मिन्नप्यर्थे न विरुध्यते । अग्नौ दहनादिक्रियायाः कर्त्रादिसाधन-
    भाववत् । ५
    § ७. ज्ञानग्रहणमादौ न्याय्यं, दर्शनस्य तत्पूर्वकत्वात् अल्पाच्तरत्वाच्च । नैतद्युक्तं, युग-
    पदुत्पत्तेः । यदास्य दर्शनमोहस्योपशमात्क्षयात्क्षयोपशमाद्वा आत्मा सम्यग्दर्शनपर्यायेणाविर्भवति
    तदैव तस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 118
Page 118 scan

६ सर्वार्थसिद्धौ [ १।२ § ९-
समस्तस्य¹ मार्गभावज्ञापनार्थः । तेन व्यस्तस्य मार्गत्वनिवृत्तिः कृता भवति । अतः सम्यग्दर्शनं
सम्यग्ज्ञानं सम्यक्चारित्रमित्येतत् त्रितयं समुदितं मोक्षस्य साक्षान्मार्गो वेदितव्यः ।
§ ९. तत्रादावुद्दिष्टस्य सम्यग्दर्शनस्य लक्षणनिर्देशार्थमिदमुच्यते—
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥२॥
५ § १०. तत्त्वशब्दो भावसामान्यवाची । कथम् । तदिति सर्वनामपदम् । सर्वनाम च सामान्ये
वर्तते । तस्य भावस्तत्त्वम् । तस्य कस्य । योऽर्थो यथावस्थितस्तथा तस्य भवनमित्यर्थः । अर्थत³
इस प्रकार जो एकवचन रूपसे निर्देश किया है वह, सब मिलकर मोक्षमार्ग है, इस बातके जतानेके
लिए किया

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 119
Page 119 scan
  • १२ § १२ ] प्रथमोऽध्यायः ७
    इत्यर्थो निश्चीयत इति यावत् । तत्त्वेनार्थस्तत्त्वार्थः । अथवा भावेन भाववतोऽभिधाम्, तदव्य-
    तिरेकात् । तत्त्वमेवार्थस्तत्त्वार्थः । तत्त्वार्थस्य श्रद्धानं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं प्रत्येत्तव्यम् ।
    तत्त्वार्थश्च वक्ष्यमाणो जीवादिः ।
    § ११. दृशेरालोकार्थत्वात् श्रद्धानार्थगतिर्नोपपद्यते । धातूनामनेकार्थत्वाददोषः । प्रसिद्धार्थ- ५
    त्यागः कुत इति चेन्मोक्षमार्गप्रकरणात् । तत्त्वार्थश्रद्धानं ह्यात्मपरिणामो मोक्षसाधनं युज्यते,
    भव्यजीवविषयत्वात् । आलोकस्तु चक्षुरादिनिमित्तः सर्वसंसारिजीवसाधारणत्वान्न मोक्षमार्गो
    युक्तः ।
    § १२. अर्थश्रद्धानमिति चेत्सर्वार्थप्रसङ्गः । तत्त्वश्रद्धानमिति चेद्भावमात्रप्रसङ्गः । 'सत्ता-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 120
Page 120 scan

विशेषार्थ—इस सूत्रमें सम्यग्दर्शनके लक्षणका निर्देश करते हुए बतलाया है कि जीवादि
पदार्थोंके श्रद्धानको सम्यग्दर्शन कहते हैं। इस सूत्रकी व्याख्या करते हुए टीकामें मुख्यतया
चार बातोंको स्पष्ट किया है। वे चार बातें ये हैं—(१) तत्त्व और अर्थ शब्दके निरुक्त्यर्थका
निर्देश करके तत्त्वार्थ शब्द कैसे निष्पन्न हुआ है? (२) 'दृशि' धातुका अर्थ श्रद्धान करना
क्यों लिया गया है? (३) तत्त्व और अर्थ इन दोनों पदोंको स्वीकार करनेसे क्या लाभ है?
(४) सम्यग्दर्शनके कितने भेद हैं और उनका क्या स्वरूप है? प्रकृतमें यद्यपि 'तत्' सर्वनाम
पद है और 'त्व' प्रत्यय भाव अर्थमें होता है अतः 'तत्त्व' शब्द भाव सामान्यका वाचक है
और अर्थपद द्रव्यवाची है। तथापि अर्थ शब्दके धन, प्रयोजन, अभिधेय,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 121
Page 121 scan
  • १३ § १९ ] प्रथमोऽध्यायः ९
    § १३. अथैतत्सम्यग्दर्शनं जीवादिपदार्थविषयं१ कथमुत्पद्यत इत्यत आह—
    तन्निसर्गादधिगमाद्वा ॥३॥
    § १४. निसर्गः स्वभाव इत्यर्थः । अधिगमोऽर्थावबोधः । तयोर्हेतुत्वेन निर्देशः । कस्याः ।
    क्रियायाः । का च क्रिया । उत्पद्यत इत्यध्याह्रियते, सोपस्कारत्वात् सूत्राणाम् । २तदेतत्सम्यग्दर्शनं
    निसर्गादधिगमाद्वोत्पद्यत इति । ५
    § १५. अत्राह-निसर्गजे सम्यग्दर्शनेऽर्थाधिगमः स्याद्वा न वा । यद्यस्ति, तदपि अधिगमजमेव
    नार्थान्तरम् । अथ नास्ति, कथमनवबुद्धतत्त्वस्यार्थश्रद्धानमिति । नैष दोषः । उभयत्र सम्यग्दर्शने,
    अन्तरङ्गे हेतुस्तुल्यो दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा । तस्मिन्सति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 122
Page 122 scan

१० सर्वार्थसिद्धौ [ १।३ § १६ -
§ १६. तद्ग्रहणं किमर्थम् । अनन्तरनिर्देशार्थम् । अनन्तरं सम्यग्दर्शनं तदित्यनेन निर्दिश्यते ।
इतरथा मोक्षमार्गोऽपि प्रकृतस्तस्याभिसंबन्धः स्यात् । ननु च 'अनन्तरस्य¹ विधिर्वा भवति प्रतिषेधो
वा' इत्यनन्तरस्य सम्यग्दर्शनस्य ग्रहणं सिद्धमिति² चेन्न, 'प्रत्यासत्तेः प्रधानं बलीयः' इति मोक्षमार्ग
एव संबध्येत । तस्मात्तद्वचनं क्रियते ।
§ १७. तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । अथ किं तत्त्वमित्यत इदमाह—
जीवादि पदार्थोंके ज्ञानके निमित्तसे होता है वह अधिगमज सम्यग्दर्शन है। यही इन दोनोंमें भेद है।
§ १६. शंका—सूत्रमें 'तत्' पदका ग्रहण किसलिए किया है ? समाधान—इस सूत्रसे पूर्व
सूत्रमें

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 123
Page 123 scan
  • १।४ § १९ ] प्रथमोऽध्यायः ११
    जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥
    § १८. तत्र चेतनालक्षणो जीवः । सा^१ च ज्ञानादिभेदादनेकधा भिद्यते । तद्विपर्ययलक्षणो-
    ऽजीवः । शुभाशुभकर्मागमद्वाररूप आस्रवः । आत्मकर्मणोरन्योऽन्यप्रदेशानुप्रवेशात्मको बन्धः ।
    आस्रवनिरोधलक्षणः संवरः । एकदेशकर्मसंक्षयलक्षणा निर्जरा । कृत्स्नकर्मवियोगलक्षणो मोक्षः ।
    एषां प्रपञ्च उत्तरत्र वक्ष्यते । सर्वस्य फलस्यात्माधीनत्वाददौ जीवग्रहणम् । तदुपकारार्थत्वात्तद- ५
    नन्तरमजीवाभिधानम् । तदुभयविषयत्वात्तदनन्तरमास्रवग्रहणम् । तत्पूर्वकत्वात्तदनन्तरं बन्धाभि-
    धानम् । संवृतस्य बन्धाभावात्तत्प्रत्यनीकप्रतिपत्त्यर्थं^३ तदनन्तरं संवरवचनम् । संवरे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 124
Page 124 scan

१२ सर्वार्थसिद्धौ [ १।४ § २० –
§ २०. तत्त्वशब्दो भाववाचीत्युक्तः । स कथं जीवादिभिर्द्रव्यवचनैः सामानाधिकरण्यं
प्रतिपद्यते । अव्यतिरेकात्तद्भावाध्यारोपाच्च सामानाधिकरण्यं भवति । यथा 'उपयोग एवात्मा'
इति । यद्येवं तत्तल्लिङ्गसंख्यानुवृत्तिः प्राप्नोति । "विशेषणविशेष्यसंबन्धे सत्यपि शब्दशक्ति-
व्यपेक्षया उपात्तलिङ्गसंख्याव्यतिक्रमो न भवति ।' अयं क्रम आदिसूत्रेऽपि योज्यः ।
§ २१. एवमेषामुद्दिष्टानां सम्यग्दर्शनादीनां जीवादीनां च संव्यवहारविशेषव्यभिचारनिवृ-
त्त्यर्थमाह—
जाता है। जैसे क्षत्रिय आये हैं और शूरवर्मा भी, यहाँ यद्यपि शूरवर्माका क्षत्रियोंमें अन्तर्भाव हो जाता
है तो भी प्रयोजनके अनुसार उसका अलगसे ग्रहण किया है। इसी

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 125
Page 125 scan
  • १५ § २२ ] प्रथमोऽध्यायः १३
    नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥
    § २२. अतद्गुणे वस्तुनि संव्यवहारार्थं 'पुरुषकारात्रियुज्यमानं संज्ञाकर्म नाम । काष्ठपुस्तकचित्र-
    कर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना । गुणैर्गुणान्वा द्रुतं गतं गुणैर्द्रोष्यते गुणान्द्रोष्य-
    तीति वा द्रव्यम् । वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः । तद्यथा, नामजीवः स्थापनाजीवो द्रव्यजीवो ५
    भावजीव इति चतुर्धा जीवशब्दार्थो न्यस्यते । जीवनगुणमनपेक्ष्य यस्य कस्यचिन्नाम क्रियमाणं नाम
    जीवः । अक्षनिक्षेपादिषु जीव इति वा मनुष्यजीव इति वा व्यवस्थाप्यमानः स्थापनाजीवः । द्रव्य-
    जीवो द्विविधः आगमद्रव्यजीवो नोआगमद्रव्यजीवश्चेति । तत्र जीवप्राभृतज्ञायी

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 126
Page 126 scan

विधिना१ शब्दार्थः प्रस्तीर्यते । तच्छब्दग्रहणं किमर्थम् । सर्वसंग्रहार्थम् । असति हि तच्छब्दे
सम्यग्दर्शनादीनां प्रधानानामेव न्यासेनाभिसंबन्धः स्यात्, तद्विषयभावेनोपगृहीतानां जीवादीनां
अप्रधानानां न स्यात् । तच्छब्दग्रहणे पुनः क्रियमाणे सति सामर्थ्यात्प्रधानानामप्रधानानां च ग्रहणं
सिद्धं भवति ।
§ २३. एवं नामादिभिः प्रस्तीर्णानामधिकृतानां तत्त्वाधिगमः कुतः । इत्यत इदमुच्यते—
प्रमाणनयैरधिगमः ॥६॥
§ २४. नामादिनिक्षेपविधिनोपक्षिप्तानां जीवादीनां २तत्त्वं प्रमाणाभ्यां नयैश्चाधिगम्यते ।
प्रमाणनया वक्ष्यमाणलक्षणविकल्पाः । तत्र प्रमाणं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 127
Page 127 scan
  • ११६ § २४ ] प्रथमोऽध्यायः १५
    श्रुतवेर्जम् । श्रुतं पुनः स्वार्थं भवति परार्थं च । ज्ञानात्मकं स्वार्थं वचनात्मकं परार्थम् । तद्विकल्पा
    नयाः२ । अत्राह - नयशब्दस्य अल्पाच्तरत्वात्पूर्वनिपातः प्राप्नोति । नैष दोषः । अभ्यर्हितत्वात्प्रमा-
    णस्यै पूर्वनिपातः । अभ्यर्हितत्वं च सर्वतो बलीयः । कुतोऽभ्यर्हितत्वम् । नयप्ररूपणप्रभवयोनित्वात् ।
    एवं ह्युक्तं "प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारणं नयः" इति । सकलविषयत्वाच्च
    प्रमाणस्य । तथा चोक्तं - "सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीनः" इति । नयो द्विविधो ५
    द्रव्यार्थिकः पर्यायार्थिकश्च । पर्यायार्थिकनयेनँ भावतत्त्वमधिगन्तव्यम् । इतरेषां त्रैयाणां द्रव्यार्थिक-
    नयेन, सामान्यात्मकत्वात् । द्रव्यमर्थः प्रयोजनमस्येत्यसौ

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 128
Page 128 scan

१६ सर्वार्थसिद्धौ [ १।७ § २५ -
§ २५. एवं प्रमाणनयैरधिगतानां जीवादीनां पुनरप्यधिगमोपायान्तरप्रदर्शनार्थमाह—
निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥
§ २६. निर्देशः स्वरूपाभिधानम् । स्वामित्वमाधिपत्यम् । साधनमुत्पत्तिनिमित्तम् । अधि-
करणमधिष्ठानम् । स्थितिः कालपरिच्छेदः । विधानं प्रकारः । तत्र सम्यग्दर्शनं किमिति प्रश्ने
तत्त्वार्थश्रद्धानमिति निर्देशो नामादिर्वा¹ कस्येत्युक्ते सामान्येन जीवस्य । विशेषेण गत्यनुवादेन
नरकगतौ सर्वासु पृथिवीषु नारकाणां पर्याप्तिकानामौपशमिकं क्षायोपशमिकं चास्ति । प्रथमायां
पृथिव्यां पर्याप्तापर्याप्तिकानां क्षायिकं क्षायोपशमिकं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 129
Page 129 scan
  • १।७ § २७ ] प्रथमोऽध्यायः १७

मौपशमिकमस्ति । क्षायिकं क्षायोपशमिकं च पर्याप्तापर्याप्तानाम् । तिरश्चीनां क्षायिकं नास्ति¹ ।
औपशमिकं क्षायोपशमिकं च पर्याप्तिकानामेव नापर्याप्तिकानाम् । मनुष्यगतौ मनुष्याणां पर्याप्ता-
पर्याप्तानां क्षायिकं क्षायोपशमिकं चास्ति । औपशमिकं पर्याप्तिकानामेव नापर्याप्तिकानाम् । मानु-
षीणां त्रितयमप्यस्ति पर्याप्तिकानामेव नापर्याप्तिकानाम्² । देवगतौ³ देवानां पर्याप्तापर्याप्तानां त्रितय-
मप्यस्ति । औपशमिकमपर्याप्तिकानां कथमिति चेच्चारित्रमोहोपशमेन सह मृतान्प्रति⁴ । भवनवासि- ५
व्यन्तरज्योतिष्काणां देवानां देवीनां च सौधर्मैशानकल्पवासिनीनां च क्षायिकं नास्ति । तेषां
पर्याप्तिकानामोपशमिकं क्षायोपशमिकं चास्ति ।
§ २७. इन्द्रियानुवादेन पञ्चेन्द्रियाणां संज्ञिनां त्रितयमप्यस्ति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 130
Page 130 scan

शमिकं नास्ति, इतरद् द्वितयमप्यस्ति । सूक्ष्मसांपराययथाख्यातसंयतानामौपशमिकं क्षायिकं
चास्ति । संयतासंयतानां असंयतानां १ च त्रितयमप्यस्ति । दर्शनानुवादेन चक्षुदर्शनाचक्षुदर्शनावधि-
दर्शिननां त्रितयमप्यस्ति । केवलदर्शिनां क्षायिकमेव । लेश्यानुवादेन षड्लेश्यानां त्रितयमप्यस्ति ।
अलेश्यानां क्षायिकमेव । भव्यान्वादेन भव्यानां त्रितयॅमप्यस्ति नाभव्यानाम् । सम्यक्त्वानुवादेन
५ यत्र यत्सम्यग्दर्शनं तत्र तदेव ज्ञेयम् । संज्ञानुवादेन संज्ञिनां त्रितयमप्यस्ति नासंज्ञिनाम् ।
तदुभयव्यपदेशरहितानां क्षायिकमेव आहारानुवादेन आहारकाणां त्रितयमप्यस्ति । अनाहारकाणां
छद्मस्थानां त्रितयमप्यस्ति केवलिनां समुद्घातगतानां क्षायिकमेव ।
स्थापना

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 131
Page 131 scan
  • १७ § २८ ] प्रथमोऽध्यायः १९

§ २८. साधनं द्विविधं अभ्यन्तरं बाह्यं च । अभ्यन्तरं दर्शनमोहस्योपशमः क्षयः क्षयोपशमो
वा । बाह्यं नारकाणां प्राक्चतुर्थ्याः सम्यग्दर्शनस्य साधनं केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं
केषांचिद्वेदनाभिभवः । चतुर्थीमारभ्य आ सप्तम्या नारकाणां जातिस्मरणं वेदनाभिभवश्च ।
तिरश्चां केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिज्जिनबिम्बदर्शनम् । मनुष्याणामपि तथैव ।
देवानां केषांचिज्जातिस्मरणं केषांचिद्धर्मश्रवणं केषांचिज्जिनमहिमदर्शनं केषांचिद्देवर्द्धिदर्शनम् । ५
एवं प्रागानतात् । आनतप्राणतारणाच्युतदेवानां देवर्द्धिदर्शनं मुक्तान्यत्त्रितयमप्यस्ति । नवग्रैवेयक-
वासिनां केषांचिज्जातिस्मरणं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 132
Page 132 scan

§ २९. अधिकरणं द्विविधं अभ्यन्तरं बाह्यं च । अभ्यन्तरं स्वस्वामिसम्बन्धार्ह एव आत्मा;
विवक्षातः कारकप्रवृत्तेः । बाह्यं लोकनाडी । सा कियती । एकरज्जुविष्कम्भा चतुर्दशरज्ज्वायामा ।
§ ३०. स्थितिरौपशमिकस्य जघन्योत्कृष्टा चान्तर्मुहूर्तकी । क्षायिकस्य संसारिणो जघन्या-
न्तर्मुहूर्तकी । उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहूर्ताष्टवर्षहीनपूर्वकोटिद्वयाधिकानि । मुक्तस्य
सादिरपर्यवसाना । क्षायोपशमिकस्य जघन्यान्तर्मुहूर्तकी उत्कृष्टा षट्षष्ट्रिसागरोपमाणि ।
§ ३१. विधानं सामान्यादेकं सम्यग्दर्शनम् । द्वितयं निसर्गजाधिगमजभेदात् १। त्रितयं
औपशमिकक्षायिकक्षायोपशमिकभेदात् । एवं संख्यैया विकल्पाः शब्दतः । असंख्येया अनन्ताश्च
भवन्ति श्रद्धातृश्रद्धातव्यभेदात् । एवमयं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 133
Page 133 scan
  • १।८ § ३३ ] प्रथमोऽध्यायः २१
    § ३२. किमेतैरेव जीवादीनामधिगमो भवति उत अन्योऽप्यधिगमोपायोऽस्तीति परि-
    पृष्टोऽस्तीत्याह—
    सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥८॥
    § ३३. सदित्यस्तित्वनिर्देशः १। स प्रशंसादिषु वर्तमानो नेह गृह्यते । संख्या भेदगणना ।
    क्षेत्रं निवासो वर्तमानकालविषयः । तदेव स्पर्शनं त्रिकालगोचरम् । कालो द्विविधः मुख्यो व्याव- ५
    हारिकश्च । तयोरुत्तरत्र निर्णयो वक्ष्यते । अन्तरं विरहकालः । भावः औपशमिकादिलक्षणः । अल्प-
    बहुत्वमन्योऽन्यापेक्षया विशेषप्रतिपत्तिः । एतैश्च सम्यग्दर्शनादीनां जीवादीनां चाधिगमो वेदितव्यः ।
    ननु च निर्देशादेव सद्ग्रहणं सिद्धम् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 134
Page 134 scan

§ ३४. तत्र जीवद्रव्यमधिकृत्य सदाद्यनुयोगद्वारनिरूपणं क्रियते । जीवाश्चतुर्दशसु गुण-
स्थानेषु व्यवस्थिताः । मिथ्यादृष्टिः सासादनसम्यग्दृष्टिः सम्यङ्मिथ्यादृष्टिः असंयतसम्यग्दृष्टिः संयता-
संयतः प्रमत्तसंयतः अप्रमत्तसंयतः अपूर्वकरणस्थाने उपशमकः क्षपकः अनिवृत्तिबादरसांपराय-
स्थाने उपशमकः क्षपकः सूक्ष्मसांपरायस्थाने उपशमकः क्षपकः उपशान्तकषायवीतरागछद्मस्थः
५ क्षीणकषायवीतरागछद्मस्थः सयोगकेवली अयोगकेवली चेति । एतेषामेव जीवसमासानां निरूप-
णार्थं चतुर्दश मार्गणास्थानानि ज्ञेयानि । गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्या-
भव्यसम्यक्त्वसंज्ञाहारका इति ।
§ ३५. तत्र सत्प्ररूपणा द्विविधा सामान्येन विशेषेण च । सामान्येन अस्ति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 135
Page 135 scan
  • १।८ § ४१ ] प्रथमोऽध्यायः २३
    सयोगकेवली अयोगकेवली १ चेति ।
    § ३७. ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्टिः सासादनसम्यग्दृष्टिश्चां-
    स्ति । आभिनिबोधिकश्रुतावधिज्ञानेषु असंयतसम्यग्दृष्ट्यादीनि क्षीणकषायान्तानि सन्ति । मनः-
    पर्ययज्ञाने प्रमत्तसंयतादयः क्षीणकषायान्ताः सन्ति । केवलज्ञाने सयोगोऽयोगश्च ।
    § ३८. संयमानुवादेन संयताः प्रमत्तादयोऽयोगकेवल्यन्ताः । सामायिकच्छेदोपस्थापनाशुद्धि- ५
    संयताः प्रमत्तादयोऽनिवृत्तिस्थानान्ताः । परिहारविशुद्धिसंयताः प्रमत्ताश्चाप्रमत्ताश्च । सूक्ष्मसांप-
    रायशुद्धिसंयता एकस्मिन्नेव सूक्ष्मसांपरायस्थाने ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in