रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
by सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य)
Page 8 of 94
Read in contextआयुर्वेदीयग्रन्थमाला ।
श्रीनित्यनाथसिद्धविरचितरसरत्नाकरस्य
चतुर्थो
रसायनखण्डः ।
प्रथमोपदेशः ।
मङ्गलाचरणम् ।
जयति स रसराजो मृत्युशङ्कापहारी
सकलगुणनिधानं कायकल्पाधिकारी ।
वलिपलितविनाशं सेवितो वीर्यवृद्धिं
स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ १ ॥
देहसिद्धेः प्रशंसा ।
अथातः संप्रवक्ष्यामि देहसिद्धिं सुशोभनाम् ।
यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २ ॥
न देहेन विना किंचिदिष्टमस्ति जगत्त्रये ।
तस्मात्सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ ३ ॥
रसायनसेवनस्य पूर्वकर्म ।
शुभनक्षत्रदिवसे वमने रेचने कृते ।
ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ ४ ॥
त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् ।
विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ ५ ॥
क्वथितं त्रिदिनं पीतमम्लदोषहरं परम् ।
श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ ६ ॥
१ 'तस्याः' ख. । २ लवणभक्षणजनितदोषहरमित्यर्थः ।