Skip to content
SarvaKosh
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

Page 665 of 735

Read in context
Page 665
६०६रघुवंशमहाकाव्ये

उन्होने ब्रह्मिष्ठ नाम के अपने ब्रह्मज्ञानी पुत्र को राज्य दे दिया और स्वयं ब्रह्म प्राप्ति के लिए वन में तप करने चले गये ॥ २८ ॥

तस्मिन्कुलापीडानिभे विपीडं सम्यङ्म्हीं शासति शासनाङ्काम् ।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ २९ ॥

अन्वयः—कुलापीडनिभे सुप्रजसि तस्मिन् प्रजेशे शासनाङ्कां महीं विपीडं विधाय सम्यक् शासति आनन्दजलाविलाक्ष्यः प्रजाः चिरं ननन्दुः ।

तस्मिन्निति । कुलपीडनिभे कुलशेखरतुल्ये । 'वैकक्षकं तु तत् । यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरो' इत्यमरः । सुप्रजसि सत्संतानवति । "नित्यमसिच्प्रजामेधयोः" इत्यसिच्प्रत्ययः । तस्मिन्प्रजेशे प्रजेश्वरे ब्रह्मिष्ठे शासनाङ्कां शासनचिह्नां महीं विपीडं निर्बाधं यथा तथा सम्यक्शासति सति आनन्दजलाविलाक्ष्य आनन्दबाष्पाकुलनेत्राः प्रजाश्चिरं ननन्दुः ।

भाषार्थ—श्रेष्ठ प्रजावाले ब्रह्मिष्ठ अपने कुलके शिरोमणि थे, उन्होंने बड़ी योग्यता से प्रजा का शासन किया, उनके सुन्दर शासन को देखकर प्रजाओं को आनन्द के आँसू आ जाते थे, उनके शासन में प्रजा बहुत दिनों तक सुख भोगती रही ॥ २९ ॥

पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्रसंख्याम् ॥ ३० ॥

अन्वयः—गुरुसेवनेन पात्रीकृतात्मा पत्ररथेन्द्रकेतोः स्पष्टाकृतिः पुष्करपत्रनेत्रः पुत्रः तं पुत्रिणां अग्रसंख्यां समारोपयेत् ।

पात्रीकृतेति । गुरुसेवनेन पित्रादिशुश्रूषया पात्रीकृतात्मा योग्यीकृतात्मा । 'योग्यभाजनयोः पात्रम्' इत्यमरः । पत्ररथेन्द्रकेतोर्गरुडध्वजस्य स्पष्टाकृतिः स्पष्टवपुः तत्सरूप इत्यर्थः । आकृतिः कथिता रूपे सामान्यवपुषोरपि' इति विश्वः । पुष्करपत्रनेत्रः पद्मदलाक्षः पुत्राख्यो राजा यद्वा पुत्रशब्द आवर्तनीयः पुत्रः सुतः तं ब्रह्मिष्ठं पुत्रिणामग्रसंख्यां समारोपयत् । अग्रगण्यं चकारेत्यर्थः ।

भाषार्थ—उनके पुत्र ने उन्हें पुत्रवानों का शिरोमणि बना दिया, वे पिता की सेवा-सुश्रूषा करने से बड़े योग्य थे, वे गरुडध्वज विष्णु के समान सुन्दर थे और उन कमललोचन का नाम भी पुत्र ही था ॥ ३० ॥

वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः ।
उपस्पृशन्स्पर्शानिवृत्तकौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥ ३१ ॥